मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ३३

3
अवन्तीखण्डः · रेवाखण्डः · 33

रेवाखण्डेऽग्नितीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र अग्नितीर्थमनुत्तमम् ।

यत्र संनिहितो ह्यग्निर्गतः कामेन मोहितः

॥१॥

युधिष्ठिर उवाच

कथं देवो जगद्धाता कामेन कलुषीकृतः ।

कथं च नित्यदा वास एकस्थानेषु जायते

॥२॥

एतत्त्वाश्चर्यमतुलं सर्वलोकेष्वनुत्तमम् ।

कथयस्व महाभाग परं कौतूहलं मम

॥३॥

श्रीमार्कण्डेय उवाच

साधु साधु महाप्राज्ञ पृष्टः प्रश्नस्त्वयानघ ।

कथयामि यथापूर्वं श्रुतमेतन्महेश्वरात्

॥४॥

आसीत्कृतयुगे राजा नाम्ना दुर्योधनो महान् ।

हस्त्यश्वरथसम्पूर्णो मेदिनीपरिपालकः

॥५॥

रूपयौवनसम्पन्नं दृष्ट्वा तं पृथिवीपतिम् ।

दिव्योपभोगसम्पन्नं प्रार्थयामास नर्मदा

॥६॥

स तु तां चकमे कन्यां त्यक्त्वाऽन्यं प्रमदाजनम् ।

मुदा परमया युक्तो माहिष्मत्याः पतिर्नृप

॥७॥

रमते स तया सार्द्धं काले वै नृपसत्तम ।

नर्मदा जनयामास कन्यां पद्मदलेक्षणाम्

॥८॥

अङ्गप्रत्यङ्गसम्पन्ना यस्माल्लोकेषु विश्रुता ।

तस्यां पिता च माता च चक्रतुः प्रेमबन्धनम्

॥९॥

कालेनातिसुदीर्घेण यौवनस्था वराङ्गना ।

प्रार्थ्यमानापि राजन्वै नात्मानं दातुमिच्छति

॥१०॥

ततोऽन्यदिवसे वह्निर्द्विजरूपो महातपाः ।

राजानं प्रार्थयामास रहो गत्वा शनैः शनैः

॥११॥

भोभो रघुकुलश्रेष्ठ द्विजोऽहं मन्दसन्ततिः ।

दरिद्रो ह्यसहायश्च भार्यार्थे वरयामि ताम्

॥१२॥

कन्या सुदर्शना नाम रूपेणाप्रतिमा भुवि ।

तां ददस्व महाभाग वर्धते तव मन्दिरे

॥१३॥

ब्रह्मचर्येण निर्विण्ण एकाकी कामपीडितः ।

याचमानस्य मे तात प्रसादं कर्तुमर्हसि

॥१४॥

राजोवाच

नाहं द्रव्यविहीनस्य असवर्णस्य कर्हिचित् ।

दास्यामि स्वां सुतां शुभ्रां गम्यतां द्विजपुंगव

॥१५॥

एवमुक्तस्तदा वह्निः परां पीडामुपागतः ।

न किंचिदुक्त्वा राजानं तत्रैवान्तरधीयत

॥१६॥

गते चादर्शनं विप्रे राजा मन्त्रिपुरोहितैः ।

मन्त्रयित्वाथ काले तु तुष्टो मखमुखे स्थितः

॥१७॥

यजतश्च मखे भक्त्या ब्राह्मणैः सह भारत ।

ततश्चादर्शनं वह्निः सर्वेषां पश्यतामगात्

॥१८॥

विप्रा दुर्मनसो भूत्वा गता राज्ञो हि मन्दिरम् ।

वह्निनाशं विमनसो राजानमिदमब्रुवन्

॥१९॥

ब्राह्मणा ऊचुः

दुर्योधन महाराज श्रूयतां महदद्भुतम् ।

न श्रुतं न च दृष्टं वा कौतुकं नृपपुंगव

॥२०॥

अग्निकार्यप्रवृत्तानां सर्वेषां विधिवन्नृप ।

केनापि हेतुना वह्निर्दृश्यते न ज्वलत्युत

॥२१॥

तच्छ्रुत्वा विप्रियं घोरं राजा विप्रमुखाच्च्युतम् ।

आसनात्पतितो भूमौ छिन्नमूल इव द्रुमः

॥२२॥

आश्वस्य च मुहूर्तेन उन्मत्त इव संस्तदा ।

निरीक्ष्य च दिशः सर्वा इदं वचनमब्रवीत्

॥२३॥

