पाण्डुतीर्थमाहात्म्यवर्णनम्
मार्कण्डेय उवाच
पाण्डुतीर्थं ततो गच्छेत्सर्वपापविनाशनम् ।
तत्र स्नात्वा नरो राजन्मुच्यते सर्वकिल्बिषैः
॥१॥तत्र तीर्थे तु यः स्नात्वा दापयेत्काञ्चनं शुचिः ।
भ्रूणहत्यादिपापानि नश्यन्ते नात्र संशयः
॥२॥पिण्डोदकप्रदानेन वाजपेयफलं लभेत् ।
पितरः पितामहाश्च नृत्यन्ते च प्रहर्षिताः
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पाण्डुतीर्थमाहात्म्यवर्णनं नाम षोडशाधिकशततमोऽध्यायः ॥