मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १५२

3
अवन्तीखण्डः · रेवाखण्डः · 152

भार्गलेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेद्धरापाल भार्गलेश्वरमुत्तमम् ।

शङ्करं जगतः प्राणं स्मृतमात्राघनाशनम्

॥१॥

तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।

अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः

॥२॥

तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करिष्यति ।

अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम्

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भार्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विपञ्चाशदधिकशततमोऽध्यायः ॥