योजनेश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महाराज योजनेश्वरमुत्तमम् ।
यत्र सिद्धौ पुरा कल्पे नरनारायणावृषी
॥१॥तत्र तीर्थे तपस्तप्त्वा सङ्ग्रामे देवदानवैः ।
जयं प्राप्तौ महात्मानौ नरनारायणावुभौ
॥२॥पुनस्त्रेतायुगे प्राप्ते तौ देवौ रामलक्ष्मणौ ।
तत्र तीर्थे पुनः स्नात्वा रावणो दुर्जयो हतः
॥३॥पुनः पार्थ कलौ प्राप्ते तौ देवौ बलकेशवौ ।
वसुदेवकुले जातौ दुष्करं कर्म चक्रतुः
॥४॥नरकं कालनेमिं च कंसं चाणूरमुष्टिकौ ।
शिशुपालं जरासंधं जघ्नतुर्बलकेशवौ
॥५॥ततस्तत्र रिपून्संख्ये भीष्मद्रोणपुरःसरान् ।
कर्णदुर्योधनादींश्च निहनिष्यति स प्रभुः
॥६॥धर्मक्षेत्रे कुरुक्षेत्रे तत्र युध्यन्ति ते क्षणम् ।
भीमार्जुननिमित्तेन शिष्यौ कृत्वा परस्परम्
॥७॥तत्र तीर्थे पुनर्गत्वा तपः कृत्वा सुदुष्करम् ।
पूजयित्वा द्विजान्भक्त्या यास्येते द्वारकां पुनः
॥८॥तत्र तीर्थे तु यः स्नात्वा पूजयेद्बलकेशवौ ।
तेन देवो जगद्धाता पूजितस्त्रिगुणात्मवान्
॥९॥उपवासी नरो भूत्वा यस्तु कुर्यात्प्रजागरम् ।
मुच्यते सर्वपापेभ्यो गायंस्तस्य शुभां कथाम्
॥१०॥यावतस्तत्र तीर्थे तु वृक्षान् पश्यन्ति मानवाः ।
ब्रह्महत्यादिकं पापं तावदेषां प्रणश्यति
॥११॥प्रातरुत्थाय ये केचित्पश्यन्ति बलकेशवौ ।
तेनैव सदृशाः सर्वे देवदेवेन चक्रिणा
॥१२॥ते पूज्यास्ते नमस्कार्यास्तेषां जन्म सुजीवितम् ।
ये नमन्ति जगत्पूज्यं देवं नारायणं हरिम्
॥१३॥तत्र तीर्थे तु यद्दानं स्नानं देवार्चनं नृप ।
क्रियते तत्फलं सर्वमक्षयायोपकल्पते
॥१४॥अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ।
लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गां च भुवं च दद्यात्
॥१५॥एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।
अतीतं च भविष्यच्च वर्तमानं महाबलम्
॥१६॥श्रुत्वा वापि पठित्वेदं श्रावयिपत्वाथ धार्मिकान् ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा
॥१७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे योजनेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