किमेतदाश्चर्यपरमिति भोभो द्विजोत्तमाः ।

कथ्यतां कारणं सर्वं शास्त्रदृष्ट्या विभाव्य च

॥२४॥

मम वा दुष्कृतं किंचिदुताहो भवतामिह ।

येन नष्टोऽग्निशालायां हुतभुक्केन हेतुना

॥२५॥

मन्त्रच्छिद्रमथान्यद्वा नैव किंचिददक्षिणम् ।

क्रियाहीनं कृतं वाथ केन वह्निर्न दृश्यते

॥२६॥

अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः ।

दातारं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः

॥२७॥

ब्राह्मणा ऊचुः

न मन्त्रहीना हि वयं न च राजन्व्रतैस्तथा ।

द्रव्येण च न हीनस्त्वमन्यत्पापं विचिन्त्यताम्

॥२८॥

राजोवाच

तथापि यूयं सहिता उपायं चिन्तयन्त्विति ।

येन श्रेयो भवेन्नित्यमिह लोके परत्र च

॥२९॥

एवमुक्तास्ततः सर्वे ब्राह्मणाः कृतनिश्चयाः ।

निराहाराः स्थिताः शर्वे यत्र नष्टो हुताशनः

॥३०॥

ततः स्वप्ने महातेजा हुतभुग्ब्राह्मणांस्तदा ।

उवाच श्रूयतां सर्वैर्मम नाशस्य कारणम्

॥३१॥

प्रार्थितोऽयं मया राजा सुतां दातुं न चेच्छति ।

तेन नष्टोऽग्निशरणादहं भो द्विजसत्तमाः

॥३२॥

यदि मे स्वसुतां राजा ददाति परमार्चिताम् ।

तदास्य ज्वलमानोऽहं गृहे तिष्ठामि नान्यथा

॥३३॥

तच्छ्रुत्वा वचनं विप्रा वैश्वानरमुखोद्गतम् ।

विस्मयोत्फुल्लनयना राजानमिदमब्रुवन्

॥३४॥

भवतो मतमाज्ञाय सर्वे गत्वाग्निमन्दिरम् ।

निराहाराः स्थिता रात्रौ पश्यामो जातवेदसम्

॥३५॥

तेनोक्ताः स्वसुतां चेत्तु राजा मे दातुमिच्छति ।

ततोऽस्य भूयोऽपि गृहे ज्वलेऽहं नान्यथा द्विजाः

॥३६॥

एवं ज्ञात्वा महाराज स्वसुतां दातुमर्हसि

॥३७॥

राजोवाच

भवतां तस्य वा कार्यं देवस्य वचनं हृदि ।

समयं कर्तुमिच्छामि कन्यादाने ह्यनुत्तमम्

॥३८॥

मम संनिहितो नित्यं गृहे तिष्ठतु पावकः ।

ददामि रुचिरापाङ्गीं नान्यथा करवाणि वै

॥३९॥

एवं ते ब्राह्मणाः श्रुत्वा तथाग्निं प्राप्य सत्वरम् ।

कथयित्वा विवाहेन योजयामासुराशु वै

॥४०॥

सुदर्शनाया लाभेन परितुष्टो हुताशनः ।

ज्वलते सन्निधौ नित्यं माहिष्मत्यां युधिष्ठिर

॥४१॥

ततः प्रभृति तत्तीर्थमग्नितीर्थं प्रचक्षते ।

ये तत्र पक्षसन्धौ तु स्नानदानैस्तु भाविताः

॥४२॥

तर्पयन्ति पितॄन् देवांस्तेऽश्वमेधफलैर्युताः ।

सुवर्णं ये प्रयच्छन्ति तस्मिंस्तीर्थे नराधिप

॥४३॥

पृथ्वीदानफलं तत्र जायते नात्र संशयः ।

अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप

॥४४॥

स मृतो ह्यग्निलोके तु क्रीडते सुरपूजितः ।

एष ते ह्यग्नितीर्थस्य सम्भवः कथितो मया

॥४५॥

सर्वपापहरः पुण्यः श्रुतमात्रो नरोत्तम ।

धन्यः पापहरो नित्यमित्येवं शङ्करोऽब्रवीत्

॥४६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽग्नितीर्थमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