सर्वान्देवांश्च निर्जित्य कस्मिन्स्थाने समास्थितः
उत्तानपाद उवाच
कस्मिन्स्थानेऽवसद्देव सोऽन्धको दैत्यपुंगवः ।
सर्वान्देवांश्च निर्जित्य कस्मिन्स्थाने समास्थितः
॥१॥श्रीमहेश उवाच
प्रविष्टो दानवो यत्र कथयामि नराधिप ।
पाताललोकमाश्रित्य कन्या विध्वंसते तु सः
॥२॥तत्र स्थितं तं विज्ञाय चापमादाय केशवः ।
व्यसृजद्बाणमाग्नेयं दह्यतामिति चिन्तयन्
॥३॥दह्यमानोऽग्निना सोऽपि वारुणास्त्रं स संदधे ।
वारुणास्त्रेण महता आग्नेयं शमितं तदा
॥४॥ततोऽसौ चिन्तयामास केन बाणो विसर्जितः ।
कस्यैषा पौरुषी शक्तिः को यास्यति यमालयम्
॥५॥ततोऽन्धको मृधे क्रुद्धो बाणमार्गेण निर्गतः ।
स दृष्ट्वा बाणमार्गेण चापहस्तं जनार्दनम्
॥६॥अन्धक उवाच
न शर्म लप्स्यसे ह्यद्य मया दृष्ट्याभिवीक्षितः ।
न शक्नोषि तथा गन्तुं नागः शार्दूलदर्शनात्
॥७॥आगच्छति यथा भक्ष्यं मार्जारस्य च मूषिकः ।
न शक्नोषि तथा यातुं संस्थितस्त्वं ममाग्रतः
॥८॥अहं त्वां प्रेषयिष्यामि यममार्गे सुदारुणे ।
अहमन्वेषयिष्यामि किल यास्यामि ते गृहम्
॥९॥उपनीतोऽसि कालेन सङ्ग्रामे मम केशव ।
ये त्वया निर्जिताः पूर्वं दानवा अप्यनेकशः
॥१०॥न भवन्ति पुमांसस्ते स्त्रियस्ताश्चैव केशव ।
परं न शस्त्रसङ्ग्रामं करिष्यामि त्वया सह
॥११॥वदतो दानवेन्द्रस्य न चुकोप स केशवः ।
अयुध्यमानं तं दृष्ट्वा चिन्तयामास दानवः
॥१२॥द्वन्द्वयुद्धं करिष्यामि निश्चित्य युयुधे नृप ।
स कृष्णेन पदाक्षिप्तः पतितः पृथिवीतले
॥१३॥मुहूर्तात्स समाश्वस्य उत्थायेदं व्यचिन्तयत् ।
अशक्तो द्वन्द्वयुद्धाय ततः साम प्रयुक्तवान् ।
पाणिभ्यां सम्पुटं कृत्वा साष्टाङ्गं प्रणतः शुचिः
॥१४॥अन्धक उवाच
जय कृष्णाय हरये विष्णवे जिष्णवे नमः ।
हृषीकेश जगद्धात्रे अच्युताय महात्मने
॥१५॥नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे
॥१६॥गोविन्दाय नमो नित्यं नमो जलधिशायिने ।
नमः करालवक्त्राय नरसिंहाय नादिने
॥१७॥शार्ङ्गिणे सितवर्णाय शङ्खचक्रगदाभृते ।
नमो वामनरूपाय यज्ञरूपाय ते नमः
॥१८॥नमो वराहरूपाय क्रान्तलोकत्रयाय च ।
व्याप्ताशेषदिगन्ताय केशवाय नमोनमः
॥१९॥वासुदेव नमस्तुभ्यं नमः कैटभनाशिने ।
लक्ष्म्यालय सुरश्रेष्ठ नमस्ते सुरनायक
॥२०॥विष्णोर्देवाधिदेवस्य प्रमाणं येऽपि कुर्वते ।
प्रजापतेर्जगद्धातुस्तेषामपि नमाम्यहम्
॥२१॥समस्तभूतदेवस्य वासुदेवस्य धीमतः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम्
॥२२॥तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।
