मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ९०

3
अवन्तीखण्डः · रेवाखण्डः · 90

जलशायितीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

रेवाया उत्तरे कूले वैष्णवं तीर्थमुत्तमम् ।

जलशायीति वै नाम विख्यातं वसुधातले

॥१॥

दानवानां वधं कृत्वा सुप्तस्तत्र जनार्दनः ।

चक्रं प्रक्षालितं तत्र देवदेवेन चक्रिणा ।

सुदर्शनं च निष्पापं रेवाजलसमाश्रयात्

॥२॥

युधिष्ठिर उवाच

चक्रतीर्थं समाचक्ष्व मुनिसंघैश्च वन्दितम् ।

विष्णोः प्रभावमतुलं रेवायाश्चैव यत्फलम्

॥३॥

श्रीमार्कण्डेय उवाच

साधु साधु महाप्राज्ञ विरक्तस्त्वं युधिष्ठिर ।

गुह्याद्गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम्

॥४॥

तत्तेऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।

आसीत्पुरा महादैत्यस्तालमेघ इति श्रुतः

॥५॥

तेन देवा जिताः सर्वे हृतराज्या नराधिप ।

यज्ञभागान् स्वयं भुङ्क्ते अहं विष्णुर्न संशयः

॥६॥

धनदस्य हृतं चित्तं हृतः शक्रस्य वारणः ।

इन्द्राणीं वाञ्छते पापो हयरत्नं रवेरपि

॥७॥

तालमेघभयात्पार्थ रविरुद्राः सवासवाः ।

यमः स्कन्दो जलेशोऽग्निर्वायुर्देवो धनेश्वरः

॥८॥

सवाक्पतिमहेशाश्च नष्टचित्ताः पितामहम् ।

गता देवा ब्रह्मलोकं तत्र दृष्ट्वा पितामहम्

॥९॥

तुष्टुवुर्विविधैः स्तोत्रैर्वागीशप्रमुखाः सुराः ।

गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे

॥१०॥

दृष्ट्वा देवान्निरुत्साहान् विवर्णानवनीपते ।

प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः

॥११॥

ब्रह्मोवाच

स्वागतं सुरसङ्घस्य कान्तिर्नष्टा पुरातनी ।

हिमक्लिष्टप्रभावेण ज्योतींषीव मुखानि वः

॥१२॥

प्रशमादर्चिषामेतदनुद्गीर्णं सुरायुधम् ।

वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्ष्यते

॥१३॥

किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।

मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः

॥१४॥

कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।

अपविद्धगतो वायुर्भग्नशाख इव द्रुमः

॥१५॥

यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा ।

कुरुतेऽस्मिन्नमोघोऽपि निर्वाणालातलाघवम्

॥१६॥

अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।

चित्रन्यस्ता इव गताः प्रकामालोकनीयताम्

॥१७॥

तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः ।

किमागमनकृत्यं वो ब्रूत निःसंशयं सुराः

॥१८॥

मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।

ततो मन्दानिलोद्भूतकमलाकरशोभिना

॥१९॥

गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा ।

