मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २२०

3
अवन्तीखण्डः · रेवाखण्डः · 220

लोटणेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेद्धराधीश लोटणेश्वरमुत्तमम् ।

उत्तरे नर्मदाकूले सर्वपातकनाशनम्

॥१॥

तत्क्षणादेव तत्सर्वं सप्तजन्मार्जितं त्वघम् ।

नश्यते देवदेवस्य दर्शनादेव तन्नृप

॥२॥

बाल्यात्प्रभृति यत्पापं यौवने चापि यत्कृतम् ।

तत्सर्वं विलयं याति देवदेवस्य दर्शनात्

॥३॥

युधिष्ठिर उवाच

आश्चर्यभूतं लोकेषु नर्मदाचरितं महत् ।

त्वया वै कथितं विप्र सकलं पापनाशनम्

॥४॥

यदेकं परमं तीर्थं सर्वतीर्थफलप्रदम् ।

श्रोतुमिच्छामि तत्सर्वं दयां कृत्वा वदाशु मे

॥५॥

ये केचिद्दुर्लभाः प्रश्नास्त्रिषु लोकेषु सत्तम ।

त्वत्प्रसादेन ते सर्वे श्रुता मे सह बान्धवैः

॥६॥

एतमेकं परं प्रश्नं सर्वप्रश्नविदां वर ।

श्रुत्वाहं त्वत्प्रसादेन यत्र यामि सबान्धवः

॥७॥

श्रीमार्कण्डेय उवाच

साधुसाधु महाप्राज्ञ यस्य ते मतिरीदृशी ।

दुर्लभं त्रिषु लोकेषु तस्य ते नास्ति किंचन

॥८॥

धर्ममर्थं च कामं च मोक्षं च भरतर्षभ ।

काले काले च यो वेत्ति कर्तव्यस्तेन धीमता

॥९॥

तस्मात्ते सम्प्रवक्ष्यामि प्रश्नस्यास्योत्तरं शुभम् ।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यन्ते भुवि मानवाः

