मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २१५

3
अवन्तीखण्डः · रेवाखण्डः · 215

शृङ्गितीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

शृङ्गितीर्थं ततो गच्छेन्मोक्षदं सर्वदेहिनाम् ।

मृतानां तत्र राजेन्द्र मोक्षप्राप्तिर्न संशयः

॥१॥

तत्रैव पिण्डदानेन पितॄणामनृणो भवेत् ।

तेन पुण्येन पूतात्मा लभेद्गाणेश्वरीं गतिम्

॥२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शृङ्गितीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