श्रीमार्कण्डेय उवाच - ततो गच्छेद्धराधीश तीर्थं परमशोभनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेद्धराधीश तीर्थं परमशोभनम् ।
जमदग्निरिति ख्यातं यत्र सिद्धो जनार्दनः
॥१॥युधिष्ठिर उवाच
कथं सिद्धो द्विजश्रेष्ठ वासुदेवो जगद्गुरुः ।
मानुषं रूपमास्थाय लोकानां हितकाम्यया
॥२॥एतत्सर्वं यथान्यायं देवदेवस्य चक्रिणः ।
चरितं श्रोतुमिच्छामि कथ्यमानं त्वयानघ
॥३॥श्रीमार्कण्डेय उवाच
आसीत्पूर्वं महाराज हैहयाधिपतिर्महान् ।
कार्तवीर्य इति ख्यातो राजा बाहुसहस्रवान्
॥४॥हस्त्यश्वरथसम्पन्नः सर्वशस्त्रभृतां वरः ।
वेदविद्याव्रतस्नातः सर्वभूताभयप्रदः
॥५॥माहिष्मत्याः पतिः श्रीमान्राजा ह्यक्षौहिणीपतिः ।
स कदाचिन्मृगान्हन्तुं निर्जगाम महाबलः
॥६॥बहुभिर्दिवसैः प्राप्तो भृगुकच्छमनुत्तमम् ।
जमदग्निर्महातेजा यत्र तिष्ठति तापसः
॥७॥रेणुकासहितः श्रीमान्सर्वभूताभयप्रदः ।
तस्य पुत्रोऽभवद्रामः साक्षान्नारायणः प्रभुः
॥८॥सर्वक्षत्रगुणैर्युक्तो ब्रह्मविद्ब्राह्मणोत्तमः ।
तोषयन्परया भक्त्या पितरौ परमार्थवत्
॥९॥तं तदा चार्जुनं दृष्ट्वा जमदग्निः प्रतापवान् ।
चरन्तं मृगयां गत्वा ह्यातिथ्येन न्यमन्त्रयत्
॥१०॥तथेति चोक्त्वा स नृपः सभृत्यबलवाहनः ।
जगाम चाश्रमं पुण्यमृषेस्तस्य महात्मनः
॥११॥तत्क्षणादेव सम्पन्नं श्रिया परमया वृतम् ।
विस्मयं परमं तत्र दृष्ट्वा राजा जगाम ह
॥१२॥गतमात्रस्तु सिद्धेन परमान्नेन भोजितः ।
सभृत्यबलवान्राजा ब्राह्मणेन यदृच्छया ।
किमेतदिति पप्रच्छ कारणं शक्तिमेव च
॥१३॥कामधेनोः प्रभावं तं ज्ञात्वा प्राह ततो द्विजम् ।
दक्षिणां देहि मे विप्र कल्मषां धेनुमुत्तमाम्
॥१४॥शतं शतसहस्राणामयुतं नियुतं परम् ।
भूषितानां च धेनूनां ददामि तव चार्बुदम्
॥१५॥जमदग्निरुवाच
अयुतैः प्रयुतैर्नाहं शतकोटिभिरुत्तमाम् ।
कामधेनुमिमां तात न दद्मि प्रतिगम्यताम्
॥१६॥एवमुक्तः स राजेन्द्रस्तेन विप्रेण भारत ।
क्रोधसंरक्तनयन इदं वचनमब्रवीत्
॥१७॥यस्येदृशः कामचारो मय्यपि द्विजपांसन ।
अहं ते पश्यतस्तस्मान्नयामि सुरभिं गृहात्
॥१८॥द्विज उवाच
कः क्रीडति सरोषेण निर्भयो हि महाहिना ।
मृत्युदृष्टोतरेणापि मम धेनुं नयेत यः
॥१९॥एवमुक्त्वा महादण्डं ब्रह्मदण्डमिवापरम् ।
गृहीत्वा परमक्रुद्धो जमदग्निरुवाच ह
॥२०॥यस्यास्ति शक्तिस्तेजो वा क्षत्रियस्य कुलाधमः ।
धेनुं नयतु मे सद्यः क्षीणायुः सपरिच्छदः
॥२१॥एतच्छ्रुत्वा वचः क्रूरं हैहयः शतशो वृतः ।
धावमानः क्षितितले ब्रह्मदण्डहतोऽपतत्
॥२२॥हुंकृतेन ततो धेन्वाः खड्गपाशासिपाणयः ।
निर्गच्छन्तः प्रदृश्यन्ते कल्मषायाः सहस्रशः
॥२३॥नासापुटाग्राद्रोमाग्रात्किराता मागधा गुदात् ।
रन्ध्रान्तरेषु चोत्पन्नाः शतशोऽथ सहस्रशः
॥२४॥एवमन्योऽन्यमाहत्य हैहयष्टङ्कणान्दहन् ।
विनाशं सह विप्रेण गता ह्यर्जुनतेजसा
॥२५॥कार्तवीर्यो जयं लब्ध्वा संख्ये हत्वा द्विजोत्तमम् ।
जगाम स्वां पुरीं हृष्टः कृतान्तवशमोहितः
॥२६॥ततस्त्वरान्वितः प्राप्तः पश्चाद्रामो गते रिपौ ।
आक्रन्दमानां जननीं ददर्श पितुरन्तिके
॥२७॥राम उवाच
केनेदमात्मनाशाय ह्यज्ञानात्साहसं कृतम् ।
मम तातं जिघांसुर्यो द्रष्टुं मृत्युमिहेच्छति
॥२८॥ततः सा रामवाक्येन गतसत्त्वेव विह्वला ।
उदरं करयुग्मेन ताडयन्ती ह्युवाच तम्
