मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८६

3
अवन्तीखण्डः · रेवाखण्डः · 186

कनखलेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् ।

गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम्

॥१॥

दिव्यं वर्षशतं यावज्जातमात्रेण भारत ।

तपोजपैः कृशीभूतो दृष्टो देवेन शम्भुना

॥२॥

ततस्तुष्टो महादेवो वैनतेयं मनोजवम् ।

उवाच परमं वाक्यं विनतानन्दवर्धनम्

॥३॥

प्रसन्नस्ते महाभाग वरं वरय सुव्रत ।

दुर्लभं त्रिषु लोकेषु ददामि तव खेचर

॥४॥

गरुड उवाच

इच्छामि वाहनं विष्णोर्द्विजेन्द्रत्वं सुरेश्वर ।

प्रसन्ने त्वयि मे सर्वं भवत्विति मतिर्मम

॥५॥

श्रीमहेश उवाच

दुर्लभः प्राणिनां तात यो वरः प्रार्थितोऽनघ ।

देवदेवस्य वाहनं द्विजेन्द्रत्वं सुदुर्लभम्

॥६॥

नारायणोदरे सर्वं त्रैलोक्यं सचराचरम् ।

त्वया स कथमूह्येत देवदेवो जगद्गुरुः

॥७॥

तेनैव स्थापितश्चेन्द्रस्त्रैलोक्ये सचराचरे ।

कथमन्यस्य चेन्द्रत्वं भवतीति सुदुर्लभम्

॥८॥

तथापि मम वाक्येन वाहनं त्वं भविष्यसि ।

शङ्खचक्रगदापाणेर्वहतोऽपि जगत्त्रयम्

॥९॥

इन्द्रस्त्वं पक्षिणां मध्ये भविष्यसि न संशयः ।

इति दत्त्वा वरं तस्मा अन्तर्धानं गतो हरः

॥१०॥

ततो गते महादेवे ह्युरुणस्यानुजो नृप ।

आराधयामास तदा चामुण्डां मुण्डमण्डिताम्

॥११॥

श्मशानवासिनीं देवीं बहुभूतसमन्विताम् ।

योगिनीं योगसंसिद्धां वसामांसासवप्रियाम्

॥१२॥

ध्यातमात्रा तु तेनैव प्रत्यक्षा ह्यभवत्तदा ।

जालंधरे च या सिद्धिः कौलीने उड्डिशे परे

॥१३॥

समग्रा सा भृगुक्षेत्रे सिद्धक्षेत्रे तु संस्थिता ।

चामुण्डा तत्र सा देवी सिद्धक्षेत्रे व्यवस्थिता

॥१४॥

संस्तुता ऋषिभिर्देवैर्योगक्षेमार्थसिद्धये ।

विनतानन्दजननस्तत्र तां योगिनीं नृप ।

भक्त्या प्रसादयामास स्तोत्रैर्वैदिकलौकिकैः

॥१५॥

गरुड उवाच

ओं या सा क्षुत्क्षामकण्ठा नवरुधिरमुखा प्रेतपद्मासनस्था भूतानां वृन्दवृन्दैः पितृवननिलया क्रीडते शूलहस्ता ।

शस्त्रध्वस्तप्रवीरव्रजरुधिरगलन्मुण्डमालोत्तरीया देवी श्रीवीरमाता विमलशशिनिभा पातु वश्चर्ममुण्डा

॥१६॥

या सा क्षुत्क्षामकण्ठा विकृतभयकरी त्रासिनी दुष्कृतानां मुञ्चज्ज्वालाकलापैर्दशनकसमसैः खादति प्रेतमांसम् ।

या सा दोर्दण्डचण्डैर्डमरुरणरणाटोपटंकारघण्टैः कल्पान्तोत्पातवाताहतपटुपटहैर्वल्गते भूतमाता ।

क्षुत्क्षामा शुष्ककुक्षिः खवरतरनरवरैः क्षोदति प्रेतमांसं मुञ्चन्ती चाट्टहासं घुरघुरितरवा पातु वश्चर्ममुण्डा

॥१७॥

या सा निम्नोदराभा विकृतभवभयत्रासिनी शूलहस्ता चामुण्डा मुण्डघाता रणरणितरणझल्लरीनादरम्या ।

त्रैलोक्यं त्रासयन्ति ककहकहकहैर्घोररावैरनेकैर्नृत्यन्ती मातृमध्ये पितृवननिलया पातु वश्चर्ममुण्डा

