मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १७९

3
अवन्तीखण्डः · रेवाखण्डः · 179

गौतमेश्वरतीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र गौतमेश्वरमुत्तमम् ।

सर्वपापहरं तीर्थं त्रिषु लोकेषु विश्रुतम्

॥१॥

गौतमेन तपस्तप्तं तत्र तीर्थे युधिष्ठिर ।

दिव्यं वर्षसहस्रं तु ततस्तुष्टो महेश्वरः

॥२॥

प्रणम्य शिरसा तत्र स्थापितः परमेश्वरः ।

स्थापितो गौतमेनेशो गौतमेश्वर उच्यते

॥३॥

तत्र देवैश्च गन्धर्वैरृषिभिः पितृदैवतैः ।

सम्प्राप्ता ह्युत्तमा सिद्धिराराध्य परमेश्वरम्

॥४॥

तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।

पूजयेत्परमीशानं सर्वपापैः प्रमुच्यते

॥५॥

बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः ।

तत्र संनिहितं देवं शूलपाणिं महेश्वरम्

॥६॥

ब्रह्मचारी तु यो भूत्वा तत्र तीर्थे नरेश्वर ।

स्नात्वार्चयेन्महादेवं सोऽश्वमेधफलं लभेत्

॥७॥

ब्रह्मचारी तु यो भूत्वा तर्पयेत्पितृदेवताः ।

पूजयेत्परमीशानं सर्वपापैः प्रमुच्यते

॥८॥

तत्र तीर्थे तु यो दानं भक्त्या दद्याद्द्विजातये ।

तदक्षयफलं सर्वं नात्र कार्या विचारणा

॥९॥

मासे चाश्वयुजे राजन् कृष्णपक्षे चतुर्दशीम् ।

स्नात्वा तत्र विधानेन दीपकानां शतं ददेत्

॥१०॥

पूजयित्वा महादेवं गन्धपुष्पादिभिर्नरः ।

मुच्यते सर्वपापेभ्यो मृतः शिवपुरं व्रजेत्

॥११॥

अष्टम्यां च चतुर्दश्यां कार्त्तिक्यां तु विशेषतः ।

उपोष्य प्रयतो भूत्वा घृतेन स्नापयेच्छिवम्

॥१२॥

पञ्चगव्येन मधुना दध्ना वा शीतवारिणा ।

स च सर्वस्य यज्ञस्य फलं प्राप्नोति मानवः

॥१३॥

भक्त्या तु पूजयेत्पश्चात्स लभेत्फलमुत्तमम् ।

बिल्वपत्रैरखण्डैश्च पुष्पैरुन्मत्तकोद्भवैः

॥१४॥

कुशापामार्गसहितैः कदम्बद्रोणजैरपि ।

मल्लिकाकरवीरैश्च रक्तपीतैः सितासितैः

॥१५॥

पुष्पैरन्यैर्यथालाभं यो नरः पूजयेच्छिवम् ।

नैरन्तर्येण षण्मासं योऽर्चयेद्गौतमेश्वरम् ।

सर्वान्कामानवाप्नोति मृतः शिवपुरं व्रजेत्

॥१६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम एकोनाशीत्यधिकशततमोऽध्यायः ॥