मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ८

3
अवन्तीखण्डः · रेवाखण्डः · 8

महार्णवस्य मध्यस्थो बाहुभ्यामतरं जलम्

मार्कण्डेय उवाच

नष्टे लोके पुनश्चान्ये सलिलेन समावृते ।

महार्णवस्य मध्यस्थो बाहुभ्यामतरं जलम्

॥१॥

दिव्ये वर्षशते पूर्णे श्रान्तोऽहं नृपसत्तम ।

ध्यातुं समारभं देवं महदर्णवतारणम्

॥२॥

ध्यायमानस्ततः काले अपश्यं पक्षिणं परम् ।

हारकुन्देन्दुसंकाशं बकं गोक्षीरपाण्डुरम्

॥३॥

ततोऽहं विस्मयाविष्टस्तं बकं समुदीक्ष्य वै ।

अस्मिन्महार्णवे घोरे कुतोऽयं पक्षिसंभवः

॥४॥

तरन्बाहुभिरश्रान्तस्तं बकं प्रत्यभाषिषि ।

पाक्षरूपं समास्थाय कस्त्वमेकार्णवीकृते

॥५॥

भ्रमसे दिव्ययोगात्मन्मोहयन्निव मां प्रभो ।

एतत्कथय मे सर्वं योऽसि सोऽसि नमोऽस्तु ते

॥६॥

सोऽब्रवीन्मां महादेवो ब्रह्माहं विष्णुरेव च ।

जगत्सर्वं मया वत्स संहृतं किं न बुध्यसे

॥७॥

तव माता पिताहं वै विश्वस्य च महामुने ।

कारुण्यं मम संजातं दृष्ट्वा मग्नं महार्णवे

॥८॥

पक्षिरूपं समास्थाय अतोऽत्राहं समागतः ।

किमर्थमातुरो भूत्वा भ्रमसीत्थं महार्णवे

॥९॥

शीघ्रं प्रविश मत्पक्षौ येन विश्रमसे द्विज ।

एवमुक्तस्ततस्तेन देवेनाहं नरेश्वर

॥१०॥

ततोऽहं तस्य पक्षान्ते प्रलीनस्तु भ्रमञ्जले ।

काले युगसाहस्रान्ते अश्रान्तोऽर्णवमध्यगः

॥११॥

ततः शृणोमि सहसा दिक्षु सर्वासु सुव्रत ।

किंचिन्नूपुरसंमिश्रमद्भुतं शब्दमुत्तमम्

॥१२॥

तदार्णवजलं सर्वं संक्षिप्तं सहसाभवत् ।

किमेतदिति संचिन्त्य दिशः समवलोकयम्

॥१३॥

दश कन्यास्ततो दिक्षु आगताश्च महार्णवे ।

वस्त्रालंकारसहिता दिग्भ्यो नूपुरभूषिताः

॥१४॥

काचिच्चन्द्रसमाभासा काचिदादित्यसप्रभा ।

काचिदंजनपुञ्जाभा काचिद्रक्तोत्पलप्रभा

॥१५॥

नानारूपधरा सौम्या नानाभरणभूषिता ।

अर्घ्यपाद्यादिभिर्माल्यैर्बकमभ्यर्च्य सुव्रताः

॥१६॥

ततस्तं पर्वताकारं गुह्यं पक्षिणमव्ययम् ।

प्रविवेश महाघोरं पर्वतो ह्यर्णवं स्वराट्

॥१७॥

योजनानां सहस्राणि तावन्त्येव शतानि च ।

त्रिंशद्योजनसाहस्रं यावद्भूमण्डलं त्विति

॥१८॥

ततो भूमण्डलं दिव्यं पञ्चरत्नसमाकुलम् ।

दिव्यस्फटिकसोपानं रुक्मस्तंभमनोरमम्

॥१९॥

योजनानां सहस्रं तु विस्तराद्द्विगुणायतम् ।

वापीकूपसमाकीर्णं प्रासादाट्टालकावृतम्

॥२०॥

कल्पवृक्षसमाकीर्णं ध्वजषष्टिविभूषितम् ।

तस्मिन्पुरवरे रम्ये नानारत्नोपशोभितम्

॥२१॥

तथान्यच्च पुरं रम्यं पताकोज्ज्वलवेदिकम् ।

शतयोजनविस्तीर्णं तावद्द्विगुणमायतम्

॥२२॥

पुरमध्ये ततस्तस्मिन्नदी परमशोभना ।

महती पुण्यसलिला नानारत्नशिला तथा

॥२३॥

तस्यास्तीरे मया दृष्टं तडित्सूर्यसमप्रभम् ।

इन्द्रनीलमहानीलैश्चितं रत्नैः समन्ततः

॥२४॥

क्वचिद्वह्निसमाकारं क्वचिदिन्द्रायुधप्रभम् ।

क्वचिद्धूम्रं क्वचित्पीतं क्वचिद्रक्तं क्वचित्सितम्

॥२५॥

नानावर्णैः समायुक्तं लिङ्गमद्भुतदर्शनम् ।

ब्रह्मविष्ण्विन्द्रसाध्यैश्च समन्तात्परिवारितम्

॥२६॥

नन्दीश्वरगणाध्यक्षैश्चेन्द्रादित्यैश्च तद्वृतम् ।

पश्यामि लिङ्गमीशानं महालिङ्गं तमेव च

॥२७॥

परिवार्य ततस्तं तु प्रसुप्तान्देवदानवान् ।

निमीलिताक्षान्पश्यामि दिव्याभरणभूषितान्

॥२८॥

ततस्ताः पद्मपत्राक्ष्यो नार्यः परमसंमताः ।

