यत्र सिद्धिं परां प्राप्तः सोमराजः सुरोत्तमः
मार्कण्डेय उवाच
ततो गच्छेन्महीपाल चन्द्रहासमतः परम् ।
यत्र सिद्धिं परां प्राप्तः सोमराजः सुरोत्तमः
॥१॥युधिष्ठिर उवाच
कथं सिद्धिं परां प्राप्तः सोमनाथो जगत्पतिः ।
तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ
॥२॥श्रीमार्कण्डेय उवाच
पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत ।
असेवनाद्धि दाराणां क्षयरोगी भविष्यसि
॥३॥उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् ।
या निष्ठा जायते नृणां तां शृणुष्व नराधिप
॥४॥ऋतावृतौ हि नारीणां सेवनाज्जायते सुतः ।
सुतात्स्वर्गश्च मोक्षश्च इत्येवं श्रुतिभाषितम्
॥५॥तत्कालोचितधर्मेण वेष्टितो रौरवे पतेत् ।
तस्यास्तद्रुधिरं पापः पिबते कालमीप्सितम्
॥६॥ततोऽवतीर्णः कालेन यां यां योनिं प्रयास्यति ।
तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा
॥७॥नारीणां तु सदा कामोऽभ्यधिकाः परिवर्तते ।
विशेषेण ऋतौ काले पीड्यते कामसायकैः
॥८॥परिभूता हिता भर्त्रा ध्यायन्तेऽन्यं पतिं स्त्रियः ।
ततः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम्
॥९॥स्वर्गस्थास्तेन पितरः पूर्वजास्ते पितामहाः ।
पतन्ति जातमात्रेण कुलटस्तेन चोच्यते
॥१०॥तेन कर्मविपाकेन क्षयरोग्यभवच्छशी ।
त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकमुपागतः
॥११॥ततस्तीर्थान्यनेकानि पुण्यान्यायतनानि च ।
भ्रमन्वै नर्मदां प्राप्तः सर्वपापप्रणाशनीम्
॥१२॥उपवासं च दानानि व्रतानि नियमांस्तथा ।
चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः
॥१३॥स्नापयित्वा महादेवं सर्वपातकनाशनम् ।
जगाम प्रभया पूर्णः स च लोकमनुत्तमम्
॥१४॥येनैव स्थापितो देवः पूज्यते वर्षसंख्यया ।
तावद्वर्षसहस्राणि रुद्रलोके स पूज्यते
॥१५॥तेन देवान्विधानोक्तान्स्थापयन्ति नरा भुवि ।
अक्षयं चाव्ययं यस्मात्कालं भुञ्जन्ति मानवाः
॥१६॥सोमतीर्थे नरः स्नात्वा पूजयेद्देवमीश्वरम् ।
स भ्राजते नरो लोके सोमवत्प्रियदर्शनः
॥१७॥चन्द्रहासे तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः ।
स्नानं समाचरेद्भक्त्या मुच्यते सर्वकिल्बिषैः
॥१८॥तत्र स्नानं च दानं च चन्द्रहासे शुभाशुभम् ।
कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम्
॥१९॥ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
चन्द्रहासे तु ये स्नात्वा पश्यन्ति ग्रहणं नराः
॥२०॥वाचिकं मानसं पापं कर्मजं यत्पुराकृतम् ।
स्नानमात्रेण राजेन्द्र तत्र तीर्थे प्रणश्यति
॥२१॥बहवस्तं न जानन्ति महामोहसमन्विताः ।
देहस्थमिव सर्वेषां परमानन्दरूपिणम्
॥२२॥पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् ।
तत्समग्रमवाप्नोति चन्द्रहासे न संशयः
॥२३॥संक्रान्तौ च व्यतीपाते अयने विषुवे तथा ।
चन्द्रहासे नरः स्नात्वा सर्वपापैः प्रमुच्यते
॥२४॥ते मूढास्ते दुराचारास्तेषां जन्म निरर्थकम् ।
चन्द्रहासं न जानन्ति ये रेवायां व्यवस्थितम्
॥२५॥चन्द्रहासे तु यः कश्चित्संन्यासं कुरुते द्विजः ।
अनिवर्तिका गतिस्तस्य सोमलोकान्न संशयः
॥२६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकविंशत्युत्तरशततमोऽध्यायः ॥