मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ११०

3
अवन्तीखण्डः · रेवाखण्डः · 110

धौतपापतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

धौतपापं ततो गच्छेन्महापातकनाशनम् ।

समीपे चक्रतीर्थस्य विष्णुना निर्मितं पुरा

॥१॥

निहतैर्दानवैर्घोरैर्देवदेवो जनार्दनः ।

तत्पापस्य विनाशार्थं दानवान्तोद्भवस्य च

॥२॥

तत्र तीर्थे जितक्रोधश्चचार विपुलं तपः ।

दुश्चरं मौनमास्थाय ह्यशक्यं देवदानवैः

॥३॥

स्नात्वा दत्त्वा द्विजातिभ्यो दानानि विविधानि च ।

तत्क्षणात्सुपापस्तु गतस्तद्वैष्णवं पदम्

॥४॥

एवं युक्तस्तु यस्तत्र पापं कृत्वा सुदारुणम् ।

स्नात्वा जप्त्वा विधानेन मुच्यते सर्वपातकैः

॥५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम दशोत्तरशततमोऽध्यायः ॥