नद्यास्तस्या जले स्नात्वा दिव्यपुष्पैर्मनोरमैः

॥२९॥

दत्त्वार्घपाद्यं विधिवल्लिंगस्य सह पक्षिणा ।

अर्चयन्तीर्वरारोहा दश ताः प्रमदोत्तमाः

॥३०॥

ततस्त्वभ्यर्च्य तल्लिङ्गं तस्मिन्नेव पुरोत्तमे ।

सर्वा अदर्शनं जग्मुर्विद्युतोऽभ्रगणेष्विव

॥३१॥

न चासौ पक्षिराट्तस्मिन्न स्त्रियो न च देवताः ।

तदेवैकं स्थितं लिङ्गमर्चयन्विस्मयान्वितः

॥३२॥

ततोऽहं दुःखमूढात्मा रुद्रमायेति चिन्तयन् ।

ततः कन्याः समुत्तीर्य दिव्यांबरविभूषणाः

॥३३॥

भासयन्त्यो जगत्सर्वं विद्युतोऽभ्रगणानिव ।

पद्मैर्हिरण्मयैर्दिव्यैरर्चयित्वा शुभाननाः

॥३४॥

विविशुस्तज्जलं क्षिप्रं समंताद्वरभूषणाः ।

तस्मिन्पुरवरे चान्ये तामेवाहं पुनःपुनः

॥३५॥

पश्यामि ह्यमरां कन्यामर्चयन्तीं महेश्वरम् ।

ततोऽहं तां वरारोहामपृच्छं कमलेक्षणाम्

॥३६॥

का त्वमस्मिन्पुरे देवि वससे शिवमर्चती ।

ताश्चागताः स्त्रियः सर्वाः क्व गतास्ते गणेश्वराः

॥३७॥

नमोऽस्तु ते महाभागे ब्रूहि पुण्ये महेश्वरि ।

तव प्रसादाद्विज्ञातुमेतदिच्छामि सुव्रते ।

दयां कृत्वा महादेवि कथयस्व ममानघे

॥३८॥

श्र्युवाच

विस्मृताहं कथं विप्र दृष्ट्वा कल्पे पुरातने ।

मा तेऽभूत्स्मृतिविभ्रंशः सा चाहं कल्पवाहिनी

॥३९॥

नर्मदा नाम विख्याता रुद्रदेहाद्विनिःसृता ।

यास्ताः कन्यास्त्वया दृष्टा ह्यर्चयन्त्यो महेश्वरम्

॥४०॥

याभिस्त्विह समानीतः पक्षिराजसमन्विताः ।

दिशस्ता विद्धि सर्वेशाः सर्वास्त्वं मुनिसत्तम

॥४१॥

तिर्यक्पक्षिस्वरूपेण महायोगी महेश्वरः ।

एभिः शिवपुराद्विप्र आनीतः स महेश्वरः

॥४२॥

सैष देवो महादेवो लिङ्गमूर्तिर्व्यवस्थितः ।

अर्च्यते ब्रह्मविष्ण्विन्द्रैः सुरासुरजगद्गुरुः

॥४३॥

लयमायाति यस्माद्धि जगत्सर्वं चराचरम् ।

तेन लिङ्गमिति प्रोक्तं पुराणज्ञैर्महर्षिभिः

॥४४॥

तेन देवगणाः सर्वे संक्षिप्ता मायया पुरा ।

प्रलीनाश्चैव लोकेश न दृश्यन्ते हि सांप्रतम्

॥४५॥

पुनर्दृश्या भविष्यन्ति सृजमानाः स्वयंभुवा ।

साहं लिङ्गार्चनपरा नर्मदा नाम नामतः

॥४६॥

कालं युगसहस्रस्य रुद्रस्य परिचारिका ।

अस्य प्रसादादमरस्तथा त्वं द्विजपुंगव

॥४७॥

सत्यार्जवदयायुक्तः सिद्धोऽसि त्वं शिवार्चनात् ।

एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत

॥४८॥

ताः स्त्रियः स च देवेशो बकरूपो महेश्वरः ।

तस्यास्तद्वचनं श्रुत्वा अवतीर्य महानदीम्

॥४९॥

स्नात्वा समर्चय त्वं हि विधिना मन्त्रपूर्वकम् ।

ततोऽहं सहसा तस्मात्समुत्तीर्य जलाशयात्

॥५०॥

न च पश्यामि तल्लिङ्गं न च तां निम्नगां नृप ।

तदैव लोकाः संजाताः क्षितिश्चैव सकानना

॥५१॥

ऋक्षचन्द्रार्कविततं तदेव च नभस्तलम् ।

यथापूर्वमदृष्टं तु तथैव च पुनः कृतम् ।

नतोऽहं मनसा देवमपूजयं महेश्वरम्

॥५२॥

एवं बके पुरा कल्पे मया दृष्टेयमव्यया ।

नर्मदा मर्त्यलोकस्य महापातकनाशिनी

॥५३॥

तस्माद्धर्मपरैर्विप्रैः क्षत्रशूद्रविशादिभिः ।

सदा सेव्या महाभागा धर्मवृद्ध्यर्थकारिभिः

॥५४॥

येऽपि भक्तया सकृत्तोये नर्मदाया महेश्वरम् ।

स्नात्वा ते सर्वं पापं नाशयन्त्यसंशयम्

॥५५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये बककल्पसमुद्भवो नामाष्टमोऽध्यायः ॥