मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ३८

3
अवन्तीखण्डः · रेवाखण्डः · 38

यत्र सिद्धो महादेवो गुहावासी समार्बुदम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत राजेन्द्र गुहावासीति चोत्तमम् ।

यत्र सिद्धो महादेवो गुहावासी समार्बुदम्

॥१॥

युधिष्ठिर उवाच

केन कार्येण भो तात महादेवो जगद्गुरुः ।

गुहायामनयत्कालं सुदीर्घं द्विजसत्तम

॥२॥

एतद्विस्तरतः सर्वं कथयस्व ममानघ ।

श्रोतुमिच्छाम्यहं सर्वपरं कौतूहलं हि मे

॥३॥

मार्कण्डेय उवाच

साधु प्रश्नो महाराज पृष्टो यो वै त्वयोत्तमः ।

पुराणे विस्तरो ह्यस्य न शक्यो हि मयाधुना

॥४॥

कथितुं वृद्धभावत्वादतीतो बहुकालिकः ।

संक्षेपात्तेन ते तात कथयामि निबोध मे

॥५॥

पुरा कृतयुगे राजन्नासीद्दारुवनं महत् ।

नानाद्रुमलताकीर्णं नानावल्ल्युपशोभितम्

॥६॥

सिंहव्याघ्रवराहैश्च गजैः खड्गैर्निषेवितम् ।

बहुपक्षियुतं दिव्यं यथा चैत्ररथं वनम्

॥७॥

तत्र केचिन्महाप्राज्ञा वसन्ति संशितव्रताः ।

वसन्ति परया भक्त्या चतुराश्रमभाविताः

॥८॥

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।

स्वधर्मनिरताः सर्वे वाञ्छन्तः परमं पदम्

॥९॥

तावद्वसन्तसमये कस्मिंश्चित्कारणान्तरे ।

विमानस्थो महादेवो गच्छन्वै ह्युमया सह

॥१०॥

ददर्श तोय आवासमृक्सामयजुर्नादितम् ।

अलक्ष्यागतनिर्गम्यं सर्वपापक्षयंकरम्

॥११॥

तं दृष्ट्वा मुदिता देवी हर्षगङ्गदया गिरा ।

पप्रच्छ देवदेवेशं शशाङ्ककृतभूषणम्

॥१२॥

देव्युवाच

कस्यायमाश्रमो देव वेदध्वनिनिनादितः ।

यं दृष्ट्वा क्षुत्पिपासाद्यैः श्रमैश्च परिहीयते

॥१३॥

महेश्वर उवाच

किं त्वया न श्रुतं देवि महादारुवनं महत् ।

बहुविप्रजनो यत्र गृहधर्मेण वर्तते

॥१४॥

अत्र यः स्त्रीजनः कश्चिद्भर्तृशुश्रूषणे रतः ।

नान्यो देवो न वै धर्मो ज्ञायते शैलनन्दिनि

॥१५॥

एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम् ।

कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत्

॥१६॥

यत्त्वयोक्तं महादेव पतिधर्मरताः स्त्रियः ।

तासां त्वं मदनो भूत्वा चारित्रं क्षोभय प्रभो

॥१७॥

ईश्वर उवाच

यत्त्वयोक्तं च वचनं न हि मे रोचते प्रिये ।

ब्राह्मणा हि महद्भूतं न चैषां विप्रियं चरेत्

॥१८॥

मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ।

चक्रात्क्रूरतरो मन्युस्तस्माद्विप्रं न कोपयेत्

॥१९॥

न ते देवा न ते लोका न ते नगा न चासुराः ।

दृश्यन्ते त्रिषु लोकेषु ये तैर्दृष्टैर्न नाशिताः

॥२०॥

तेषां मोक्षस्तथा स्वर्गो भूमिर्मर्त्ये फलानि च ।

येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः

॥२१॥

एवं ज्ञात्वा महाभागे असद्ग्राहं परित्यज ।

तत्र लोके विरुद्धं वै कुप्यन्ते येन वै द्विजाः

॥२२॥

देव्युवाच

नाहं ते दयिता देव नाहं ते वशवर्तिनी ।

अकृत्वाधश्व वै तासां मानं सुरसुपूजितम्

॥२३॥

लोकलोके महादेव अशक्यं नास्ति ते प्रभो ।

क्रियतां मम चैवैकमेतत्कार्यं सुरोत्तम

॥२४॥

एवमुक्तो महादेवो देव्या वाक्यहिते रतः ।

कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति

॥२५॥

महाहितजटाजूटं नियम्य शशिभूषणम् ।

कण्ठत्राणं परं कृत्वा धारयन् कर्णकुण्डले

॥२६॥

व्याघ्रचर्मपरीधानो मेखलाहारभूषितः ।

नूपुरध्वनिनिघोषैः कम्पयन् वै वसुंधराम्

॥२७॥

महानूर्द्ध्वजटामाली कृत्तिभस्मानुलेपनः ।

कृत्वा हस्ते कपालं तु ब्रह्मणश्च महात्मनः

॥२८॥

महाडमरुघोषेण कम्पयन् वै वसुंधराम् ।

प्रभातसमये प्राप्तो महादारुवनं प्रति

॥२९॥

तावत्पुण्यजनः सर्वपुष्पपत्रफलार्थिकः ।

निर्गतो बहुभिः सार्द्धं पवमानः समन्ततः

॥३०॥

तद्दृष्ट्वा महदाश्चर्यं रूपं देवस्य भारत ।

युवतीनां मनस्तासां कामेन कलुषीकृतम्

॥३१॥

शोभनं पुरुषं दृष्ट्वा सर्वा अपि वराङ्गनाः ।

क्लेदभावं ततो जग्मुर्मुदा दारुवनस्त्रियः

॥३२॥

विकारा बहवस्तासां देवं दृष्ट्वा महाद्भुतम् ।

संजाता विप्रपत्नीनां तदा तासु नरोत्तम

॥३३॥

परिधानं न जानन्ति काश्चिद्दृष्ट्वा वराङ्गनाः ।

उत्तरीयं तथा चान्या महामोहसमन्विताः

॥३४॥

केशभारपरिभ्रष्टा काचिदेवासनोत्थिता ।

दातुकामा तदा भैक्ष्यं चेष्टितुं नैव चाशकत्

॥३५॥

काचिद्दृष्ट्वा महादेवं रूपयौवनगर्विता ।

उत्सङ्गे संस्थितं बालं विस्मृता पायितुं स्तनम्

॥३६॥

कामबाणहता चान्या बाहुभ्यां पीड्य सुस्तनौ ।

निःश्वसन्ती तदा चोष्णं न किंचित्प्रतिजल्पति

॥३७॥

एवं संक्षोभ्य तं सर्वं स्त्रीजनं परमेश्वरः ।

जगाम तत्र वै तासां क्षोभं कृत्वा महाद्भुतम्

॥३८॥

तावत्ते ब्राह्मणाः सर्वे भ्रमित्वा काननं महत् ।

आगताः स्वगृहे दारान् ददृशुश्च हतौजसः

॥३९॥

यासां पूर्वतरा भक्तिः पातिव्रत्ये पतीन्प्रति ।

चलितास्ता विदित्वाशु निर्जग्मुर्द्विजसत्तमाः

॥४०॥

संविदं परमां कृत्वा ज्ञात्वा देवं महेश्वरम् ।

क्षोभयित्वा मनस्तासां ततश्चादर्शनं गतम्

॥४१॥

क्रोधाविष्टो द्विजः कश्चिद्दण्डमुद्यम्य धावति ।

कल्माषयष्टिमन्ये च तथान्ये दर्भमुष्टिकाम्

॥४२॥

इतश्चेतश्च ते सर्वे भ्रमित्वा काननं नृप ।

एकीभूत्वा महात्मानो व्याजह्रुश्च रुषा गिरम्

॥४३॥

यदिदं च हुतं किंचिद्गुरवस्तोषिता यदि ।

तेन सत्येन देवस्य लिङ्गं पततु चोत्तमम्

॥४४॥

आश्रमादाश्रमं सर्वे न त्यजामो विधिक्रमात् ।

तेन सत्येन देवस्य लिङ्गं पततु भूतले

॥४५॥

एवं सत्यप्रभावेन त्रिरुक्तेन द्विजन्मनाम् ।

शिवस्य पश्यतो लिङ्गं पतितं धरणीतले

॥४६॥

हाहाकारो महानासील्लोकालोकेऽपि भारत ।

देवस्य पतिते लिङ्गे जगतश्च महाक्षये

॥४७॥

पतमानस्य लिङ्गस्य शब्दोऽभूच्च सुदारुणः ।

उल्कापाता दिशां हाहा भूमिकम्पाश्च दारुणाः

॥४८॥

पतन्ति पर्वताग्राणि शोषं यान्ति च सागराः ।

देवस्य पतिते लिङ्गे देवा विमनसोऽभवन्

॥४९॥

समेत्य सहिताः सर्वे ब्रह्माणं परमेष्ठिनम् ।

कृताञ्जलिपुटाः सर्वे स्तुवन्ति विविधैः स्तवैः

॥५०॥

ततस्तुष्टो जगन्नाथश्चतुर्वदनपङ्कजः ।

आर्तान्प्राह सुरान्सर्वान्मा विषादं गमिष्यथ

॥५१॥

ब्रह्मशापाभिभूतोऽसौ देवदेवस्त्रिलोचनः ।

तुष्टैस्तैस्तपसा युक्तैः पुनर्मोक्षं गमिष्यति