प्रणामं ये प्रकुर्वन्ति तेषामपि नमाम्यहम्
॥२३॥गुणानां हि निधानाय नमस्तेऽस्तु पुनःपुनः ।
कारुण्याम्बुनिधे देव सर्वभक्तिप्रियाय च
॥२४॥श्रीभगवानुवाच
तुष्टस्ते दानवेन्द्राहं वरं वृणु यथेप्सितम् ।
ददामि ते वरं नूनमपि त्रैलोक्यदुर्लभम्
॥२५॥अन्धक उवाच
यदि तुष्टोऽसि मे देव वरं दास्यसि चेप्सितम् ।
तदा ददस्व मे देव युद्धं परमशोभनम् ।
अवद्धस्तपूतो येनाहं लोकान्गन्तास्मि शोभनान्
॥२६॥श्रीभगवानुवाच
कथं ददामि ते युद्धं तोषितोऽहं त्वया पुनः ।
न त्वां तु प्रभवेत्कोपः कथं युध्यामि तेऽन्धक
॥२७॥यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः ।
ततो गच्छस्व युद्धाय देवं प्रति महेश्वरम्
॥२८॥अन्धक उवाच
न तत्र सिध्यते कार्यं देवं प्रति महेश्वरम्
॥२९॥श्रीभगवानुवाच
पुत्र त्वं शिखरं गत्वा धूनयस्व बलेन च
॥३०॥विधूते तत्र देवेशः कोपं कर्ता सुदारुणम् ।
कोपितः शङ्करो रौद्रं युद्धं दास्यति दानव
॥३१॥विष्णुवाक्यादसौ पापो गतो यत्र महेश्वरः ।
कैलासशिखरं प्राप्य धुनोति स्म मुहुर्मुहुः
॥३२॥धूनिते तत्र शिखरे कम्पितं भुवनत्रयम् ।
निपेतुः शिखराग्राणि कम्पमानान्यनेकशः
॥३३॥चत्वारः सागराः क्षिप्रमेकीभूता महीपते ।
निपेतुरुल्कापाताश्च पादपा अप्यनेकशः
॥३४॥उमया सहितो देवो विस्मयं परमं गतः ।
गाढमालिङ्ग्य गिरिजा देवं वचनमब्रवीत्
॥३५॥किमर्थं कम्पते शैलः किमर्थं कम्पते धरा ।
किमर्थं कम्पते नागो मर्त्यः पातालमेव च ।
किं वा युगक्षयो देव तन्ममाख्यातुमर्हसि
॥३६॥ईश्वर उवाच
कस्यैषा दुर्मतिर्जाता क्षिप्तः सर्पमुखे करः ।
ललाटे च कृतं वर्म स यास्यति यमालयम्
॥३७॥कैलासमाश्रितो येन सुप्तोऽहं येन बोधितः ।
तं वधिष्ये न सन्देहः सम्मुखो वा भवेद्यदि
॥३८॥चिन्तयामास देवेशो ह्यन्धकोऽयं न संशयः ।
उपायं चिन्तयामास येनासौ वध्यते क्षणात्
॥३९॥आगताश्च सुराः सर्वे ब्रह्माद्या वसुभिः सह ।
रथं देवमयं कृत्वा सर्वलक्षणसंयुतम्
॥४०॥केचिद्देवाः स्थिताश्चक्रे केचित्तुण्डाग्रपार्श्वयोः ।
केचिन्नाभ्यां स्थिता देवाः केचिद्धुर्येषु संस्थिताः
॥४१॥धुरीषु निश्चलाः केचित्केचिद्यूपेषु संस्थिताः ।
केचित्स्यन्दनसंस्तम्भाः केचित्स्यन्दनवेष्टकाः
॥४२॥आमलसारकेऽन्येऽपि अन्येऽपि कलशे स्थिताः ।
रिपोर्भयंकरं दिव्यं ध्वजमालादिशोभितम्
॥४३॥रथं देवमयं कृत्वा तमारूढो जगद्गुरुः ।
निर्ययौ दानवो यत्र कोपाविष्टो महेश्वरः
॥४४॥तिष्ठ तिष्ठेत्युवाचाथ क्व प्रयास्यसि दुर्मते ।
शरासनं करे गृह्य शरांश्चिक्षेप दानवे
॥४५॥दानवेऽधिष्ठिते युद्धे शरैश्चिछेद सायकान् ।
