मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २७

3
अवन्तीखण्डः · रेवाखण्डः · 27

त्रिपुरक्षोभणवर्णनम्

श्रीमार्कण्डेय उवाच

नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ।

प्रसादं कुरु विप्रेन्द्र गृह्ण दानं यथेप्सितम्

॥१॥

सुवर्णमणिरत्नानि वस्त्राणि विविधानि च ।

तत्ते दारयामि विप्रेन्द्र यच्चान्यदपि दुर्लभम्

॥२॥

राज्ञ्यास्तु वचनं श्रुत्वा नारदो वाक्यमब्रवीत् ।

अन्येषां दीयतां भद्रे ये द्विजाः क्षीणवृत्तयः

॥३॥

वयं तु सर्वसम्पन्ना भक्तिग्राह्याः सदैव हि ।

इत्युक्ता सा तदा राज्ञी वेदवेदाङ्गपारगान्

॥४॥

आहूय ब्राह्मणान्निःस्वान्दातुं समुपचक्रमे ।

यत्किंचिन्नारदेनोक्तं दानसौभाग्यवर्धनम्

॥५॥

तेन दानेन मे नित्यं प्रीयेतां हरिशङ्करौ ।

ततो राज्ञी च सा प्राह नारदं मुनिपुंगवम्

॥६॥

राज्ञ्युवाच

दानं दत्तं त्वयोक्तं यद्भर्तृकर्मपरं हि तत् ।

आजन्मजन्म मे भर्ता भवेद्बाणो द्विजोत्तम

॥७॥

नान्यो हि दैवतं तात मुक्त्वा बाणं द्विजोत्तम ।

तेन सत्येन मे भर्ता जीवेच्च शरदां शतम्

॥८॥

नान्यो धर्मो भवेत्स्त्रीणां दैवतं हि पतिर्यथा ।

तथापि तव वाक्येन दानं दत्तं यथाविधि

॥९॥

स्वकं कर्म करिष्यामो भर्तारं प्रति मानद ।

ब्रह्मर्षे गच्छ चेदानीं त्वमाशीर्वादः प्रदीयताम्

॥१०॥

तथेति तामनुज्ञाप्य नारदो नृपसत्तम ।

सर्वासां मानसं हृत्वा अन्यतः कृतमानसः

॥११॥

जगामादर्शनं विप्रः पूज्यमानस्तु खेचरैः ।

ततो गतमनस्कास्ता भर्तारं प्रति भारत

॥१२॥

विवर्णा निष्प्रभा जाता नारदेन विमोहिताः

॥१३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये त्रिपुरक्षोभणवर्णनं नाम सप्तविंशोऽध्यायः ॥