॥५२॥

एतच्छ्रुत्वा ययुर्देवा यथागतमरिन्दम ।

भावयित्वा ततः सर्वे मुनयश्चैव भारत

॥५३॥

विश्वामित्रवसिष्ठाद्या जाबालिरथ कश्यपः ।

समेत्य सहिताः सर्वे तमूचुस्त्रिपुरान्तकम्

॥५४॥

ब्रह्मतेजो हि बलवद्द्विजानां हि सुरेश्वर ।

क्षान्तियुक्तस्तपस्तप्त्वा भविष्यसि गतक्लमः

॥५५॥

यतः क्षोभादृषीणां च तदेवं लिङ्गमुत्तमम् ।

पतितं ते महादेव न तत्पूज्यं भविष्यति

॥५६॥

न तच्छ्रेयोऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते ।

प्राप्नुवन्ति च यच्छ्रेयो मानवा लिङ्गपूजने

॥५७॥

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।

वचनेन तु विप्राणामेतत्पूज्यं भविष्यति

॥५८॥

ब्रह्मविष्ण्विन्द्रचन्द्राणामेतत्पूज्यं भविष्यति ।

यत्फलं तव लिङ्गस्य इह लोके परत्र च

॥५९॥

एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान् ।

मुदा परमया युक्तः कृताञ्जलिरभाषत

॥६०॥

ब्राह्मणा जङ्गमं तीर्थं निर्जलं सार्वकामिकम् ।

येषां वाक्योदकेनैव शुध्यन्ति मलिनो जनाः

॥६१॥

न तत्क्षेत्रं न तत्तीर्थमूषरं पुष्कराणि च ।

ब्राह्मणे मन्युमुत्पाद्य यत्र गत्वा स शुध्यति

॥६२॥

न तच्छास्त्रं यन्न विप्रप्रणीतं न तद्दानं यन्न विप्रप्रदेयम् ।

न तत्सौख्यं यन्नविप्रप्रसादान्न तद्दुःखं यन्न विप्रप्रकोपात्

॥६३॥

पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।

एकस्य विप्रवाक्यस्य कलां नार्हन्ति षोडशीम्

॥६४॥

अभिनन्द्य द्विजान्सर्वाननुज्ञातो महर्षिभिः ।

ततोऽगमत्तदा देवो नर्मदातटमुत्तमम्

॥६५॥

परमं व्रतमास्थाय गुहावासी समार्बुदम् ।

तपश्चचार भगवाञ्जपस्नानरतः सदा

॥६६॥

समाप्ते नियमे तात स्थापयित्वा महेश्वरम् ।

वन्द्यमानः सुरैः सार्द्धं कैलासमगमत्प्रभुः

॥६७॥

नर्मदायास्तटे तेन स्थापितः परमेश्वरः ।

तेनैव कारणेनासौ नर्मदेश्वर उच्यते

॥६८॥

योऽर्चयेन्नर्मदेशानं यतिर्वै संजितेन्द्रियः ।

स्नात्वा चैव महादेवमश्वमेधफलं लभेत्

॥६९॥

ददाति यः पितृभ्यस्तु तिलपुष्पकुशोदकम् ।

त्रिःसप्तपूर्वजास्तस्य स्वर्गे मोदन्ति पाण्डव

॥७०॥

यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप ।

पायसं घृतमिश्रं तु स लभेत्कोटिजं फलम्

॥७१॥

सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर ।

ददाति तोयमध्यस्थः सोऽग्निष्टोमफलं लभेत्

॥७२॥

अष्टम्यांवा चतुर्दश्यां निराहारो वसेत्तु यः ।

नर्मदेश्वरमासाद्य प्राप्नुयाज्जन्मनः फलम्

॥७३॥

अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।

तस्य व्याधिभयं न स्यात्सप्तजन्मसु भारत

॥७४॥

अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।

अनिवर्तिका गतिस्तस्य रुद्रलोके भविष्यति

॥७५॥

एष ते विधिरुद्दिष्टस्तस्योत्पत्तिर्नरोत्तम ।

पुराणे विहिता तात संज्ञा तस्य तु विस्तरात्

॥७६॥

एतं कीर्तयते यस्तु नर्मदेश्वरसम्भवम् ।

भक्त्या शृणोति च नरः सोऽपि स्नानफलं लभेत्

॥७७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टत्रिंशोऽध्यायः ॥