मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ८५

3
अवन्तीखण्डः · रेवाखण्डः · 85

सोमनाथतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र नर्मदायाः पुरातनम् ।

ब्रह्महत्याहरं तीर्थं वाराणस्या समं हि तत्

॥१॥

युधिष्ठिर उवाच

आश्चर्यं कथ्यतां ब्रह्मन्यद्वृत्तं नर्मदातटे ।

वाराणस्या समं कस्मादेतत्कथय मे प्रभो

॥२॥

निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम ।

युष्मद्वाणीजलस्नातो निर्दुःखः सह बान्धवैः

॥३॥

श्रीमार्कण्डेय उवाच

साधु साधु महाबाहो सोमवंशविभूषण ।

पृष्टोऽस्मि दुर्लभं तीर्थं गुह्याद्गुह्यतरं परम्

॥४॥

आदौ पितामहस्तावत्समस्तजगतः प्रभुः ।

मनसा तस्य संजाता दशैव ऋषिपुंगवाः

॥५॥

मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।

प्रचेतसं वसिष्ठं च भृगुं नारदमेव च

॥६॥

जज्ञे प्राचेतसं दक्षं महातेजाः प्रजापतिः ।

दक्षस्यापि तथा जाताः पञ्चाशद्दुहिताः किल

॥७॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।

तथैव स महाभागः सप्तविंशतिमिन्दवे

॥८॥

रोहिणी नाम या तासामभीष्टा साभवद्विधोः ।

शेषासु करुणां कृत्वा शप्तो दक्षेण चन्द्रमाः

॥९॥

क्षयरोग्यभवच्चन्द्रो दक्षस्यायं प्रजापतेः ।

स च शापप्रभावेण निस्तेजाः शर्वरीपतिः

॥१०॥

गतः पितामहं सोमो वेपमानोऽमृतांशुमान् ।

पद्मयोने नमस्तुभ्यं वेदगर्भ नमोऽस्तु ते ।

शरणं त्वां प्रसन्नोऽस्मि पाहि मां कमलासन

॥११॥

ब्रह्मोवाच

निस्तेजाः शर्वरीनाथ कलाहीनश्च दृश्यसे ।

उद्विग्नमानसस्तात संजातः केन हेतुना

॥१२॥

सोम उवाच

दक्षशापेन मे ब्रह्मन्निस्तेजस्त्वं जगत्पते ।

निर्हारश्चास्य शापस्य कथ्यतां मे पितामह

॥१३॥

ब्रह्मोवाच

सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा ।

ओङ्कारेऽथ भृगुक्षेत्रे तथा चैवौर्वसंगमे

॥१४॥

तत्र गच्छ क्षपानाथ यत्र रेवान्तरं तटम् ।

त्वरितोऽसौ गतस्तत्र यत्र रेवौर्विसंगमः

॥१५॥

काष्ठावस्थः स्थितः सोमो दध्यौ त्रिपुरवैरिणम् ।

यावद्वर्षशतं पूर्णं तावत्तुष्टो महेश्वरः

॥१६॥

प्रत्यक्षः सोमराजस्य वृषासन उमापतिः ।

साष्टाङ्गं प्रणिपत्योच्चैर्जय शम्भो नमोऽस्तु ते

॥१७॥

जय शङ्कर पापहराय नमो जय ईश्वर ते जगदीश नमः ।

जय वासुकिभूषणधार नमो जय शूलकपालधराय नमः

॥१८॥

जय अन्धकदेहविनाश नमो जय दानववृन्दवधाय नमः ।

जय निष्कलरूप सकलाय नमो जय काल कामदहाय नमः

॥१९॥

जय मेचककण्ठधराय नमो जय सूक्ष्मनिरञ्जनशब्द नमः ।

जय आदिरनादिरनन्त नमो जय शङ्कर किंकरमीश भज

॥२०॥

एवं स्तुतो महादेवः सोमराजेन पाण्डव ।

तुष्टस्तस्य नृपश्रेष्ठ शिवया शङ्करोऽब्रवीत्

॥२१॥

ईश्वर उवाच

वरं प्रार्थय मे भद्र यत्ते मनसि वर्तते ।

साधु साधु महासत्त्व तुष्टोऽहं तपसा तव

॥२२॥

सोम उवाच

दक्षशापेन दग्धोऽहं क्षीणसत्त्वो महेश्वर ।

शापस्योपशमं देव कुरु शर्म मम प्रभो

॥२३॥

ईश्वर उवाच

तव भक्तिगृहीतोऽहमुमया सह तोषितः ।

निष्पापः सोमनाथस्त्वं संजातस्तीर्थसेवनात्

॥२४॥

इत्यूचे देवदेवेशः क्षणं ध्यात्वेन्दुना ततः ।