॥१०॥

नर्मदा सरितां श्रेष्ठा सर्वतीर्थमयी शुभा ।

विशेषः कथितस्तस्या रेवासागरसङ्गमे

॥११॥

आगच्छन्तीं नृपश्रेष्ठ दृष्ट्वा रेवां महोदधिः ।

प्रणम्य च पुनर्देवीं सङ्गमे रेवया सह

॥१२॥

संचिन्त्य मनसा केयमिति मां वै सरिद्वरा ।

ज्ञात्वा संचिन्त्य मनसा रेवां लिङ्गोद्भवां पराम्

॥१३॥

लुठन्वै सम्मुखस्तात गतो रेवां महोदधिः ।

समुद्रे नर्मदा यत्र प्रविष्टास्ति महानदी

॥१४॥

तत्र देवाधिदेवस्य समुद्रे लिङ्गमुत्थितम् ।

लिङ्गोद्भूता महाभागा नर्मदा सरितां वरा

॥१५॥

लयं गता तत्र लिङ्गे तेन पुण्यतमा हि सा ।

नर्मदायां वसन्नित्यं नर्मदाम्बु पिबन्सदा ।

दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने

॥१६॥

सङ्गमे तत्र यः स्नात्वा लोटणेश्वरमर्चयेत् ।

सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः

॥१७॥

वाचिकं मानसं पापं कर्मणा यत्कृतं नृप ।

लोटणेश्वरमासाद्य सर्वं विलयतां व्रजेत्

॥१८॥

कार्त्तिक्यां तु विशेषेण कथितं शङ्करेण तु ।

तच्छृणुष्व नृपश्रेष्ठ सर्वपापापनोदनम्

॥१९॥

सम्प्राप्तां कार्त्तिकीं दृष्ट्वा गत्वा तत्र नृपोत्तम ।

चतुर्दश्यामुपोष्यैव स्नात्वा वै नर्मदाजले

॥२०॥

संतर्प्य पितृदेवांश्च श्राद्धं कृत्वा यथाविधि ।

रात्रौ जागरणं कुर्यात्सम्पूज्य लोटणेश्वरम्

॥२१॥

सफलं जीवितं तस्य सफलं तस्य चेष्टितम् ।

पङ्गवस्ते न सन्देहो जन्म तेषां निरर्थकम्

॥२२॥

एकाग्रमनसा यैस्तु न दृष्टो लोटणेश्वरः ।

पिशाचत्वं वियोनित्वं न भवेत्तस्य वै कुले

॥२३॥

सङ्गमे तत्र यो गत्वा स्नानं कृत्वा यथाविधि ।

पुण्यैश्चैव तथा कुर्याद्गीतैर्नृत्यैः प्रबोधनम्

॥२४॥

ततः प्रभातां रजनीं दृष्ट्वा नत्वा महोदधिम् ।

आमन्त्र्य स्नानविधिना स्नानं तत्र तु कारयेत्

॥२५॥

ओं नमो विष्णुरूपाय तीर्थनाथाय ते नमः ।

सान्निध्यं कुरु मे देव समुद्र लवणाम्भसि ।

इत्यामन्त्रणमन्त्रः

॥२६॥

अग्निश्च तेजो मृडया च देहो रेतोऽधा विष्णुरमृतस्य नाभिः ।

एवं ब्रुवन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ।

इति स्नानमन्त्रः

॥२७॥

आजन्मशतसाहस्रं यत्पापं कृतवान्नरः ।

सकृत्स्नानाद्व्यपोहेत पापौघं लवणाम्भसि

॥२८॥

अन्यथा हि कुरुश्रेष्ठ देवयोनिरसौ विभुः ।

कुशाग्रेणापि विबुधैर्न स्प्रष्टव्यो महार्णवः

॥२९॥

सर्वरत्नप्रधानस्त्वं सर्वरत्नाकराकर ।

सर्वामरप्रधानेश गृहाणार्घं नमोऽस्तु ते ।

इति अर्वमन्त्र

॥३०॥

पितृदेवमनुष्यांश्च संतर्प्य तदनन्तरम् ।

उत्तीर्य तीरे तस्यैव पञ्चभिर्द्विजपुंगवैः

॥३१॥

श्राद्धं समाचरेत्पश्चाल्लोकपालानुरूपिभिः ।

कृत्वाग्रे लोकपालांस्तु प्रतिष्ठाप्य यथाविधि

॥३२॥

सम्पूज्य च यथान्यायं तानेव ब्राह्मणैः सह ।

सुकृतं दुष्कृतं पश्चात्तेभ्यः सर्वं निवेदयेत्

॥३३॥

बाल्यात्प्रभृति यत्पापं कृतं वार्धकयौवने ।

प्रख्यापयित्वा तेभ्योऽग्रे लोकपालान्निमन्त्रयेत्

॥३४॥

बाल्यात्प्रभृति यत्किंचित्कृतमा जन्मतोऽशुभम् ।

विप्रेभ्यः कथितं सर्वं तत्सांनिध्यं स्थितेषु मे

॥३५॥

इत्युक्त्वा स लुठेत्पश्चात्तेभ्योऽग्रेण च सम्मुखम् ।

अनुमान्य च तान्पञ्च पश्चात्स्नानं समाचरेत्

॥३६॥

श्राद्धं च कार्यं विधिवत्पितृभ्यो नृपसत्तम ।

एवं कृते नृपश्रेष्ठ सर्वपापक्षयो भवेत्

॥३७॥

जिज्ञासार्थं तु यः कश्चिदात्मानं ज्ञातुमिच्छति ।

शुभाशुभं च यत्कर्म तस्य निष्ठामिमां शृणु

॥३८॥

स्नात्वा तत्र महातीर्थे लुठमानो व्रजेन्नरः ।

पापकर्मान्यतो याति धर्मकर्मा व्रजेन्नदीम्

॥३९॥

पापकर्मा ततो ज्ञात्वा पापं मे पूर्वसंचितम् ।

स्नात्वा तीर्थवरे तस्मिन्दानं दद्याद्यथाविधि

॥४०॥

लोटणेश्वरमभ्यर्च्य सर्वपापैः प्रमुच्यते ।

अवक्रगमनं गत्वा मुच्यते सर्वपातकैः

॥४१॥

तस्मात्सर्वप्रयत्नेन ज्ञात्वैवं नृपसत्तम ।

स्नातव्यं मानवैस्तत्र यत्र संनिहितो हरः

॥४२॥

एवं स्नात्वा विधानेन ब्राह्मणान् वेदपारगान् ।

पूजयेत्पृथिवीपाल सर्वपापोपशान्तये

॥४३॥

एवं गुणविशिष्टं हि तत्तीर्थं नृपसत्तम ।

तस्य तीर्थस्य माहात्म्यं शृणुष्वैकमना नृप

॥४४॥

तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः ।

श्राद्धं यः कुरुते तत्र पित्ःणां भक्तिभावितः

॥४५॥

दानं ददाति विप्रेभ्यो गोभूतिलहिरण्यकम् ।

षष्टिवर्षसहस्राणि कोटिर्वर्षशतानि च

॥४६॥

विमानवरमारूढः स्वर्गलोके महीयते ।

नर्मदासर्वतीर्थेभ्यः स्नाने दाने च यत्फलम्

॥४७॥

तत्फलं समवाप्नोति रेवासागरसङ्गमे ।

सुवर्णं रजतं ताम्रं मणिमौक्तिकभूषणम्

॥४८॥

गोवृषं च महीं धान्यं तत्र दत्त्वाक्षयं फलम् ।

शुभस्याप्यशुभस्यापि तत्र तीर्थे न संशयः

॥४९॥

तत्र तीर्थे नरः कश्चित्प्राणत्यागं युधिष्ठिर ।

करोति भक्त्या विधिवत्तस्य पुण्यफलं शृणु

॥५०॥

कोटिवर्षं तु वर्षाणां क्रीडित्वा शिवमन्दिरे ।

वेदवेदाङ्गविद्विप्रो जायते विमले कुले

॥५१॥

पुत्रपौत्रसमृद्धोऽसौ धनधान्यसमन्वितः ।

सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदांशतम्

॥५२॥

अपि द्वादशयात्रासु सोमनाथे यदर्चिते ।

कार्त्तिक्यां कृत्तिकायोगे तत्पुण्यं लोटणेश्वरे

॥५३॥

गया गङ्गा कुरुक्षेत्रे नैमिषे पुष्करे तथा ।

तत्पुण्यं लभते पार्थ लोटणेश्वरदर्शनात्

॥५४॥

यः शृणोति नरो भक्त्या पठ्यमानमिदं शुभम् ।

सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति

॥५५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लोटणेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरद्विशततमोऽध्यायः ॥