मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १०६

3
अवन्तीखण्डः · रेवाखण्डः · 106

कामदतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल तीर्थं परमशोभनम् ।

सौभाग्यकरणं दिव्यं नरनारीमनोरमम्

॥१॥

तत्र या दुर्भगा नारी नरो वा नृपसत्तम ।

स्नात्वार्चयेदुमारुद्रौ सौभाग्यं तस्य जायते

॥२॥

तृतीयायामहोरात्रं सोपवासो जितेन्द्रियः ।

निमन्त्रयेद्द्विजं भक्त्या सपत्नीकं सुरूपिणम्

॥३॥

गन्धमाल्यैरलंकृत्य वस्त्रधूपादिवासितम् ।

भोजयेत्पायसान्नेन कृसरेणाथ भक्तितः

॥४॥

भोजयित्वा यथान्यायं प्रदक्षिणमुदाहरेत् ।

प्रीयतां मे महादेवः सपत्नीको वृषध्वजः

॥५॥

यथा ते देवदेवेश न वियोगः कदाचन ।

ममापि करुणां कृत्वा तथास्त्विति विचिन्तयेत्

॥६॥

एवं कृते ततस्तस्य यत्पुण्यं समुदाहृतम् ।

तत्ते सर्वं प्रवक्ष्यामि यथा देवेन भाषितम्

॥७॥

दौर्भाग्यं दुर्गतिश्चैव दारिद्र्यं शोकबन्धनम् ।

वन्ध्यत्वं सप्तजन्मानि जायते न युधिष्ठिर

॥८॥

ज्येष्ठमासे सिते पक्षे तृतीयायां विशेषतः ।

तत्र गत्वा तु यो भक्त्या पञ्चाग्निं साधयेत्ततः

॥९॥

सोऽपि पापैरशेषैस्तु मुच्यते नात्र संशयः ।

गुग्गुलं दहते यस्तु द्विधा चित्तविवर्जितः

॥१०॥

शरीरं भेदयेद्यस्तु गौर्याश्चैव समीपतः ।

तस्मिन्कर्मप्रविष्टस्य उत्क्रान्तिर्जायते यदि

॥११॥

देहपाते व्रजेत्स्वर्गमित्येवं शङ्करोऽब्रवीत् ।

सितरक्तैस्तथा पीतैर्वस्त्रैश्च विविधैः शुभैः

॥१२॥

ब्राह्मणीं ब्राह्मणं चैव पूजयित्वा यथाविधि ।

पुष्पैर्नानाविधैश्चैव गन्धधूपैः सुशोभनैः

॥१३॥

कण्ठसूत्रकसिन्दूरैः कुङ्कुमेन विलेपयेत् ।

कल्पयेत स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम्

॥१४॥

तेषां तद्रूपकं कृत्वा दानमुत्सृज्यते ततः ।

कङ्कणं कर्णवेष्टं च कण्ठिकां मुद्रिकां तथा

॥१५॥

सप्तधान्यं तथा चैव भोजनं नृपसत्तम ।

अन्यान्यपि च दानानि तस्मिंस्तीर्थे ददाति यः

॥१६॥

सर्वदानैश्च यत्पुण्यं प्राप्नुयान्नात्र संशयः ।

सहस्रगुणितं सर्वं नात्र कार्या विचारणा

॥१७॥

शङ्करेण समं तस्माद्भोगं भुङ्क्ते ह्यनुत्तमम् ।

सौभाग्यं तस्य विपुलं जायते नात्र संशयः

॥१८॥

अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।

राजेन्द्र कामदं तीर्थं नर्मदायां व्यवस्थितम्

॥१९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामदतीर्थमाहात्म्यवर्णनं नाम षडुत्तरशततमोऽध्यायः॥