मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ९

3
अवन्तीखण्डः · रेवाखण्डः · 9

नर्मदोत्पत्तितत्स्नानफलादिकथनम्

श्रीमार्कण्डेय उवाच

पुनर्युगान्तं ते चान्यं सम्प्रवक्ष्यामि तच्छृणु ।

सूर्यैरादीपिते लोके जङ्गमे स्थावरे पुरा

॥१॥

सरित्सरःसमुद्रेषु क्षयं यातेषु सर्वशः ।

निर्मानुषवषट्कारे ह्यमर्यादगतिं गते

॥२॥

नानारूपैस्ततो मेघैः शक्रायुधविराजितैः ।

सर्वमापूरितं व्योम वार्यौघैः पूरिते तदा

॥३॥

ततस्त्वेकार्णवीभूते सर्वतः सलिलावृते ।

जगत्कृत्वोदरे सर्वं सुष्वाप भगवान्हरः

॥४॥

प्रकृतिं स्वामवष्टभ्य योगात्मा स प्रजापतिः ।

शेते युगसहस्रान्तं कालमाविश्य सार्णवम्

॥५॥

तत्र सुप्तं महात्मानं ब्रह्मलोकनिवासिनः ।

भृग्वादिऋषयः सर्वे ये चान्ये सनकादयः

॥६॥

पर्यङ्के विमले शुभ्रे नानास्तरणसंस्तृते ।

शयानं ददृशुर्देवं सपत्नीकं वृषध्वजम्

॥७॥

विश्वरूपा तु सा नारी विश्वरूपो महेश्वरः ।

गाढमालिङ्ग्य सुप्तस्तां ददृशे चाहमव्ययम्

॥८॥

पादमूले ततस्तस्य श्यामां तां पद्मलक्षणाम् ।

कन्यां पश्यामि सुश्रोणीं चरणौ तस्य मृद्गतीम्

॥९॥

विमलाम्बरसंवीतां व्यालयज्ञोपवीतिनीम् ।

श्यामां कमलपत्राक्षीं सर्वाभरणभूषिताम्

॥१०॥

सकलं युगसाहस्रं नर्मदेयं विजानती ।

प्रसुप्तं देवदेवेशमुपास्ते वरवर्णिनी

॥११॥

हृतैर्वेदैश्चतुर्भिश्च ब्रह्माप्येवं महेश्वरः ।

भृग्वाद्यैर्मानसैः पुत्रैः स्तौति शङ्करमव्ययम्

॥१२॥

भक्त्या परमया राजंस्तत्र शम्भुमनामयम् ।

स्तुवन्तस्तत्र देवेशं मन्त्रैरीश्वरसम्भवैः

॥१३॥

प्रसुप्तं देवमीशानं बोधयन्समुपस्थितः ।

उत्तिष्ठ हर पिङ्गाक्ष महादेव महेश्वर

॥१४॥

मम वेदा हृताः सर्वे अतोऽहं स्तोतुमुद्यतः ।

वेदैर्व्याप्तं जगत्सर्वं दिव्यादिव्यं चराचरम्

॥१५॥

अतीतं वर्तमानं च स्मरामि च सृजाम्यहम् ।

तैर्विना चाहमेकस्तु मूकोऽधो जडवत्सदा

॥१६॥

गतिर्वीर्यं बलोत्साहौ तैर्विना न प्रजायते ।

तैर्विना देवदेवेश नाहं किंचित्स्मरामि वै

॥१७॥

तान्वेदान्देवदेवेश शीघ्रं मे दातुमर्हसि ।

जडान्धबधिरं सर्वं जगत्स्थावरजङ्गमम्

॥१८॥

स्थानादि दश चत्वारि न शोभन्ते सुरेश्वर ।

प्रणमाम्यल्पवीर्यत्वाद्वेदहीनः सुरेश्वर

॥१९॥

वेदेभ्यः सकलं जातं यत्किंचित्सचराचरम् ।

तावच्छोभन्ति शास्त्राणि समस्तानि जगद्गुरो

॥२०॥

यावद्वेदनिधिरयं नोपतिष्ठेत्सनातनः ।

यथोदितेन सूर्येण तमो याति विनाशताम्

॥२१॥

एवं समस्तपापानि यान्ति वेदस्य धारणात् ।

वेदे रहसि यत्सूक्ष्मं यत्तद्ब्रह्म सनातनम्

॥२२॥

हृदिस्थं देव जानामि गतं तद्वेदगर्जनात् ।

वेदानुच्चरतो मेऽद्य तव शङ्कर चाग्रतः

॥२३॥

अकस्मात्ते गता वेदा न सृजेयं विभो भुवम् ।

तेऽपि सर्वे महादेव प्रविष्टाः सम्मुखार्णवम्

॥२४॥

ते याच्यमाना देवेश तिष्ठन्तु स्मरणे मम ।

दुहितेयं विशालाक्षी सर्वः सर्वं विजानते

॥२५॥

जायती युगसाहस्रं नान्या काचिद्भवेदृशी ।

ऋषिश्चायं महाभागो मार्कण्डो धीमतां वरः

॥२६॥

कल्पे कल्पे महादेव त्वामयं पर्युपासते ।

जगत्त्रयहितार्थाय चरते व्रतमुत्तमम्

॥२७॥