॥२९॥अर्जुनेन नृशंसेन क्षत्रियैरपरैः सह ।
इहागत्य पिता तेन निहतो बाहुशालिना
॥३०॥तं पश्य निहतं तातं गतासुं गतचेतसम् ।
संस्कृत्य विधिवत्पुत्र तर्पयस्व यथातथम्
॥३१॥एतच्छ्रुत्वा स वचनं जननीमभिवाद्य ताम् ।
प्रतिज्ञामकरोद्यां तां शृणुष्व च नराधिप
॥३२॥त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रियकुलान्वयाम् ।
स्नात्वा च तेषामसृजा तर्पयिष्यामि ते पतिम्
॥३३॥तस्यापि परशुना बाहून् कार्तवीर्यस्य दुर्मतेः ।
छित्त्वा पास्यामि रुधिरमिति सत्यं शृणुष्व मे
॥३४॥एवं प्रतिज्ञां कृत्वासौ जामदग्न्यः प्रतापवान् ।
क्रोधेन महताविष्टः संस्कृत्य पितरं ततः
॥३५॥माहिष्मतीं पुरीं रामो जगाम क्रोधमूर्छितः ।
छित्त्वा बाहुवनं तस्य हत्वा तं क्षत्रियाधमम्
॥३६॥जगाम क्षत्रियान्ताय पृथिवीमवलोकयन् ।
सप्तद्वीपार्णवयुतां सशैलवनकाननाम्
॥३७॥पूर्वतः पश्चिमामाशां दक्षिणोत्तरतः कुरून् ।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्
॥३८॥स तेषु रुधिराम्भस्तु ह्रदेषु क्रोधमूर्छितः ।
पितॄन् संतर्पयामास रुधिरेणेति नः श्रुतम्
॥३९॥अथर्चीकादय उपेत्य पितरो ब्राह्मणर्षभम् ।
तं क्षमस्वेति जगदुस्ततः स विरराम ह
॥४०॥तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।
समं तपं चक्रमिति पुण्यं तत्परिकीर्तितम्
॥४१॥निवर्त्य कर्मणस्तस्मात्पित्ःन् प्रोवाच पाण्डव ।
रामः परमधर्मात्मा यदिदं रुधिरं मया
॥४२॥क्षिप्तं पञ्चसु तीर्थेषु तद्भूयात्तीर्थमुत्तमम् ।
तथेत्युक्त्वा तु ते सर्वे पितरोऽदृश्यतां गताः
॥४३॥एवं रामस्य संसर्गो देवमार्गे युधिष्ठिर ।
सर्वपापक्षयकरो दर्शनात्स्पर्शनान्नृणाम्
॥४४॥रेणुकाप्रत्ययार्थाय अद्यापि पितृदेवताः ।
दृश्यन्ते देवमार्गस्थाः सर्वपापक्षयंकराः
॥४५॥तत्र तीर्थे तु राजेन्द्र नर्मदोदधिसङ्गमे ।
स्थानं कृत्वा विधानेन मुच्यन्ते पातकैर्नराः
॥४६॥कुशाग्रेणापि कौन्तेय न स्पृष्टव्यो महोदधिः ।
अनेन तत्र मन्त्रेण स्नातव्यं नृपसत्तम
॥४७॥नमस्ते विष्णुरूपाय नमस्तुभ्यमपां पते ।
सान्निध्यं कुरु देवेश सागरे लवणाम्भसि ।
इति स्पर्शनमन्त्रः
॥४८॥अग्निश्च तेजो मृडया च देहे रेतोऽथ विष्णुरमृतस्य नाभिः ।
एतद्ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम्
॥४९॥पञ्चरत्नसमायुक्तं फलपुष्पाक्षतैर्युतम् ।
मन्त्रेणानेन राजेन्द्र दद्यादर्घं महोदधेः
॥५०॥सर्वरत्ननिधानस्त्वं सर्वरत्नाकराकरः ।
सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते ।
इत्यर्घमन्त्रः
॥५१॥आ जन्मजनितात्पापान्मामुद्धर महोदधे ।
याह्यर्चितो रत्ननिधे पर्वतान् पार्वणोत्तम ।
इति विसर्जनमन्त्रः
॥५२॥कोऽपरः सागराद्देवात्स्वर्गद्वारविपाटन ।
तत्र सागरपर्यन्तं महातीर्थमनुत्तमम्
॥५३॥जामदग्न्येन रामेण तत्र देवः प्रतिष्ठितः ।
यत्र देवाः सगन्धर्वा मुनयः सिद्धचारणाः
॥५४॥उपासते विरूपाक्षं जमदग्निमनुत्तमम् ।
रेणुकां चैव ये देवीं पश्यन्ति भुवि मानवाः
॥५५॥प्रियवासे शिवे लोके वसन्ति कालमीप्सितम् ।
तत्र स्नात्वा नरो राजंस्तर्पयन्पितृदेवताः
॥५६॥तारयेन्नरकाद्घोरात्कुलानां शतमुत्तरम् ।
स्नात्वा दत्त्वात्र सहिताः श्रुत्वा वै भक्तिपूर्वकम्
॥५७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे जामदग्न्यतीर्थमाहात्म्यवर्णनं नामाष्टादशाधिकद्विशततमोऽध्यायः ॥