मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २२६

3
अवन्तीखण्डः · रेवाखण्डः · 226

विमलेश्वरतीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

ततः क्रोशान्तरे पुण्यं तीर्थं तद्विमलेश्वरम् ।

यत्र स्नानेन दानेन जपहोमार्चनादिभिः

॥१॥

विमलेश्वरमाराध्य यो यदिच्छेत्स तल्लभेत् ।

स्वर्गलाभादिकं वापि पार्थिवं वा यथेप्सितम्

॥२॥

पुरा त्रिशिरसं हत्वा त्वष्टुः पुत्रं शतक्रतुः ।

यस्य तीर्थस्य माहात्म्याद्वैमल्यं परमं गतः

॥३॥

यत्र वेदनिधिर्विप्रो महत्तप्त्वा तपः पुरा ।

नानाकर्ममलैः क्षीणैर्विमलोऽभवदर्कवत्

॥४॥

महादेवप्रसादेन सोमवत्प्रियदर्शनः ।

पुरा भानुमतीं भानुः सुतां स्मरशरार्दितः

॥५॥

चकमे तेन दोषेण कुष्ठरोगार्दितोऽभवत् ।

स चाप्यत्र तपस्तप्त्वा विमलत्वमुपागतः

॥६॥

महादेवेन तुष्टेन स्वस्थानं मुदितोऽभजत् ।

तथैव च पुरा पार्थ विभाण्डकसुतो मुनिः

॥७॥

योगिसङ्गं वने प्राप्य पुरे च नृपतेस्तथा ।

राजसंसर्गदोषाद्वै मालिन्यं परमात्मनः

॥८॥

विचारयन्नभ्युपेत्य रेवासागरसङ्गमम् ।

शान्तया भार्यया सार्द्धं तप्त्वा द्वादशवत्सरान्

॥९॥

कृच्छ्रचान्द्रायणैर्देवं तोषयंस्त्र्यम्बकं मुनिः ।

महादेवेन तुष्टेन सोऽपि वैमल्यमाप्तवान्

॥१०॥

शर्वाण्या प्रेरितः शर्वः पुरा दारुवने नृप ।

मोहनान्मुनिपत्नीनां स्वं दीक्ष्य विमलं किल

॥११॥

विचार्य परमस्थानं नर्मदोदधिसङ्गमम् ।

तत्र स्थित्वा महाराज तपस्तप्त्वा सहोमया

॥१२॥

विमलोऽसौ यतो जातस्तेनासौ विमलेश्वरः ।

तेन नाम्ना स्वयं तस्थौ लोकानां हितकाम्यया

॥१३॥

ततस्तिलोत्तमां सृष्ट्वा ब्रह्मा लोकपितामहः ।

प्रजानाथोऽपि तां सृष्ट्वा दृष्ट्वाग्रे सुमनोहराम्

॥१४॥

भावियोगबलाक्रान्तः स तस्यामभिकोऽभवत् ।

तेन वीक्ष्य सदोषत्वं रेवातीरद्वयं श्रितः

॥१५॥

तीर्थान्यनुसरन्मौनी त्रिस्नायी संस्मरञ्छिवम् ।

रेवार्णवसमायोगे स्नात्वा सम्पूज्य शङ्करम् ।

कालेनाल्पेन राजर्षे ब्रह्माप्यमलतां गतः

॥१६॥

एवमन्येऽपि बहुशो देवर्षिनृपसत्तमाः ।

त्यक्त्वा दोषमलं तत्र विमला बहवोऽभवन्

॥१७॥

तथा त्वमपि राजेन्द्र तत्र स्नात्वा शिवार्चनात् ।

अमलोऽपि विशेषेण वैमल्यं प्राप्स्यसे परम्

॥१८॥

तत्र स्नात्वा नरो नारी पूजयित्वा महेश्वरम् ।

पापदोषविनिर्मुक्तो ब्रह्मलोके महीयते

॥१९॥

तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।

अष्टम्यां च चतुर्दश्यां सर्वपर्वसु पार्थिव

॥२०॥

सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ।

श्राद्धं कृत्वा विधानेन पित्ःणामनृणी भवेत् ।

ब्राह्मणान् भोजयेच्छक्त्या तेभ्यो दद्याच्च दक्षिणाम्

॥२१॥

यद्यदिष्टतमं लोके यच्चैवात्महितं गृहे ।

तत्तद्गुणवते देयं तत्रैवाक्षयमिच्छता ।

स्वर्णधान्यानि वासांसि छत्रोपानत्कमण्डलुम्

॥२२॥

गृहं देवस्य वै शक्त्या कृत्वा स्याद्भुवि भूपतिः ।

गीतनृत्यकथाभिश्च तोषयेत्परमेश्वरम्

॥२३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः ॥