स्थापितं परमं लिङ्गं कामदं प्राणिनां भुवि ।

सर्वदुःखहरं तत्तु ब्रह्महत्याविनाशनम्

॥२५॥

युधिष्ठिर उवाच

सोमनाथप्रभावं मे संक्षेपात्कथय प्रभो ।

दुःखार्णवनिमग्नानां त्राता प्राप्तो द्विजोत्तम

॥२६॥

श्रीमार्कण्डेय उवाच

शृणु तीर्थप्रभावं ते संक्षेपात्कथयाम्यहम् ।

यद्वृत्तमुत्तरे कूले रेवाया उरिसंगमे

॥२७॥

शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः ।

त्रिलोचनसुतः कण्वः स पापर्द्धिपरोऽभवत्

॥२८॥

वने नित्यं भ्रमन्सोऽथ मृगयूथं ददर्श ह ।

मृगयूथं हतं तत्तु त्रिलोचनसुतेन च

॥२९॥

मृगरूपी द्विजो मध्ये चरते निर्जने वने ।

स हतस्तेन सङ्गेन कण्वेन मुनिसत्तम

॥३०॥

ब्रह्महत्यान्वितः कण्वो निस्तेजा व्यचरन्महीम् ।

व्यचरंश्चैव सम्प्राप्तो नर्मदामुरिसंगमे

॥३१॥

किंशुकाशोकबहले जम्बीरपनसाकुले ।

कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते

॥३२॥

चिञ्चिणीचम्पकोपेते ह्यगस्तितरुछादिते ।

प्रभूतभूतसंयुक्तं वनं सर्वत्र शोभितम्

॥३३॥

चित्रकैर्मृगमार्जारैर्हिंस्रैः शम्बरशूकरैः ।

शशैर्गवयसंयुक्तैः शिखण्डिखरमण्डितम्

॥३४॥

प्रविष्टस्तु वने कण्वस्तृषार्तः श्रमपीडितः ।

स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने

॥३५॥

अर्चितः परया भक्त्या सोमनाथो युधिष्ठिर ।

पपौ सुविमलं तोयं सर्वपापक्षयंकरम्

॥३६॥

फलानि च विचित्राणि चखाद सह किंकरैः ।

सुप्तः पादपच्छायायां श्रान्तो मृगवधेन च

॥३७॥

तावत्तीर्थवरं विप्रः स्नानार्थं सङ्गमं गतः ।

मार्गगो ब्राह्मणो हर्षोद्युक्तस्तद्गतमानसः

॥३८॥

अबला तमुवाचेदं तिष्ठ तिष्ठ द्विजोत्तम ।

त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर

॥३९॥

तावद्वृक्षसमारूढां स्त्रियं रक्ताम्बरावृताम् ।

रक्तमाल्यां तदा बालां रक्तचन्दनचर्चिताम् ।

रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह

॥४०॥

स्त्र्युवाच

संदेशं श्रूयतां विप्र यदि गच्छसि सङ्गमे ।

मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय

॥४१॥

एकाकिनी च ते भार्या तिष्ठते वनमध्यगा ।

इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभे

॥४२॥

वृक्षच्छायान्वितः कण्वो ब्राह्मणेनावलोकितः ।

उवाच तं प्रति तदा वचनं ब्राह्मणोत्तमः

॥४३॥

ब्राह्मण उवाच

वनान्तरे मया दृष्टा बाला कमललोचना ।

रक्ताम्बरधरा तन्वी रक्तचन्दनचर्चिता

॥४४॥

रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा ।

वृक्षारूढावदद्वाक्यं मद्भर्ता प्रेष्यतामिति

॥४५॥

कण्व उवाच

कस्मिन्स्थाने तु विप्रेन्द्र विद्यते मृगलोचना ।

कस्य सा केन कार्येण सर्वमेतद्वदाशु मे

॥४६॥

ब्राह्मण उवाच

सङ्गमादर्धक्रोशे सा उद्यानान्ते हि विद्यते ।

वचनाद्ब्रह्मणस्यैषा न ज्ञाता पार्थिवेन तु

॥४७॥

तदा स कण्वभूपालः स्वकं दूतं समादिशत् ।

कण्व उवाच - गच्छ त्वं पृच्छतां तां क्वागता क्वच गमिष्यसि ।

प्रेषितस्त्वरितो दूतो गतो नारीसमीपतः

॥४८॥

वृक्षस्थां ददृशो बालामुवाच नृपसत्तम ।

मन्नाथः पृच्छति त्वां तु कासि त्वं क्व गमिष्यसि

