मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८९

3
अवन्तीखण्डः · रेवाखण्डः · 189

उदीर्णो यत्र वाराहो ह्यभवद्धरणीधरः

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।

उदीर्णो यत्र वाराहो ह्यभवद्धरणीधरः

॥१॥

धन्वदंष्ट्रां करालाग्रां बिभ्रच्च पृथिवीमिमाम् ।

स एव पञ्चमः प्रोक्तो वाराहो मुक्तिदायकः

॥२॥

युधिष्ठिर उवाच

कथमुदीर्णरूपोऽभूद्वाराहो धरणीधरः ।

वाराहत्वं गतः केन पञ्चमः केन संज्ञितः

॥३॥

मार्कण्डेय उवाच

आदिकल्पे पुरा राजन्क्षीरोदे भगवान् हरिः ।

शेते स भोगिशयने योगनिद्राविमोहितः

॥४॥

बभूव नृपतिश्रेष्ठ गत्वा वै देवसंनिधौ ।

अवोचद्भारखिन्नाहं गमिष्यामि रसातलम्

॥५॥

दृष्ट्वा देवाः समुद्विग्ना गता यत्र जनार्दनः ।

तुष्टुवुर्वाग्भिरिष्टाभिः केशवं जगत्पतिम्

॥६॥

देवा ऊचुः

नमो नमस्ते देवेश सुरार्तिहर सर्वग ।

विश्वमूर्ते नमस्तुभ्यं त्राहि सर्वान्महद्भयात्

॥७॥

इत्युक्तो दैवतैर्देवो ह्युवाच किमुपस्थितम् ।

कार्यं वदध्वं मे देवा यत्कृत्यं मा चिरं कृथाः

॥८॥

देवा ऊचुः

धरा धरित्री भूतानां भारोद्विग्ना निमज्जति ।

तामुद्धर हृषीकेश लोकान्संस्थापय स्थितौ

॥९॥

एवमुक्तः सुरैः सर्वैः केशवः परमेश्वरः ।

वाराहं रूपमास्थाय सर्वयज्ञमयं विभुः

॥१०॥

दंष्ट्राकरालं पिङ्गाक्षं समाकुञ्चितमूर्धजम् ।

कृत्वाऽनन्तं पादपीठं दंष्ट्राग्रेणोद्धरन्भुवम्

॥११॥

सपर्वतवनामुर्वीं समुद्रपरिमेखलाम् ।

उद्धृत्य भगवान् विष्णुरुदीर्णः समजायत

॥१२॥

दर्शयन्पञ्चधात्मानमुत्तरे नर्मदातटे ।

तथाद्यं कोरलायां तु द्वितीयं योधनीपुरे

॥१३॥

जयक्षेत्राभिधाने तु जयेति परिकीर्तितम् ।

असुरान्मोहयल्लिङ्गस्तृतीयः परिकीर्तितः

॥१४॥

पावनाय जगद्धेतोः स्थितो यस्माच्छशिप्रभः ।

अतस्तु नृपशार्दूल श्वेत इत्याभिधीयते

॥१५॥

उद्धृत्य जगतां देवीमुदीर्णो भृगुकच्छके ।

ततः पञ्चम उदीर्णो वराह इति संज्ञितः

॥१६॥

इति पञ्चवराहास्ते कथितः पाण्डुनन्दन ।

युगपद्दर्शनं चैषां ब्रह्महत्यां व्यपोहति

॥१७॥

ज्येष्ठे मासि सिते पक्ष एकादश्यां विशेषतः ।

गत्वा ह्यादिवराहं तु सम्प्राप्ते दशमीदिने

॥१८॥

हविष्यमन्नं भुञ्जीयाल्लघुसायं गते रवौ ।

रात्रौ जागरणं कुर्याद्वाराहे ह्यादिसंज्ञके

॥१९॥

ततः प्रभाते ह्युषसि संस्नात्वा नर्मदाजले ।

संतर्प्य पितृदेवांश्च तिलैर्यवविमिश्रितैः

॥२०॥

धेनुं दद्याद्द्विजे योग्ये सर्वाभरणभूषिताम् ।

निर्ममो निरहङ्कारो दानं दद्याद्द्विजातये

॥२१॥