स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम्

॥२०॥

वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ।

युष्मद्वंशोद्भवस्तात तालमेघो महाबलः

॥२१॥

उपतापयते देवान्धूमकेतुरिवोच्छ्रितः ।

तेन देवगणाः सर्वे दुःखिता दानवेन च

॥२२॥

तालमेघो दैत्यपतिः सर्वान्नो बाधते बली ।

तस्मात्त्वां शरणं प्राप्ताः शरणं नो विधे भव

॥२३॥

ततः प्रसन्नो भगवान् वेधास्तानब्रवीद्वचः

॥२४॥

ब्रह्मोवाच

तालमेघेन वो मध्ये बली तेन समः सुराः ।

विना माधवदेवेन साध्यो मे नैव दानवः

॥२५॥

ततः सुरगणाः सर्वे विरिञ्चिप्रमुखा नृप ।

क्षीरोदं प्रस्थिताः सर्वे दुःखितास्तेन वैरिणा

॥२६॥

त्वरिताः प्रस्थिता देवाः केशवं द्रष्टुकाम्यया ।

क्षीरोदं सागरं गत्वास्तुवंस्ते जलशायिनम्

॥२७॥

देवा ऊचुः

जगदादिरनादिस्त्वं जगदन्तोऽप्यनन्तकः ।

जगन्मूर्तिरमूर्तिस्त्वं जय गीर्वाणपूजित

॥२८॥

जय क्षीरोदशयन जय लक्ष्म्या सदा वृत ।

जय दानवनाशाय जय देवकिनन्दन

॥२९॥

जय शङ्खगदापाणे जय चक्रधर प्रभो ।

इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशाय्यथ

॥३०॥

उवाच मधुरां वाणीं मेघगम्भीरनिस्वनाम् ।

किमर्थं बोधितो ब्रह्मन् समर्थैर्वः सुरासुरैः

॥३१॥

ब्रह्मोवाच

तालमेघभयात्कृष्ण सम्प्राप्तास्तव मन्दिरम् ।

न वध्यः कस्यचित्पापस्तालमेघो जनार्दन

॥३२॥

त्वमेव जहि तं दुष्टं मृत्युं यास्यति नान्यथा

॥३३॥

श्रीकृष्ण उवाच

स्वस्थानं गम्यतां देवाः स्वकीयां लभत प्रजाम् ।

दुष्टात्मानं हनिष्यामि तालमेघं महाबलम्

॥३४॥

स्थानं ब्रुवन्तु मे देवा वसेद्यत्र स दानवः

॥३५॥

देवा ऊचुः

हिमाचलगुहायां स वसते दानवेश्वरः ।

चतुर्विंशतिसाहस्रैः कन्याभिः परिवारितः

॥३६॥

तुरङ्गैः स्यन्दनैः कृष्ण संख्या तस्य न विद्यते ।

नटा नानाविधास्तत्र असंख्यातगुणा हरे

॥३७॥

द्विरदाः पर्वताकारा हयाश्च द्विरदोपमाः ।

महाबलो वसेत्तत्र गीर्वाणभयदायकः

॥३८॥

श्रुत्वा देवो वचस्तेषां देवानामातुरात्मनाम् ।

अचिन्तयद्गरुत्मन्तं शत्रुसङ्घविनाशनम्

॥३९॥

चक्रं करेण संगृह्य गदाचक्रधरः प्रभुः ।

शार्ङ्गं च मुशलं सीरं करैर्गृह्य जनार्दनः

॥४०॥

आरूढः पक्षिराजेन्द्रं वधार्थं दानवस्य च ।

दानवस्य पुरे पेतुरुत्पाता घोररूपिणः

॥४१॥

गोमायुर्गृध्रमध्ये तु कपोतैः सममाविशत् ।

विना वातेन तस्यैव ध्वजदण्डः पपात ह

॥४२॥

सर्पसूषकयोर्युद्धं तथा केसरिनागयोः ।

उन्मार्गाः सरितस्तत्रावहन्रक्तविमिश्रिताः ।

अकालतरुपुष्पाणि दृश्यन्ते स्म समन्ततः

॥४३॥

ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम् ।

पाञ्चजन्यश्वसहसा पूरितः पुरसन्निधौ

॥४४॥

तेन शब्देन महता ह्यारूढो दानवेश्वरः ।

