मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १६१

3
अवन्तीखण्डः · रेवाखण्डः · 161

यत्र सिद्धा महासर्पास्तपस्तप्त्वा युधिष्ठिर

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महाराज सर्पतीर्थमनुत्तमम् ।

यत्र सिद्धा महासर्पास्तपस्तप्त्वा युधिष्ठिर

॥१॥

वासुकिस्तक्षको घोरः सार्प ऐरावतस्तथा ।

कालियश्च महाभागः कर्कोटकधनंजयौ

॥२॥

शङ्खचूडो महातेजा धृतराष्ट्रो वृकोदरः ।

कुलिको वामनश्चैव तेषां ये पुत्रपौत्रिणः

॥३॥

तत्र तीर्थे महापुण्ये तपस्तप्त्वा सुदुष्करम् ।

भुञ्जन्ति विविधान्भोगान्क्रीडन्ति च यथासुखम्

॥४॥

तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।

वाजपेयफलं तस्य पुरा प्रोवाच शङ्करः

॥५॥

स्नातानां सर्पतीर्थे तु नराणां भुवि भारत ।

सर्पवृश्चिकजातिभ्यो न भयं विद्यते क्वचित्

॥६॥

मृतो भोगवतीं गत्वा पूज्यमानो महोरगैः ।

नागकन्यापरिवृतो महाभोगपतिर्भवेत्

॥७॥

मार्गशीर्षस्य मासस्य कृष्णपक्षे च याष्टमी ।

सोपवासः शुचिर्भूत्वा लिङ्गं सम्पूरयेत्तिलैः ।

यथाविभवसारेण गन्धपुष्पैः समर्चयेत्

॥८॥

एवं विधाय विधिवत्प्रणिपत्य क्षमापयेत् ।

तस्य यत्फलमुद्दिष्टं तच्छृणुष्व नरेश्वर

॥९॥

तिलास्तत्र च यत्संख्याः पत्रपुष्पफलानि च ।

तावत्स्वर्गपुरे राजन्मोदते कालमीप्सितम्

॥१०॥

ततः स्वर्गात्परिभ्रष्टो जायते विमले कुले ।

सुरूपः सुभगश्चैव धनकोटिपतिर्भवेत्

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सर्पतीर्थमाहात्म्यवर्णनं नामैकषष्ट्युत्तरशततमोऽध्यायः ॥