॥१८॥

या धत्ते विश्वमखिलं निजांशेन महोज्ज्वला ।

कनकप्रसवे लीना पातु मां कनकेश्वरी

॥१९॥

हिमाद्रिसम्भवा देवी दयादर्शितविग्रहा ।

शिवप्रिया शिवे सक्ता पातु मां कनकेश्वरी

॥२०॥

अनादिजगदादिर्या रत्नगर्भा वसुप्रिया ।

रथाङ्गपाणिना पद्मा पातु मां कनकेश्वरी

॥२१॥

सावित्री या च गायत्री मृडानी वागथेन्दिरा ।

स्मर्त्ःणां या सुखं दत्ते पातु मां कनकेश्वरी

॥२२॥

सौम्यासौम्यैः सदा रूपैः सृजत्यवति या जगत् ।

परा शक्तिः परा बुद्धिः पातु मां कनकेश्वरी

॥२३॥

ब्रह्मणः सर्गसमये सृज्यशक्तिः परा तु या ।

जगन्माया जगद्धात्री पातु मां कनकेश्वरी

॥२४॥

विश्वस्य पालने विष्णोर्या शक्तिः परिपालिका ।

मदनोन्मादिनी मुख्या पातु मां कनकेश्वरी

॥२५॥

विश्वसंलयने मुख्या या रुद्रेण समाश्रिता ।

रौद्री शक्तिः शिवानन्ता पातु मां कनकेश्वरी

॥२६॥

कैलाससानुसंरूढ कनकप्रसवेशया ।

भस्मकाभिहृता पूर्वं पातु मां कनकेश्वरी

॥२७॥

पतिप्रभावमिच्छन्ती त्रस्यन्ती या विना पतिम् ।

अबला त्वेकभावा च पातु मां कनकेश्वरी

॥२८॥

विश्वसंरक्षणे सक्ता रक्षिता कनकेन या ।

आ ब्रह्मस्तम्बजननी पातु मां कनकेश्वरी

॥२९॥

ब्रह्मविष्ण्वीश्वराः शक्त्या शरीरग्रहणं यया ।

प्रापिताः प्रथमा शक्तिः पातु मां कनकेश्वरी

॥३०॥

श्रुत्वा तु गरुडेनोक्तं देवीवृत्तचतुष्टयम् ।

प्रसन्ना संमुखी भूत्वा वाक्यमेतदुवाच ह

॥३१॥

श्रीचामुण्डोवाच

प्रसन्ना ते महासत्त्व वरं वरय वाञ्छितम् ।

ददामि ते द्विजश्रेष्ठ यत्ते मनसि रोचते

॥३२॥

गरुड उवाच

अजरश्चामरश्चैव अधृष्यश्च सुरासुरैः ।

तव प्रसादाच्चैवान्यैरजेयश्च भवाम्यहम्

॥३३॥

त्वया चात्र सदा देवि स्थातव्यं तीर्थसन्निधौ ।

मार्कण्डेय उवाच - एवं भविष्यतीत्युक्त्वा देवी देवैरभिष्टुता

॥३४॥

जगामाकाशमाविश्य भूतसङ्घसमन्विता ।

यदा लक्ष्म्या नृपश्रेष्ठ स्थापितं पुरमुत्तमम्

॥३५॥

अनुमान्य तदा देवीं कृतं तस्यां समर्पितम् ।

लक्ष्मीरुवाच - रक्षणाय मया देवि योगक्षेमार्थसिद्धये

॥३६॥

मातृवत्प्रतिपाल्यं ते सदा देवि पुरं मम ।

गरुडोऽपि ततः स्नात्वा सम्पूज्य कनकेश्वरीम्

॥३७॥

तीर्थं तत्रैव संस्थाप्य जगामाकाशमुत्तमम् ।

तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः

॥३८॥

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।

गन्धपुष्पादिभिर्यस्तु पूजयेत्कनकेश्वरम्

॥३९॥

तस्य योगैश्वर्यसिद्धिर्योगपीठेषु जायते ।

मृतो योगेश्वरं लोकं जयशब्दादिमङ्गलैः ।

स गच्छेन्नात्र सन्देहो योगिनीगणसंयुतः

॥४०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कनखलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीत्युत्तरशततमोऽध्यायः ॥