एवमुक्तस्तु देवेशो ब्रह्मणा परमेष्ठिना ।

उवाच श्लक्ष्णया वाचा नर्मदां सरितां वराम्

॥२८॥

कथयस्व महाभागे ब्रह्मणस्त्वं तु पृच्छतः ।

केन वेदा हृताः सर्वे वेधसो जगतीगुरोः

॥२९॥

एवमुक्ता तु रुद्रेण उवाच मृगलोचना ।

ब्रह्मणो जपतो वेदांस्त्वयि सुप्ते महेश्वर

॥३०॥

भवतश्छिद्रमासाद्य घोरेऽस्मिन्सलिलावृते ।

पूर्वकल्पसमुद्भूतावसुरौ सुरदुर्जयौ

॥३१॥

श्रियावृत्तौ महादेव त्वया चोत्पादितौ पुरा ।

सुरासुरसुदुर्जेयौ दानवौ मधुकैटभौ

॥३२॥

तौ वायुभूतौ सूक्ष्मौ च पठतोऽस्मात्पितामहात् ।

तावाशु हृत्वा वेदांश्च प्रविष्टौ च महार्णवम्

॥३३॥

एतच्छ्रुत्वा महातेजा ह्यमृतायास्ततो वचः ।

सस्मार स च देवेशं शङ्खचक्रगदाधरम्

॥३४॥

स विवेश महाराज भूतलं ससुरोत्तमः ।

दानवान्तकरो देवः सर्वदैवतपूजितः

॥३५॥

मीनरूपधरो देवो लोडयामास चार्वणम् ।

वेदांश्च ददृशे तत्र पाताले निहितान्प्रभुः

॥३६॥

तौ च दैत्यौ महावीर्यौ दृष्टवान्मधुसूदनः ।

महावेगौ महाबाहू सूदयामास तेजसा

॥३७॥

वेदांस्तत्रापि तोयस्थानानिनाय जगद्गुरुः ।

चतुर्वक्त्राय देवायाददाच्चक्रविभूषितः

॥३८॥

ततः प्रहृष्टो भगवान् वेदांल्लब्ध्वा पितामहः ।

जनयामास निखिलं जगद्भूयश्चराचरम्

॥३९॥

सा च देवी नदी पुण्या रुद्रस्य परिचारिका ।

पावनी सर्वभूतानां प्रोवाह सलिलं तदा

॥४०॥

तस्यास्तीरे ततो देवा ऋषयश्च तपोधनाः ।

यजन्ति त्र्यम्बकं देवं प्रहृष्टेनान्तरात्मना

॥४१॥

एका मूर्तिर्महेशस्य कारणान्तरमागता ।

त्रैगुण्या कुरुते कर्म ब्रह्मचक्रीशरूपतः

॥४२॥

एतेषां तु पृथग्भावं ये कुर्वन्ति सुमोहिताः ।

तेषां धर्मः कुतः सिद्धिर्जायते पापकर्मिणाम्

॥४३॥

एवमेता महानद्यस्तिस्रो रुद्रसमुद्भवाः ।

एका एव त्रिधा भूता गङ्गा रेवा सरस्वती

॥४४॥

गङ्गा तु वैष्णवी मूर्तिः सर्वपापप्रणाशिनी ।

रुद्रदेहसमुद्भूता नर्मदा चैवमेव तु

॥४५॥

ब्राह्मी सरस्वती मूर्तिस्त्रिषु लोकेषु विश्रुता ।

दिव्या कामगमा देवी वाग्विभूत्यै तु संस्थिता

॥४६॥

नर्मदा परमा काचिन्मर्त्यमूर्तिकला शिवा ।

दिव्या कामगमा देवी सर्वत्र सुरपूजिता

॥४७॥

व्यापिनी सर्वभूतानां सूक्ष्मात्सूक्ष्मतरा स्मृता ।

अक्षया ह्यमृता ह्येषा स्वर्गसोपानमुत्तमा

॥४८॥

सृष्टा रुद्रेण लोकानां संसारार्णवतारिणी

॥४९॥

सरिज्जलं येऽपि पिबन्ति लोके मुच्यन्ति ते पापविशेषसङ्घैः ।

व्रजन्ति संसारमनादिभावं त्यक्त्वा चिरं मोक्षपदं विशुद्धम्

॥५०॥

यथा गङ्गा तथा रेवा तथा चैव सरस्वती ।

समं पुण्यफलं प्रोक्तं स्नानदर्शनचिन्तनैः

॥५१॥

वरदानान्महाभागा ह्यधिका चोच्यते बुधैः ।

कारुण्यान्तरभावेन न मृता समुपागता

॥५२॥

मुच्यन्ते दर्शनात्तेन पातकैः स्नानमङ्गलैः ।

नर्मदायां नृपश्रेष्ठ ये नमन्ति त्रिलोचनम्

॥५३॥

उमारुद्राङ्गसम्भूता येन चैषा महानदी ।

लोकान्प्रापयते स्वर्गं तेन पुण्यत्वमागता

॥५४॥

य एवमीशानवरस्य देहं विभज्य देवीमिह संशृणोति ।

स याति रुद्रं महतारवेण गन्धर्वयक्षैरिव गीयमानः

॥५५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदोत्पत्तितत्स्नानफलादिकथनं नाम नवमोऽध्यायः ॥