शरासनेण तत्रैव अन्धकश्छादितस्तदा
॥४६॥न तत्र दृश्यते सूर्यो नाकाशं न च चन्द्रमाः ।
आग्नेयमस्त्रं व्यसृजद्दानवोऽपि शिवं प्रति
॥४७॥दह्यमानाः शराङ्गारैस्तत्रसुः सर्वदेवताः ।
रक्ष रक्ष महादेव दह्यमानांस्तु दानवात्
॥४८॥ततो देवाधिदेवोऽसौ वारुणास्त्रमयोऽजयत् ।
वारुणास्त्रेण निमिषादाग्नेयं नाशितं तदा
॥४९॥दानवेन तदा मुक्तं वायव्यास्त्रं रणाजिरे ।
वारुणं च गतं तात वायव्यास्त्रविनाशितम्
॥५०॥देवो व्यसर्जयत्सार्पं क्रोधाविष्टेन चेतसा ।
मारुतं नाशितं बाणैः सर्पैस्तत्र न संशयः
॥५१॥दानवेन ततो मुक्तं गरुडास्त्रं च लीलया ।
गारुडास्त्रं च तद्दृष्ट्वा सार्पं नैव व्यदृश्यत
॥५२॥ततो देवाधिदेवेन नारसिंहं विसर्जितम् ।
नारसिंहास्त्रबाणेन गारुडास्त्रं प्रशामितम्
॥५३॥अस्त्रमस्त्रेण शम्येत न बाध्येत परस्परम् ।
महद्युद्धमभूत्तातसुरासुरभयंकरम्
॥५४॥चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः ।
वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः
॥५५॥एवं न शक्यते हन्तुं दानवो विविधायुधैः ।
तदा ज्वालाकरालाश्च खड्गनाराचतोमराः
॥५६॥वृषाङ्केन विमुक्तास्तु समरे दानवं प्रति ।
न संस्पृशन्ति शस्त्राणि गात्रं गौडवधूरिव
॥५७॥आयुधानि ततस्त्यक्त्वा बाहुयुद्धमुपस्थितौ ।
करं करेण संगृह्य प्रहरन्तौ स्वमुष्टिभिः ।
रणप्रयोगैर्युध्यन्तौ युयुधाते शिवान्धकौ
॥५८॥श्रीमार्कण्डेय उवाच
अन्धकं प्रति देवेशश्चिन्तयामास निग्रहम् ।
हनिष्यामि न सन्देहो दुष्टात्मानं न संशयः
॥५९॥स शिवेन यदा क्षिप्तः पतितः पृथिवीतले ।
ऊर्ध्वबाहुरधोवक्त्रो दानवो नृपसत्तम
॥६०॥क्रोधाविष्टेन देवेशः सङ्ग्रामे देवशत्रुणा ।
कक्षयोः कुहरे क्षिप्त्वा बन्धेनाक्रम्य पीडितः
॥६१॥निस्पन्दश्चाभवद्देवो मूर्च्छायुक्तो महेश्वरः ।
मूर्च्छापन्नं तु तं ज्ञात्वा चिन्तयामास दानवः
॥६२॥हाहा कष्टं कृतं मेऽद्य दुष्कृतं पापकर्मणा ।
किं करोमि कथं कर्म कस्मिन्स्थाने तु मोचये
॥६३॥गृहीत्वा देवमुत्सङ्गे गतः कैलासपर्वतम् ।
शय्यायां शङ्करं न्यस्य निर्ययौ दैत्यराट्ततः
॥६४॥शय्यायां पतितो देवः प्रपेदे वेदनां ततः ।
तावद्ददर्श चात्मानं स्वकीयभवनस्थितम्
॥६५॥पराभवः कृतो मद्यं कथं तेन दुरात्मना ।
क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति
॥६६॥आयसीं लगुडीं गृह्य प्रभुर्भारसहस्रजाम् ।
दानवं च ततो दृष्ट्वा प्राक्षिपत्तस्य मूर्धनि
॥६७॥खड्गेन ताडयामास दानवः प्रहसन्रणे ।
देवेनाथस्मृतं चास्त्रं कौच्छेराख्यं महाहवे
