कुमारेश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र कुमारेश्वरमुत्तमम् ।
प्रसिद्धं सर्वतीर्थानामगस्त्येश्वरसन्निधौ
॥१॥षण्मुखेन पुरा तात सर्वपातकनाशनम् ।
आराध्य परया भक्त्या सिद्धिः प्राप्ता नराधिप
॥२॥देवसैन्याधिपो जातः सर्वशत्रुनिबर्हणः ।
उग्रतेजा महात्मासौ संजातस्तीर्थसेवनात्
॥३॥तदाप्रभृति तत्तीर्थं संजातंनर्मदातटे ।
तत्र तीर्थे तु यो गत्वा एकचित्तो जितेन्द्रियः
॥४॥कार्त्तिकस्य चतुर्दश्यामष्टम्यां च विशेषतः ।
स्नापयेद्गिरिजानाथं दधिदुग्धेन सर्पिषा
॥५॥गीतं तत्र प्रकर्तव्यं पिण्डदानं यथाविधि ।
ब्राह्मणैः श्रोत्रियैः पार्थ षट्कर्मनिरतैः शुभैः
॥६॥यत्किंचिद्दीयते तत्र अक्षयं पाण्डुनन्दन ।
सर्वतीर्थमयं तीर्थ निर्मितं शिखिना नृप
॥७॥एतत्ते सर्वमाख्यातं कुमारेश्वरजं फलम् ।
कुमारदर्शनात्पुण्यं प्राप्यते पाण्डुनन्दन
॥८॥मृतः स्वर्गमवाप्नोति सत्यमीश्वरभाषितम्
॥९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुमारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिषष्टितमोऽध्यायः ॥