गत्वा सम्पूजयेद्देवं वाराहं ह्यादिसंज्ञितम् ।

अनेन विधिना पूज्य पश्चाद्गच्छेज्जयं त्वरन्

॥२२॥

त्वरितं तु जयं गत्वा पूर्वकं विधिमाचरेत् ।

अश्वं दद्याद्द्विजाग्र्याय जयपूर्वाभिनिर्गतम्

॥२३॥

लिङ्गे चैव तिला देयाः श्वेते हिरण्यमेव च ।

उदीर्णे च भुवं दद्यात्पूर्वकं विधिमाचरेत्

॥२४॥

अनस्तमित आदित्ये वराहान्पञ्च पश्यतः ।

यत्फलं लभते पार्थ तदिहैकमनाः शृणु

॥२५॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।

एभिस्तु सह संयोगो विश्वस्तानां च वञ्चनम्

॥२६॥

स्वसृदुहितृभगिनीकुलदारोपबृंहणम् ।

आ जन्ममरणाद्यावत्पापं भरतसत्तम

॥२७॥

तीर्थपञ्चकपूतस्य वैष्णवस्य विशेषतः ।

युगपच्चविनश्येत तूलराशिरिवानलात्

॥२८॥

नारायणानुस्मरणाज्जपध्यानाद्विशेषतः ।

विप्रणश्यन्ति पापानि गिरिकूटसमान्यपि

॥२९॥

दृष्ट्वा पञ्च वराहान्वै पौरुषे महति स्थितः ।

आप्लवन्नर्मदातोये श्राद्धं कृत्वा यथाविधि

॥३०॥

उदयास्तमनादर्वाग्यः पश्येल्लोटणेश्वरम् ।

कलेवरविमुक्तः स इत्येवं शङ्करोऽब्रवीत्

॥३१॥

मुक्तिं प्रयाति सहसा दुष्प्रापां परमेश्वरीम् ।

पौरुषे क्रियमाणेऽपि न सिद्धिर्जायते यदि

॥३२॥

ब्रुवन्ति स्वर्गगमनमपि पापान्वितस्य च ।

यत्र तत्र गतस्यैव भवेत्पञ्चवराहकी

॥३३॥

ज्येष्ठस्यैकादशीतिथौ ध्रुवं तत्र वसेन्नरः ।

आदिं जयं तथा श्वेतं लिङ्गमुदीर्णमेव च

॥३४॥

आश्रित्य तस्या द्रष्टव्या वराहास्तु यतस्ततः ।

ज्येष्ठस्यैकादशीतिथौ विष्णुना प्रभुविष्णुना

॥३५॥

वाराहं रूपमास्थाय उद्धृता धरणी विभो ।

पुण्यात्पुण्यतमा तेन ह्यशेषाघौघनाशिनी

॥३६॥

दृष्ट्वा पञ्चवराहान्वै क्रोडमुदीर्णरूपिणम् ।

पूजयित्वा विधानेन पश्चाज्जागरणं चरेत्

॥३७॥

सपञ्चवर्तिकान् दीपान् घृतेनोज्ज्वाल्य भक्तितः ।

पुराणश्रवणैर्नृत्यैर्गीतवाद्यैः सुमङ्गलैः

॥३८॥

वेदजाप्यैः पवित्रैश्च क्षपयित्वा च शर्वरीम् ।

यत्पुण्यं लभते मर्त्यो ह्याजमीढ शृणुष्व तत्

॥३९॥

रेवाजलं पुण्यतमं पृथिव्यां तथा च देवो जगतां पतिर्हरिः ।

एकादशी पापहरा नरेन्द्र बह्वायासैर्लभ्यते मानवानाम्

॥४०॥

एकैकशो ब्रह्महत्यादिकानि शक्तानि हन्तुं पापसङ्घानि राजन् ।

नैते सर्वे युगपद्वै समेता हन्तुं शक्ताः किं न तद्ब्रूहि राजन्

॥४१॥

यथेदमुक्तं तव धर्मसूनो श्रुतं च यच्छङ्कराच्चन्द्रमौलेः ।

श्रुत्वेदमिच्छन्मुच्यते सर्वपापैः पठन्पदं याति हि वृत्रशत्रोः

॥४२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये उदीर्णवराहतीर्थमाहात्म्यवर्णनं नामैकोननवत्युत्तरशततमोऽध्यायः ॥