उवाच च तदा वाक्यं तालमेघो महाबलः

॥४५॥

तालमेघ उवाच

कोऽयं मृत्युवशं प्राप्तो ह्यज्ञात्वा मम विक्रमम् ।

धुन्धुमाराज्ञया ह्याशु स्वसैन्यपरिवारितः

॥४६॥

बलादानय तं बद्ध्वा ममाग्रे बहुशालिनम्

॥४७॥

धुन्धुमार उवाच

आनयामि न सन्देहः सुरो यक्षोऽथ किन्नरः ।

स्यन्दनौघैः समायुक्तो गजवाजिभटैः सह

॥४८॥

हृष्टस्ततो जगद्योनिः सुपर्णस्थो महाबलः ।

गृह्यतां गृह्यतामेष इत्युक्तास्तेन किंकराः

॥४९॥

चतुर्दिक्षु प्रधावन्त इतश्चेतश्च सर्वतः ।

सुपर्णेनाग्निरूपेण दग्धास्ते शलभा यथा

॥५०॥

धुन्धुमारोऽपि कृष्णेन शरघातेन ताडितः ।

हतो वक्षःस्थले पापो मृतावस्थो रथोपरि

॥५१॥

हाहाकारं ततः सर्वे दानवाश्चक्रुरातुराः ।

तालमेघस्ततः क्रुद्धो रथारूढो विनिर्गतः ।

ददृशे केशवं पार्थ शङ्खचक्रगदाधरम्

॥५२॥

तालमेघ उवाच

अन्ये ते दानवाः कृष्ण ये हताः समरे त्वया ।

हिरण्यकशिपुप्रख्यानपुमांसो हि तेऽच्युत

॥५३॥

इत्युक्त्वा दानवः पार्थ वर्षयामास सायकैः ।

दानवस्य शरान्मुक्तान् छेदयामास केशवः

॥५४॥

गरुत्मानवधीत्सैन्यमवध्यं यत्सुरासुरैः ।

कृष्णेन द्विगुणास्तस्य प्रेषिताः स्वशिलीमुखाः

॥५५॥

द्विगुणं द्विगुणीकृत्य प्रेषयामास दानवः ।

तानप्यष्टगुणैः कृष्णश्छादयामास सायकैः

॥५६॥

ततः क्रुद्धेन दैत्येन ह्याग्नेयं बाणमुत्तमम्

॥५७॥

वारुणं प्रेषयामास त्वाग्नेयं शमितं ततः ।

वारुणेनैव वायव्यं तालमेघो व्यसर्जयत्

॥५८॥

सार्पं चैव हृषीकेशो वायव्यस्य प्रशान्तये ।

नारसिंहं नृसिंहोऽपि प्रेषयामास पाण्डव

॥५९॥

नारसिंहं ततो दृष्ट्वा तालमेघो महाबलः ।

उत्तीर्य स्यन्दनाच्छीघ्रं गृहीत्वा खड्गचर्मणी

॥६०॥

कृष्ण त्वां प्रेषयिष्यामि यममार्गं सुदारुणम् ।

इत्युक्त्वा दानवः पार्थ आगतः केशवं प्रति

॥६१॥

खड्गेनाताडयद्दैत्यो गदापाणिं जनार्दनम् ।

मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः

॥६२॥

जघनोरःस्थले पार्थ तालमेघं महाहवे ।

जनार्दनस्तदा दैत्यं दैत्यो हरिमहन्मृधे

॥६३॥

जनार्दनस्ततः क्रुद्धस्तालमेघाय भारत ।

अमोघं चक्रमादाय मुक्तं तस्य च मूर्धनि

॥६४॥

निपपात शिरस्तस्य पर्वताश्च चकम्पिरे ।

समुद्राः क्षुभिताः पार्थ नद्य उन्मार्गगामिनीः

॥६५॥

पुष्पवृष्टिं ततो देवा मुमुचुः केशवोपरि ।

अवध्यः सुरसङ्घानां सूदितः केशव त्वया

॥६६॥

स्वस्थाश्चैव ततो देवास्तालमेघे निपातिते ।

जनार्दनोऽपि कौन्तेय नर्मदातटमाश्रितः

॥६७॥

क्षीरोदां नर्मदां मत्वा अनन्तभुजगोपरि ।

लक्ष्म्या समन्वितः कृष्णो निलीनश्चोत्तरे तटे

॥६८॥

चक्रं विभीषणं मर्त्ये ज्वालामालासमन्वितम् ।

पतितं नर्मदातोये जलशायिसमीपतः

॥६९॥

निर्धूतकल्मषं जातं नर्मदातोययोगतः ।