॥६८॥दीप्यमानं समुत्सृज्य हृदये ताडितः क्षणात् ।
ततः स ताडितस्तेन रुधिरोद्गारमुद्वमन्
॥६९॥पतितोऽधोमुखो भूत्वा ततः शूलेन भेदितः ।
पुनश्च देवदेवेन शूलेन द्विदलीकृतः
॥७०॥शूलाग्रेऽसौ स्थितः पापो भ्रान्तवांश्चक्रवत्तदा ।
ये ये भूम्यां पतन्ति स्म तत्कायाद्रक्तबिन्दवः
॥७१॥ते ते सर्वे समुत्तस्थुर्दानवाः शास्त्रपाणयः ।
व्याकुलस्तु ततो देवो दानवेन तरस्विना
॥७२॥देवेनाथ स्मृता दुर्गा चामुण्डा भीषणानना ।
आयाता भीषणाकारा नानायुधविराजिता
॥७३॥महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका ।
आदेशो दीयतां देव को यास्यति यमालयम्
॥७४॥ईश्वर उवाच
पिबास्य रुधिरं भद्रे यथेष्टं दानवस्य च ।
निपतद्रुधिरं भूमौ दुर्गे गृह्णीष्व माचिरम्
॥७५॥निहन्मि दानवं यावत्साहाय्यं कुरु सुन्दरि ।
एवमुक्ता तु सा दुर्गा पपौ च रुधिरं ततः
॥७६॥निहता दानवाः सर्वे देवेशेन सहस्रशः ।
अन्धकोऽपि च तान् दृष्ट्वा दानवानवनिं गतान् ।
ततो वाग्भिः प्रतुष्टाव देवदेवं महेश्वरम्
॥७७॥अन्धक उवाच
जयस्व देवदेवेश उमार्धार्धाशरीरधृक् ।
नमस्ते देवदेवेश सर्वाय त्रिगुणात्मने
॥७८॥वृषभासनमारूढ शशाङ्ककृतशेखर ।
जय खट्वाङ्गहस्ताय गङ्गाधर नमोऽस्तु ते
॥७९॥नमो डमरुहस्ताय नमः कपालमालिने ।
स्मरदेहविनाशाय महेशाय नमोऽस्तु ते
॥८०॥पूष्णो दन्तनिपाताय गणनाथाय ते नमः ।
जय स्वरूपदेहाय अरूपबहुरूपिणे
॥८१॥उत्तमाङ्गविनाशाय विरिञ्चेरपि शङ्कर ।
श्मशानवासिने नित्यं नित्यं भैरवरूपिणे
॥८२॥त्वं सर्वगोऽसि त्वं कर्ता त्वं हर्ता नान्य एव च ।
त्वं भूमिस्त्वं दिशश्चैव त्वं गुरुर्भार्गवस्तथा
॥८३॥सौरिस्त्वं देवदेवेश भूमिपुत्रस्तथैव च ।
ऋक्षग्रहादिकं सर्वं यद्दृश्यं तत्त्वमेव च
॥८४॥एवं स्तुतिं तदा कृत्वा देवं प्रति स दानवः ।
संहताभ्यां तु पाणिभ्यां प्रणनाम महेश्वरम्
॥८५॥ईश्वर उवाच
साधु साधु महासत्त्व वरं याचस्व दानव ।
दाताहं याचकस्त्वं हि ददामीह यथेप्सितम्
॥८६॥अन्धक उवाच
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
तदात्मसदृशोऽहं ते कर्तव्यो नापरो वरः
॥८७॥भस्मी जटी त्रिनेत्री च त्रिशूली च चतुर्भुजः ।
व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः
॥८८॥एतदिच्छाम्यहं सर्वं यदि तुष्टो महेश्वर
॥८९॥ईश्वर उवाच
ददामि ते वरं ह्यद्य यस्त्वया याचितोऽनघ ।
गणेषु मे स्थितः पुत्र भृङ्गीशस्त्वं भविष्यसि
॥९०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽन्धकवधतद्वरप्रदानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