मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५२

3
अवन्तीखण्डः · रेवाखण्डः · 52

दीर्घतपोमुन्याख्यानवर्णनम्

ईश्वर उवाच

अन्यदाख्यानकं वक्ष्ये पुरा वृत्तं नराधिप ।

सकुटुम्बो गतः स्वर्गं मुनिर्यत्र महातपाः

॥१॥

उत्तानपाद उवाच

कथं नाकं गतो विप्रः सकुटुम्बो महानृषिः ।

कौतुकं परमं देव कथयस्व मम प्रभो

॥२॥

ईश्वर उवाच

चित्रसेन इति ख्यातः काशीराजः पुराभवत् ।

शूरो दाता सुधर्मात्मा सर्वकामसमृद्धिमान्

॥३॥

सा पुरी जनसंकीर्णा नानारत्नोपशोभिता ।

वाराणसीति विख्याता गङ्गातीरमुपाश्रिता

॥४॥

शरच्चन्द्रप्रतीकाशा विद्वज्जनविभूषिता ।

इन्द्रयष्टिसमाकीर्णा गोपगोकुलसंवृता

॥५॥

बहुध्वजसमाकीर्णा वेदध्वनिनिनादिता ।

वणिग्जनैर्बहुविधैः क्रयविक्रयशालिनी

॥६॥

यन्त्रादानैः प्रतोलीभिरुच्चैश्चान्यैः सुशोभिता ।

देवतायतनैर्दिव्यैराश्रमैर्गहनैर्युता

॥७॥

नानापुष्पफलैर्रम्या कदलीखण्डमण्डिता ।

पनसैर्बकुलैस्तालैरशोकैराम्रकैस्तथा

॥८॥

राजवृक्षकपित्थैश्च दाडिमैरुपशोभिता ।

वेदाध्ययननिर्घोषैः पवित्रीकृतमङ्गला

॥९॥

तस्या उत्तरदिग्भागे आश्रमोऽभूत्सुशोभनः ।

तन्मन्दारवनं नाम त्रिषु लोकेषु विश्रुतम्

॥१०॥

बहुमन्दारसंयुक्तं तेन मन्दारकं विदुः ।

विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति

॥११॥

तपस्तपति सोऽत्यर्थं तेन दीर्घतपाः स्मृतः ।

स तिष्ठति सपत्नीकः ससुतः सस्नुषस्तथा

॥१२॥

शुश्रूषन्ति सदा तस्य पुत्राः पञ्च प्रयत्नतः ।

तस्य पुत्रः कनीयांस्तु ऋक्षशृङ्गो महातपाः

॥१३॥

वेदाध्ययनसम्पन्नो ब्रह्मचारी गुणान्वितः ।

योगाभ्यासरतो नित्यं कन्दमूलफलाशनः

॥१४॥

तिष्ठते मृगरूपेण मृगयूथचरस्तदा ।

दिनान्ते च दिनान्ते च मातापित्रोः समीपगः

॥१५॥

अभिवादयते नित्यं भक्तिमान्मुनिपुत्रकः ।

पुनर्गच्छति तत्रैव कानने गिरिगह्वरे

॥१६॥

क्रीडन्बालमृगैः सार्द्धं प्रत्यहं स मुनेः सुतः ।

कदाचिद्दैवयोगेन ऋक्षशृङ्गो ममार सः

॥१७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गचरित्रे दीर्घतपोमुन्याख्यानवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