मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८५

3
अवन्तीखण्डः · रेवाखण्डः · 185

एरण्डीतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल एरण्डीतीर्थमुत्तमम् ।

स्नानमात्रेण तत्रैव ब्रह्महत्या प्रणश्यति

॥१॥

मासि चाश्वयुजे तत्र शुक्लपक्षे चतुर्दशीम् ।

उपोष्य प्रयतः स्नातस्तर्पयेत्पितृदेवताः

॥२॥

पुत्रर्द्धिरूपसम्पन्नो जीवेच्च शरदां शतम् ।

शिवलोकं मृतो याति नात्र कार्या विचारणा

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एरण्डीतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीत्युत्तरशततमोऽध्यायः ॥