॥४९॥

कन्योवाच

गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।

इह प्रच्छन्न पापानां शास्ता वैवस्वतो यमः

॥५०॥

ब्रह्महत्या च संजाता मृगरूपधरद्विजात् ।

मया युक्तोऽपि ते राजा मुक्तस्तीर्थप्रभावतः

॥५१॥

अर्धक्रोशान्तरान्मध्ये ब्रह्महत्या न संविशेत् ।

सोमनाथप्रभावोऽयं वाराणस्याः समः स्मृतः

॥५२॥

गच्छ त्वं प्रेष्यतां राजा शीघ्रमत्र न संशयः ।

गतो भृत्यस्ततः शीघ्रं वेपमानः सुविह्वलः

॥५३॥

समस्तं कथयामास यद्वृत्तं हि पुरातनम् ।

तस्य वाक्यादसौ राजा पतितो धरणीतले

॥५४॥

भृत्य उवाच

कस्मात्त्वं शोचसे नाथ पूर्वोपात्तं शुभाशुभम् ।

इत्याकर्ण्य वचस्तस्य राजा वचनमब्रवीत्

॥५५॥

प्राणत्यागं करिष्यामि सोमनाथसमीपतः ।

शीघ्रमानीयतां वह्निरिन्धनानि बहूनि च

॥५६॥

आनीतं तत्क्षणात्सर्वं भृत्यैस्तद्वशवर्तिभिः ।

स्नानं कृत्वा शुभे तोये सङ्गमे पापनाशने

॥५७॥

अर्चितः परया भक्त्या सोमनाथो महीभृता ।

त्रिःप्रदक्षिणतः कृत्वा ज्वलन्तं जातवेदसम्

॥५८॥

प्रविष्टः कण्वराजासौ हृदि ध्यात्वा जनार्दनम् ।

पीताम्बरधरं देवं जटामुकुटधारिणम्

॥५९॥

श्रिया युक्तं सुपर्णस्थं शङ्खचक्रगदाधरम् ।

सुरारिसूदनं दध्यौ सुगतिर्मे भवत्विति

॥६०॥

पपात पुष्पवृष्टिस्तु साधु साधु नृपात्मज ।

आश्चर्यमतुलं दृष्ट्वा निरीक्ष्य च परस्परम्

॥६१॥

मृतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम् ।

विमानस्थास्ततः सर्वे संजाताः पाण्डुनन्दन

॥६२॥

निष्पापास्ते दिवं याताः सोमनाथप्रभावतः ।

ब्राह्मणे सङ्गमे तत्र ध्यायमाने वृषध्वजम्

॥६३॥

श्रीमार्कण्डेय उवाच

सोमनाथप्रभावोऽयं शृणुष्वैकमना विधिम् ।

अष्टम्यां वा चतुर्दश्यां सर्वकालं रवेर्दिने

॥६४॥

विशेषाच्छुक्लपक्षे चेत्सूर्यवारेण सप्तमी ।

उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम्

॥६५॥

पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम् ।

श्रीखण्डेन ततो गुण्ठ्य पुष्पधूपादिकं ददेत्

॥६६॥

घृतेन बोधयेद्दीपं नृत्यं गीतं च कारयेत् ।

सोमवारे तथाष्टम्यां प्रभाते पूजयेद्द्विजान्

॥६७॥

जितक्रोधानात्मवतः परनिन्दाविवर्जितान् ।

सर्वाङ्गरुचिराञ्छस्तान् स्वदारपरिपालकान्

॥६८॥

गायत्रीपाठमात्रांश्च विकर्मविरतान् सदा ।

पुनर्भूवृषलीशूद्री चरेयुर्यस्य मन्दिरे

॥६९॥

दूरतोऽसौ द्विजस्त्याज्य आत्मनः श्रेय इच्छता ।

हीनाङ्गानतिरिक्ताङ्गान् येषां पूर्वापरं न हि

॥७०॥

व्रते श्राद्धे तथा दाने दूरतस्तान् विवर्जयेत् ।

आयसी तरुणी तुल्या द्विजाः स्वाध्यायवर्जिताः

॥७१॥

आत्मानं सह याज्येन पातयन्ति न संशयः ।

शाल्मलीनावतुल्याः स्युः षट्कर्मनिरता द्विजाः

॥७२॥

दातारं च तथात्मानं तारयन्ति तरन्ति च ।

श्राद्धं सोमेश्वरे पार्थ यः कुर्याद्गतमत्सरः

॥७३॥

प्रेतास्तस्य हि सुप्रीता यावदाभूतसम्प्लवम् ।

अन्नं वस्त्रं हिरण्यं च यो दद्यादग्रजन्मने

॥७४॥

स याति शाङ्करे लोक इति मे सत्यभाषितम् ।

हयं यो यच्छते तत्र सम्पूर्णं तरुणं सितम्

॥७५॥

