मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १६९

3
अवन्तीखण्डः · रेवाखण्डः · 169

माण्डव्यो यत्र संसिद्ध ऋषिर्नारायणस्तथा

श्रीमार्कण्डेय उवाच

ततो गच्छेत्परं तीर्थं पुण्यं पापप्रणाशनम् ।

माण्डव्यो यत्र संसिद्ध ऋषिर्नारायणस्तथा

॥१॥

नारायणेन शुश्रूषा शूलस्थेन कृता पुरा ।

तत्र स्नात्वा महाराज मुच्यते पापकञ्चुकात्

॥२॥

युधिष्ठिर उवाच

आश्चर्यमेतल्लोकेषु यत्त्वया कथितं मुने ।

न दृष्टं न श्रुतं तात शूलस्थेन तपः कृतम्

॥३॥

एतत्सर्वं कथय मे ऋषिभिः सहितस्य वै ।

अस्य तीर्थस्य माहात्म्यं माण्डव्यस्य कुतूहलात्

॥४॥

श्रीमार्कण्डेय उवाच

शृणु राजन्यथावृत्तपुरा त्रेतायुगे क्षितौ ।

लोकपालोपमो राजा देवपन्नो महामतिः

॥५॥

धर्मज्ञश्च कृतज्ञश्च यज्वा दानरतः सदा ।

प्रजा ररक्ष यत्नेन पिता पुत्रानिवौरसान्

॥६॥

दात्यायनी प्रिया भार्या तस्य राज्ञो वशानुगा ।

हारनूपुरघोषेण झङ्काररवनादिता

॥७॥

परस्परं तयोः प्रीतिर्वर्धतेऽनुदिनं नृप ।

वंशस्तम्बे स्थितो राजा संशास्ति पृथिवीमिमाम्

॥८॥

हस्त्यश्वरथसम्पूर्णां धनवाहनसंयुताम् ।

अलंकृतो गुणैः सर्वैरनपत्यो महीपतिः

॥९॥

दुःखेन महताविष्टः संतप्तः सन्ततिं विना ।

स्नानहोमरतो नित्यं द्वादशाब्दानि भारत

॥१०॥

व्रतोपवासनियमैः पत्नीभिः सह तस्थिवान् ।

आराधयद्भगवतीं चामुण्डां मुण्डमर्दिनीम्

॥११॥

स्तोत्रैरनेकैर्भक्त्या च पूजाविधिसमाधिना ।

जय वाराहि चामुण्डे जय देवि त्रिलोचने

॥१२॥

ब्राह्मि रौद्रि च कौमारि कात्यायनि नमोऽस्तु ते ।

प्रचण्डे भैरवे रौद्रि योगिन्याकाशगामिनि

॥१३॥

नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे ।

राज्ञा स्तुता च संतुष्टा देवी वचनमब्रवीत्

॥१४॥

वरयस्व यथाकामं यस्ते मनसि वर्तते ।

आराधिता त्वया भक्त्या तुष्टा दास्यामि ते वरम्

॥१५॥

देवपन्न उवाच

यदि तुष्टासि देवेशि वरार्हो यदि वाप्यहम् ।

पुत्रसन्तानरहितं संतप्तं मां समुद्धर

॥१६॥

सन्तानं नय मे वृद्धिं गोत्ररक्षां कुरुष्व मे ।

अपुत्रिणां गृहाणीह श्मशानसदृशानि हि

॥१७॥

पितरस्तस्य नाश्नन्ति देवता ऋषिभिः सह ।

क्रियमाणेऽप्यहरहः श्राद्धे मत्पितरः सदा

॥१८॥

दर्शयन्ति सदात्मानं स्वप्ने क्षुत्पीडितं मम ।

इति राज्ञो वचः श्रुत्वा देवी ध्यानमुपागता

॥१९॥

दिव्येन चक्षुषा दृष्टं त्रैलोक्यं सचराचरम् ।

प्रसन्नवदना देवी राजानमिदमब्रवीत्

॥२०॥

सन्तानं नास्ति ते राजंस्त्रैलोक्ये सचराचरे ।

यजस्व यज्ञपुरुषमपत्यं नास्ति तेऽन्यथा

॥२१॥

मया दृष्टं महीपाल त्रैलोक्यं दिव्यचक्षुषा ।

एवमुक्त्वा गता देवी राजा स्वगृहमागमत्

॥२२॥

इयाज यज्ञपुरुषं संजाता कन्यका ततः ।

तेजस्विनी रूपवती सर्वलोकमनोहरा

॥२३॥

देवगन्धर्वलोकेऽपि तादृशी नास्ति कामिनी ।

तस्या नाम कृतं पित्रा हर्षात्कामप्रमोदिनी

॥२४॥

ततः कालेन ववृधे रूपेणास्तम्भयज्जगत् ।

हंसलीलागतिः सुभ्रूः स्तनभारावनामिता

॥२५॥

रक्तमाल्याम्बरधरा कुण्डलाभरणोज्ज्वला ।

दिव्यानुलेपनवती सखीभिः सा सुरक्षिता

॥२६॥

कुचमध्यगतो हारो विद्युन्मालेव राजते ।

भ्रमराञ्चितकेशी सा बिम्बोष्ठी चारुहासिनी

॥२७॥

कर्णान्तप्राप्तनेत्राभ्यां पिबन्तीवाथ कामिनः ।

चन्द्रताम्बूलसौरभ्यैराकर्षन्तीव मन्मथम्

॥२८॥

कम्बुग्रीवा चारुमध्या ताम्रपादाङ्गुलीनखा ।

निम्ननाभिः सुजघना रम्भोरू सुदती शुभा

॥२९॥

मातापितृसुहृद्वर्गे क्रीडानन्दविवर्धिनी ।

एकस्मिन्दिवसे बाला सखीवृन्दसमन्विता

॥३०॥

चन्दनागरुतांबूलधूपसौमनसाञ्चिता ।

गृहीत्वा पुष्पधूपादि गता देवीप्रपूजने

॥३१॥

तडागतट उत्सृज्य भूषणान्यङ्गवेष्टकान् ।

चक्रुः सरसिताः क्रीडां जलमध्यगतास्तदा

॥३२॥

क्रीडन्तीं तामवेक्ष्याथ ससखीं विमले जले ।

राक्षसः शम्बरो नाम श्येनरूपेण चागमत्

॥३३॥

गृहीता जलमध्यस्था तेन सा काममोदिनी ।

खमुत्पपात दुष्टात्मा गृहीत्वाभरणान्यपि

॥३४॥

वायुमार्गं गतः सोऽथ कामिन्या सह भारत ।

अपतन्कुण्डलादीनि यत्र तोये महामुनिः

॥३५॥

माण्डव्यो नर्मदातीरे काष्ठवत्संजितेन्द्रियः ।

लीनो माहेश्वरे स्थाने नारायणपदे परे

॥३६॥

तस्य चानुचरो भ्राता भ्रातुः शुश्रूषणे रतः ।

तपोजपकृशीभूतो दध्यौ देवं जनार्दनम्

॥३७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे काममोदिनीहरणवर्णनं नामैकोनसप्तत्यधिशततमोऽध्यायः ॥