तालमेघवधोत्पन्नं यत्पापं नृपनन्दन

॥७०॥

तत्स्रवं क्षालितं सद्यो नर्मदांभसि भारत ।

तदाप्रभृति लोकेऽस्मिञ्जलशायी महीपते

॥७१॥

चक्रतीर्थं वदन्त्यन्ये केचित्कालाघनाशनम् ।

विख्यातं भारते वर्षे नर्मदायां महीपते

॥७२॥

तत्तीर्थस्य प्रभावोऽयं श्रूयतामवनीपते ।

यथाऽनन्तो हि नागानां देवानां च जनार्दनः

॥७३॥

मासानां मार्गशीर्षोऽस्ति नदीनां नर्मदा यथा ।

मासि मार्गशिरे पार्थ ह्येकादश्यां सितेऽहनि

॥७४॥

गत्वा यो मनुजो भक्त्या कामक्रोधविवर्जितः ।

वैष्णवीं भावनां कृत्वा जलेशं तु व्रजेत वै

॥७५॥

एकभुक्तं च नक्तं च तथैवायाचितं नृप ।

उपवासं तथा दानं ब्राह्मणानां च भोजनम्

॥७६॥

करोति च कुरुश्रेष्ठ न स याति यमालयम् ।

यमलोकभयाद्भीता ये लोकाः पाण्डुनन्दन

॥७७॥

ते पश्यन्तु श्रियः कान्तं नागपर्यङ्कशायिनम् ।

गोपीजनसमावृत्तं योगनिद्रां समाश्रितम् ।

विश्वरूपं जगन्नाथं संसारभयनाशनम्

॥७८॥

स्नापयेत्परया भक्त्या क्षौद्रक्षीरेण सर्पिषा ।

खण्डेन तोयमिश्रेण जगद्योनिं जनार्दनम्

॥७९॥

स्नाप्यमानं च पश्यन्ति ये लोका गतमत्सराः ।

ते यान्ति परमं लोकं सुरासुरनमस्कृतम्

॥८०॥

घृतेन बोधयेद्दीपमथवा तैलपूरितम् ।

रात्रौ जागरणं कृत्वा दैवस्याग्रे विमत्सराः

॥८१॥

ये कथां वैष्णवीं भक्त्या शृण्वन्ति च नृपोत्तम ।

ब्रह्महत्यादिपापानि नश्यन्ते नात्र संशयः

॥८२॥

प्रदक्षिणन्ति ये मर्त्या जलशायिजगद्गुरुम् ।

प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा

॥८३॥

ततः प्रभाते विमले पित्ःन् संतर्पयेज्जलैः ।

श्राद्धं च ब्राह्मणैस्तत्र योग्यैः पाण्डव मानवाः

॥८४॥

स्वदारनिरतैः शान्तैः परदारविवर्जकैः ।

वेदाभ्यसनशीलैश्च स्वकर्मनिरतैः शुभैः

॥८५॥

नित्यं यजनशीलैश्च त्रिसन्ध्यापरिपालकैः ।

श्रद्धया कारयेच्छ्राद्धं यदीच्छेच्छ्रेय आत्मनः

॥८६॥

ते धन्या मानुषे लोके वन्द्या हि भुवि मानवाः ।

ये वसन्ति सदाकालं पादपद्माश्रया हरेः

॥८७॥

जलशायं प्रपश्यन्ति प्रत्यक्षं सुरनायकम् ।

पक्षोपवासं पाराकं व्रतं चान्द्रायणं शुभम्

॥८८॥

मासोपवासमुग्रं च षष्ठान्नं पञ्चमं व्रतम् ।

तत्र तीर्थे तु यः कुर्यात्सोऽक्षयां गतिमाप्नुयात्

॥८९॥

श्रीमार्कण्डेय उवाच

अतः परं प्रवक्ष्यामि तिलधेनोश्च यत्फलम् ।

यथा यस्मिन्यदा देया दाने तस्याः शुभं फलम्

॥९०॥

एतत्कथान्तरं पुण्यमृषेर्द्वैपायनात्पुरा ।

श्रुतं हि नैमिषे पुण्ये नारदाद्यैरनेकधा

॥९१॥

इदं परममायुष्यं मङ्गल्यं कीर्तिवर्धनम् ।

विप्राणां श्रावयन्विद्वान्फलानन्त्यंसमश्नुते

॥९२॥

बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।

विभक्तदक्षिणा ह्येता दातारं नाप्नुवन्ति च

॥९३॥

