मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ६८

3
अवन्तीखण्डः · रेवाखण्डः · 68

नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्

श्रीमार्कण्डेय उवाच

धनदस्य तु तत्तीर्थं ततो गच्छेद्युधिष्ठिर ।

नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्

॥१॥

सर्वतीर्थफलं तत्र प्राप्यते नात्र संशयः ।

चैत्रमासत्रयोदश्यां शुक्लपक्षे जितेन्द्रियः

॥२॥

उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम् ।

पञ्चामृतेन राजेन्द्र स्नापयेद्धनदं बुधः

॥३॥

दीपं घृतेन दातव्यं गीतं वाद्यं च कारयेत् ।

प्रभाते पूजयेद्विप्रानात्मनः श्रेय इच्छति

॥४॥

प्रतिग्रहसमर्थांश्च विद्यासिद्धान्तवादिनः ।

श्रौतस्मार्तक्रियायुक्तान् परदारपराङ्मुखान्

॥५॥

पूजयेद्गोहिरण्येन वस्त्रोपानहभोजनैः ।

छत्रशय्याप्रदानेन सर्वपापक्षयो भवेत्

॥६॥

त्रिजन्मजनितं पापं वरदस्य प्रभावतः ।

स्वर्गदं दुर्विनीतानां विनीतानां च मोक्षदम्

॥७॥

अन्नदं च दरिद्राणां भवेज्जन्मनिजन्मनि ।

कुलीनत्वं दुःखहानिः स्वभावाजायते नरे

॥८॥

व्याधिध्वंसो भवेत्तेषां नर्मदोदकसेवनात् ।

धनदस्य तु यस्तीर्थे विद्यादानं प्रयच्छति

॥९॥

स याति भास्करे लोके सर्वव्याधिविवर्जिते ।

देवद्रोणीं च तत्रैव स्वशक्त्या पाण्डुनन्दन

॥१०॥

ये प्रकुर्वन्ति भूयिष्ठां रेवाया दक्षिणे तटे ।

ते यान्ति शांकरे लोके सर्वदुःखविवर्जिते

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धनदतीर्थमाहात्म्यवर्णनं नामाष्टषष्टितमोऽध्यायः ॥