मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २२३

3
अवन्तीखण्डः · रेवाखण्डः · 223

वासवेश्वरतीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

ततः क्रोशान्तरे पार्थ वासवं तीर्थमुत्तमम् ।

वसुभिः स्थापितं तत्र स्थित्वा वै द्वादशाब्दकम्

॥१॥

धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ।

प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविमे पुरा

॥२॥

पितृशापपरिक्लिष्टा गर्भवासाय भारत ।

नार्मदं तीर्थमासाद्य तपश्चक्रुर्यतेन्द्रियाः

॥३॥

आराधयन्तः परमं भवानीपतिमव्यम् ।

द्वादशाब्दानि राजेन्द्र ततस्तुष्टो महेश्वरः

॥४॥

प्रत्यक्षः प्रददौ तेभ्यस्त्वभीष्टं वरमुत्तमम् ।

ततः स्वनाम्ना संस्थाप्य वसवस्तं महेश्वरम् ।

जग्मुराकाशमाविश्य प्रसन्ने सति शङ्करे

॥५॥

ततः प्रभृति विख्यातं तीर्थं तद्वासवाह्वयम् ।

तस्मिंस्तीर्थे महाराज यो भक्त्या पूजयेच्छिवम् ।

यथालब्धोपहारैश्च दीपं दद्यात्प्रयत्नतः

॥६॥

शुक्लपक्षे तदाष्टम्यां प्रत्यहं वापि शक्तितः ।

अष्टौ वर्षसहस्राणि स वसेच्छिवसंनिधौ

॥७॥

ततः शिवालयं याति गर्भवासं न पश्यति ।

पुष्पैर्वा पल्लवैर्वापि फलैर्धान्यैस्तथापि वा

॥८॥

पूजयेद्देवमीशानं स दैन्यं नाप्नुयात्क्वचित् ।

सर्वशोकविनिर्मुक्तः स्वर्गलोके महीयते

॥९॥

एकाहमपि कौन्तेय यो वसेद्वासवेश्वरे ।

पापराशिं विनिर्धूय भानुवद्दिवि मोदते

॥१०॥

विप्रांश्च भोजयेद्भक्त्या दद्याद्वासांसि दक्षिणाम्

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वासवेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