मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १७६

3
अवन्तीखण्डः · रेवाखण्डः · 176

पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल पिङ्गलावर्तमुत्तमम् ।

तीर्थं सर्वगुणोपेतं कामिकं भुवि दुर्लभम्

॥१॥

वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।

पिङ्गलेश्वरमासाद्य तत्सर्वं विलयं व्रजेत्

॥२॥

तत्र स्नानं च दानं च देवखाते कृतं नृप ।

अक्षयं तद्भवेत्सर्वमित्येवं शङ्करोऽब्रवीत्

॥३॥

पृथिव्यां सर्वतीर्थेषु समुद्धृत्य शुभोदकम् ।

मुक्तं तत्र सुरैः खात्वा देवखातं ततोऽभवत्

॥४॥

युधिष्ठिर उवाच

कथं तु देवखातं तत्संजातं द्विजसत्तम ।

सुराः सर्वे कथं तत्र मुमुचुर्वारि तीर्थजम् ।

सर्वं कथय मे विप्र श्रवणे लम्पटं मनः

॥५॥

श्रीमार्कण्डेय उवाच

यदा तु शूलशुद्ध्यर्थं रुद्रो देवगणैः सह ।

बभ्राम पृथिवीं सर्वां कमण्डलुधरः शुभाम्

॥६॥

प्रभासाद्येषु तीर्थेषु स्नानं चक्रुः सुरास्तदा ।

सर्वतीर्थोत्थितं तोयं पात्रे वै निहितं तु तैः

॥७॥

शूलभेदमनुप्राप्य शूलं शुद्धं तु शूलिनः ।

तत्रोत्थमुदकं गृह्य आगता भृगुकच्छके

॥८॥

तत्रापश्यंस्ततो ह्यग्निं च पिङ्गलाक्षं च रोगिणम् ।

तपस्युग्रे व्यवसितं ध्यायमानं महेश्वरम्

॥९॥

हविर्भागैस्तु विप्राणां राज्ञां चैवामयाविनाम् ।

दृष्ट्वा तु बहुरोगार्तमग्निं देवमुखं सुराः ।

प्राहुस्ते सहिता देवं शङ्करं लोकशङ्करम्

॥१०॥

देवा ऊचुः

प्रसादः क्रियतां शम्भो पिङ्गलस्यामयाविनः ।

यथा हि नीरुजः कायो हविषां ग्रहणक्षमः ।

पुनर्भवति पिङ्गस्तु तथा कुरु महेश्वर

॥११॥

ईश्वर उवाच

भोभोः सुरा हि तपसा तुष्टोऽहं वो विशेषतः ।

वचनाच्च विशेषेण ददाम्यभिमतं वरम्

॥१२॥

पिङ्गल उवाच

यदि तुष्टोऽसि देवेश दीयते देव चेप्सितम् ।

चन्द्रादित्यौ च नयने कृत्वात्र कलया स्थितः

॥१३॥

तथा पुनर्नवः कायो भवेद्वै मम शङ्कर ।

तथा कुरु विरूपाक्ष नमस्तुभ्यं पुनः पुनः

॥१४॥

मार्कण्डेय उवाच

ततः स भगवाञ्छम्भुर्मूर्तिमादित्यरूपिणीम् ।

कृत्वा तु तस्य तद्रोगमपानुदत शङ्करः

॥१५॥

ततः पुनर्नवीभूतः पुनः प्रोवाच शङ्करम् ।

अत्रैव स्थीयतां शम्भो तथैव भास्करः स्वयम्

॥१६॥

प्राणिनामुपकाराय रोगाणामुपशान्तये ।

पापानां ध्वंसनार्थाय श्रेयसां चैव वृद्धये

॥१७॥

एवमुक्तस्तु भगवान्पिङ्गलेन महात्मना ।

अवतारं च कृतवान् गीर्वाणानिदमब्रवीत्

॥१८॥

ईश्वर उवाच

मुञ्चध्वमुदकं देवास्तीर्थेभ्यो यत्समाहृतम् ।

मम चोत्तरतः कृत्वा खातं देवमयं शुभम्

॥१९॥

तत्र निक्षिप्यतां वारि सर्वरोगविनाशनम् ।

सर्वपापहरं दिव्यं सर्वैरपि सुरादिभिः

॥२०॥

एवमुक्ताः सुराः सर्वे खातं कृत्वा तथोत्तरे ।

वयस्त्रिंशत्कोटिगणैर्मुक्तं तत्तीर्थजं जलम्

॥२१॥

प्रोचुस्ते सहिताः सर्वे विरूपाक्षपुरोगमाः ।

यः कश्चिद्देवखातेऽस्मिन्मृदालम्भनपूर्वकम्

॥२२॥

स्नानं कृत्वा रविदिने संस्नाय नर्मदाजले ।

श्राद्धं कृत्वा पितृभ्यो वै दानं दत्त्वा स्वशक्तितः

॥२३॥

पूजयिष्यति पिङ्गेशं तस्य वासस्त्रिविष्टपे ।

भविष्यति सुरैरुक्तं शृणोति सकलं जगत्

॥२४॥

आमया भुवि मर्त्यानां क्षयरोगविचर्चिकाः ।

व्याधयो विकृताकाराः कासश्वासज्वरोद्भवाः

॥२५॥

एकद्वित्रिचतुर्थाहा ये ज्वरा भूतसम्भवाः ।

ये चान्ये विकृता दोषा दद्रुश्च कामलं तथा

॥२६॥

दिनैस्ते सप्तभिर्यान्ति नाशं स्नानैर्रवेर्दिने ।

शतभेदप्रभिन्ना ये कुष्ठा बहुविधास्तथा

॥२७॥

शतमादित्यवाराणां स्नायादष्टोत्तरं तु यः ।

सम्पूज्य शङ्करं दद्यात्तिलपात्रं द्विजातये

॥२८॥

नश्यन्ति तस्य कुष्ठानि गरुडेनेव पन्नगाः ।

एवमुक्त्वा गताः सर्वे त्रिदशास्त्रिदशालयम्

॥२९॥

मार्कण्डेय उवाच

नदीषु देवखातेषु तडागेषु सरित्सु च ।

स्नानं समाचरेन्नित्यं नरः पापैः प्रमुच्यते

॥३०॥

षष्टितीर्थसहस्रेषु षष्टितीर्थशतेषु च ।

यत्फलं स्नानदानेषु देवखाते ततोऽधिकम्

॥३१॥

देवखातेषु यः स्नात्वा तर्पयित्वा पितॄन्नृप ।

पूजयेद्देवदेवेशं पिङ्गलेश्वरमुत्तमम्

॥३२॥

सोऽश्वमेधस्य यज्ञस्य वाजपेयस्य भारत ।

द्वयोः पुण्यमवाप्नोति नात्र कार्या विचारणा

॥३३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