एकमेतत्प्रदातव्यं न बहूनां युधिष्ठिर ।

सा च विक्रयमापन्ना दहत्यासप्तमं कुलम्

॥९४॥

यथालाभा तु सर्वेषां चतुर्द्रोणा तु गौः स्मृता ।

द्रोणस्य वत्सकः कार्यो बहूनां वापि कामतः

॥९५॥

यस्मिन्देशे तु यन्मानं विषये वा विचारितम् ।

तेन मानेन तां कुर्वन्नक्षयं फलमश्नुते

॥९६॥

सुखपूर्वं शुचौ भूमौ पुष्पधूपाक्षतैस्तथा ।

कर्णाभ्यां रत्ने दातव्ये दीपौ नेत्रद्वये तथा

॥९७॥

श्रीखण्डमुरसि स्थाप्यं ताभ्यां चैव तु काञ्चनम् ।

ऊर्ध्वे मधु घृतं देयं कुर्यात्सर्षपरोमकम्

॥९८॥

कम्बले कम्बलं दद्याच्छ्रोण्यां मधु घृतं तथा ।

यवसं पायसं दद्याद्घृतं क्षौद्रसमन्वितम्

॥९९॥

स्वर्णशृङ्गी रूप्यशिफारुक्मलाङ्गूलसंयुता ।

रत्नपृष्ठी तु दातव्या कांस्यपात्रावदोहिनी

॥१००॥

यत्स्याद्बाल्यकृतं पापं यद्वा कृतमजानता ।

वाचा कृतं कर्मकृतं मनसा यद्विचिन्तितम्

॥१०१॥

जले निष्ठीवितं चैव मुशलं वापि लङ्घितम् ।

वृषलीगमनं चैव गुरुदारनिषेवणम्

॥१०२॥

कन्याया गमनं चैव सुवर्णस्तेयमेव च ।

सुरापानं तथा चान्यत्तिलधेनुः पुनाति हि

॥१०३॥

अहोरात्रोपवासेन विधिवत्तां विसर्जयेत् ।

या सा यमपुरे घोरे नदी वैतरणी स्मृता

॥१०४॥

वालुकायोऽश्मस्थला च पच्यते यत्र दुष्कृती ।

अवीचिर्नरको यत्र यत्र यामलपर्वतौ

॥१०५॥

यत्र लोहमुखाः काका यत्र श्वानो भयंकराः ।

असिपत्त्रवनं चैव यत्र सा कूटशाल्मली

॥१०६॥

तान्सुखेन व्यतिक्रम्य धर्मराजालयं व्रजेत् ।

धर्मराजस्तु तं दृष्ट्वा सूनृतं वक्ति भारत

॥१०७॥

विमानमुत्तमं योग्यं मणिरत्नविभूषितम् ।

अत्रारुह्य नरश्रेष्ठ प्रयाहि परमां गतिम्

॥१०८॥

मा च चाटु भटे देहि मैव देहि पुरोहिते ।

मा च काणे विरूपे च न्यूनाङ्गे न च देवले

॥१०९॥

अवेदविदुषे नैव ब्राह्मणे सर्वविक्रये ।

मित्रघ्ने च कृतघ्ने च मन्त्रहीने तथैव च

॥११०॥

वेदान्तगाय दातव्या श्रोत्रियाय कुटुम्बिने ।

वेदान्तगसुते देया श्रोत्रिये गृहपालके

॥१११॥

सर्वाङ्गरुचिरे विप्रे सद्वृत्ते च प्रियंवदे ।

पूर्णिमायां तु माघस्य कार्त्तिक्यामथ भारत

॥११२॥

वैशाख्यां मार्गशीर्ष्यां वाषाढ्यां चैत्र्यामथापि वा ।

अयने विषुवे चैव व्यतीपाते च सर्वदा

॥११३॥

षडशीतिमुखे पुण्ये छायायां कुंजरस्य वा ।

एष ते कथितः कल्पस्तिलधेनोर्मयानघ

॥११४॥

व्रजन्ति वैष्णवं लोकं दत्त्वा पादं यमोपरि ।

प्राणत्यागात्परं लोकं वैष्णवं नात्र संशयः ।

भित्त्वाशु भास्करं यान्ति नात्र कार्या विचारणा

॥११५॥

एतत्ते सर्वमाख्यातं चक्रतीर्थफलं नृप ।

यच्छ्रुत्वा मानवो भक्त्या सर्वपापैः प्रमुच्यते

॥११६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे जलशायितीर्थमाहात्म्यवर्णनं नाम नवतितमोऽध्यायः ॥