रक्तं वा पीतवर्णं वा सर्वलक्षणसंयुतम् ।

कुङ्कुमेन विलिप्ताङ्गावग्रजन्महयावपि

॥७६॥

स्रग्दामभूषितौ कार्यौ सितवस्त्रावगुण्ठितौ ।

अङ्घ्रिः प्रदीयतां स्कन्धे मदीये हयमारुह

॥७७॥

आरूढे ब्राह्मणे ब्रूयाद्भास्करः प्रीयतामिति ।

स याति शांकरं लोकं सर्वपापविवर्जितः

॥७८॥

उपरागे तु सोमस्य तीर्थं गत्वा जितेन्द्रियः ।

सत्यलोकाच्च्युतश्चापि राजा भवति धार्मिकः

॥७९॥

तस्य वासः सदा राजन्न नश्यति कदाचन ।

दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी

॥८०॥

जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः ।

सोपवासो जितक्रोधो धेनुं दद्याद्द्विजन्मने

॥८१॥

सवत्सां क्षीरसंयुक्तां श्वेतवस्त्रावलोकिताम् ।

शबलां पीतवर्णां च धूम्रां वा नीलकर्बुराम्

॥८२॥

कपिलां वा सवत्सां च घण्टाभरणभूषिताम् ।

रूप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर

॥८३॥

श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी ।

शबला पीतवर्णा च दुःखघ्न्यौ संप्रकीर्तिते

॥८४॥

कपिला नाशयेत्पापं सप्तजन्मसमुद्भवम् ।

सत्यलोकमवाप्नोति गोप्रदायी नरेश्वर

॥८५॥

पक्षान्तेऽथ व्यतीपाते वै धृतौ रविसंक्रमे ।

दिनक्षये गजच्छायां ग्रहणे भास्करस्य च

॥८६॥

ये व्रजन्ति महात्मानः सङ्गमे सुरदुर्लभे ।

मृदावगुण्ठयित्वा तु चात्मानं सङ्गमे विशेत्

॥८७॥

हृदयान्तर्जले जाप्या प्राणायामोऽथवा नृप ।

गायत्री वैष्णवी चैव सौरी शैवी यदृच्छया ।

तेऽपि पापैः प्रमुच्यन्त इत्येवं शङ्करोऽब्रवीत्

॥८८॥

जगतीं सोमनाथस्य यस्तु कुर्यात्प्रदक्षिणाम् ।

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा

॥८९॥

ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ।

भ्रूणहा स्वर्णहर्ता च मुच्यन्ते नात्र संशयः

॥९०॥

तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः ।

व्याधितो मुच्यते रोगी चारोगी सुखमाप्नुयात्

॥९१॥

यत्ते संदह्यते चेतः शृणु तन्मे युधिष्ठिर ।

नैकापि नृप लोकेऽस्मिन् भ्रूणहत्या सुदुस्त्यजा

॥९२॥

किमु षड्विंशतिं पार्थ प्राप याः क्षणदाकरः ।

सोऽपि तीर्थमिदं प्राप्य तपस्तप्त्वा सुदुश्चरम्

॥९३॥

विमुक्तः सर्वपापेभ्यः शीतरश्मिरभूत्सुखी ।

श्रूयते नृप पौराणी गाथा गीता महर्षिभिः

॥९४॥

लिङ्गं प्रतिष्ठितं ह्येकं दशभ्रूणहनं भवेत् ।

अतो लिङ्गत्रयं सोमः स्थापयामास भारत

॥९५॥

रेवौरिसंगमे ह्याद्यं द्वितीयं भृगुकच्छके ।

ततः सिद्धिं परां प्राप्य प्रभासे तु तृतीयकम्

॥९६॥

इति ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।

धर्म्यं यशस्यमायुष्यं स्वर्ग्यं संशुद्धिकृन्नृणाम्

॥९७॥

पुत्रार्थी लभते पुत्रान्निष्कामः स्वर्गमाप्नुयात् ।

मुच्यते सर्वपापेभ्यस्तीर्थं कृत्वा परं नृप

॥९८॥

एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम् ।

श्रुत्वा पुत्रमवाप्नोति स्नात्वा चाष्टौ न संशयः

॥९९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमनाथतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीतितमोऽध्यायः ॥