करोडीश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र करोडीश्वरमुत्तमम् ।
यत्र वै निहतास्तात दानवाः सपदानुगाः
॥१॥इन्द्रादिदेवैः संहृष्टैः सततं जयबुद्धिभिः ।
तेषां ये पुत्रपौत्राश्च पूर्ववैरमनुस्मरम्
॥२॥क्रुद्धैर्देवसमूहैश्च दानवा निहता रणे ।
तेषां शिरांसि संगृह्य सर्वे देवाः सवासवाः
॥३॥निक्षिप्य नर्मदातोये बन्धुभावमनुस्मरम् ।
तत्र स्नात्वा सुराः सर्वे स्थापयित्वा उमापतिम्
॥४॥इन्द्रेण सहिताः सर्वेऽपूजयंल्लोकसिद्धये ।
हृष्टचित्ताः सुराः सर्वे जग्मुराकाशमण्डलम्
॥५॥दानवानां महाभाग सूदिता कोटिरुत्तमा ।
तदा प्रभृति तत्तीर्थं करोडीति महीतले
॥६॥विख्यातं तु तदा लोके पापघ्नं पाण्डुनन्दन ।
अष्टम्यां च चतुर्दश्यामुभौ पक्षौ च भक्तितः ।
उपोष्य शूलिनश्चाग्रे रात्रौ कुर्वीत जागरम्
॥७॥सत्कथापाठसंयुक्तो वेदाध्ययनसंयुतः ।
प्रभाते विमले प्राप्ते पूजयेत्त्रिदशेश्वरम्
॥८॥पञ्चामृतेन संस्नाप्य श्रीखण्डेन च गुण्ठयेत् ।
शस्तैः पल्लवपुष्पैश्च पूजयेत्तु प्रयत्नतः
॥९॥बहुरूपं जपन्मन्त्रं दक्षिणाशां व्यवस्थितः ।
यथोक्तेन विधानेन नाभिमात्रे जले क्षिपेत्
॥१०॥तिलाञ्जलिं तु प्रेताय दक्षिणाशामुपस्थितः ।
श्राद्धं तत्रैव विप्राय कारयेद्विजितेन्द्रियः
॥११॥विषमैरग्रजातैश्च वेदाभ्यसनतत्परैः ।
गोहिरण्येन सम्पूज्य ताम्बूलैर्भोजनैस्तथा
॥१२॥भूषणैः पादुकाभिश्च ब्राह्मणान्पाण्डुनन्दन ।
भवेत्कोटिगुणं तस्य नात्र कार्या विचारणा
॥१३॥तस्मिंस्तीर्थे तु यः कश्चित्त्यजेद्देहं विधानतः ।
तस्य भवति यत्पुण्यं तच्छृणुष्व नराधिप
॥१४॥यावदस्थीनि तिष्ठन्ति मर्त्यस्य नर्मदाजले ।
तावद्वसति धर्मात्मा शिवलोके सुदुर्लभे
॥१५॥ततः कालाच्च्युतस्तस्मादिह मानुषतां गतः ।
कोटिधनपतिः श्रीमाञ्जायते राजपूजितः
॥१६॥सर्वधर्मसमायुक्तो मेधावी बीजपुत्रकः ।
विख्यातो वसुधापृष्ठे दीर्घायुर्मानवो भवेत्
॥१७॥पुनः स्मरति तत्तीर्थं तत्र गत्वा नृपोत्तम ।
करोडेश्वरमभ्यर्च्य प्राप्नोति परमां गतिम्
॥१८॥इन्द्रचन्द्रयमैर्रुद्रैरादित्यैर्वसुभिस्तथा ।
विश्वेदेवैस्तथा सर्वैः स्थापितस्त्रिदशेश्वरः
॥१९॥रेवाया उत्तरे कूले लोकानां हितकाम्यया ।
मानवो भक्तिसंयुक्तः प्रासादं कारयेत्तु यः
॥२०॥तस्मिंस्तीर्थे नरश्रेष्ठ सद्गतिं समवाप्नुयात् ।
न्यायोपात्तधनेनैव दारुपाषाणकेष्टकैः
॥२१॥ब्राह्मणः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिश्च शक्तितः ।
तेऽपि यान्ति नरा लोके शांकरे सुरपूजिते
॥२२॥यः शृणोति सदा भक्त्या माहात्म्यं तीर्थजं नृप ।
तस्य पापं प्रणश्येत षण्मासाभ्यन्तरं च यत्
॥२३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे करोडीश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्टितमोऽध्यायः॥