मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ४६

3
अवन्तीखण्डः · रेवाखण्डः · 46

शचीहरणवर्णनम्

श्रीमार्कण्डेय उवाच

स दानवो वरं लब्ध्वा जगाम स्वपुरं प्रति ।

ददर्श स्वपुरं राजञ्छोभितं चित्रचत्वरैः

॥१॥

उद्यानैश्चैव विविधैः कदलीखण्डमण्डितैः ।

पनसैर्बकुलैश्चैवाम्रातैराम्रैश्च चम्पकैः

॥२॥

अशोकैर्नालिकेरैश्च मातुलिङ्गैः सदाडिमैः ।

नानावृक्षैश्च शोभाढ्यं तडागैरुपशोभितम्

॥३॥

देवतायतनैर्दिव्यैर्ध्वजमालासुशोभितैः ।

वेदाध्ययननिर्घोषैर्मङ्गलाद्यैर्विनादितम्

॥४॥

प्राविशद्भवने दिव्ये काञ्चने रुक्ममालिनि ।

अपश्यत्स सुतान् भार्याममात्यान् दासभृत्यकान्

॥५॥

ततो जयप्रदान् सर्वानितश्चेतश्च धावतः ।

हृच्छोभां च प्रकुर्वाणान् वै जयन्तीभिरुच्चकैः

॥६॥

केचित्तोरणमाबध्य केचित्पुष्पाण्यवाकिरन् ।

मातुलिङ्गकराश्चान्ये धावन्ति ह्यन्धकं प्रति

॥७॥

पुरे जनाश्च दृश्यन्ते भाजनैरन्नपूरितैः ।

पूर्णहस्ताः प्रदृश्यन्ते तत्रैव बहवो जनाः

॥८॥

साक्षतैर्भाजनैस्तत्र शतसाहस्रयोषितः ।

मन्त्रान् पठन्ति विप्राश्च मङ्गलान्यपि योषितः

॥९॥

अमात्याश्चैव भृत्याश्च गजांश्चाढौकयन्ति च ।

वर्धापयन्ति ते सर्वे ये केचित्पुरवासिनः

॥१०॥

हृष्टस्तुष्टोऽवसत्तत्र सचिवैः सह सोऽन्धकः ।

ददर्श स जगत्सर्वं तुरङ्गांश्च पदातिकान्

॥११॥

तथैव विविधान् कोशांस्तत्र काञ्चनपूरितान् ।

महिषीर्गा वृषांश्चैवापश्यच्छत्राण्यनेकधा

॥१२॥

स एवमन्धकस्तत्र कियन्तं कालमावसत् ।

हृष्टस्तुष्टो वसन्मर्त्ये स सुरैर्नाभ्यभूयत

॥१३॥

वरं लब्धं तु तं ज्ञात्वा शङ्किताः स्वर्गवासिनः ।

एकीभूताश्च ते सर्वे वासवं शरणं गताः

॥१४॥

शक्र उवाच

कथमागमनं वोऽत्र सर्वेषामपि नाकिनाम् ।

कस्माद्वो भयमुत्पन्नमागताः शरणं कथम्

॥१५॥

ततस्ते ह्यमराः सर्वे शक्रमेतद्वचोऽब्रुवन्

॥१६॥

देवा ऊचुः

सुरनाथान्धको नाम दैत्यः शम्भुवरोर्जितः ।

अजेयः सर्वदेवानां किं नु कार्यमतः परम्

॥१७॥

तत्त्वं चिन्तय देवेश क उपायो विधीयताम् ।

इत्थं वदन्ति ते देवाः शक्राग्रे मन्त्रणोद्यताः

॥१८॥

मन्त्रयन्ति च यावद्वै तावच्चारमुखेरितम् ।

ज्ञात्वा तत्र स देवौघं दानवो निर्गतो गृहात्

॥१९॥

एकाकी स्यन्दनारूढ आयुर्धैबहुभिर्वृतः ।

दुर्गमं मेरुपृष्ठं स लीलयैव गतो नृप

॥२०॥

स्वर्णप्राकारसंयुक्तं शोभितं विविधाश्रमैः ।

दुर्गमं शत्रुवर्गस्य तदा पार्थिवसत्तम

॥२१॥

प्रविवेशासुरस्तत्र लीलया स्वगृहे यथा ।

वृत्रहा भयमापन्नः स्वकीयं चासनं ददौ

॥२२॥

उपविष्टोऽन्धकस्तत्र शक्रस्यैवासने शुभे ।

आस्थानं कलयामास सर्वतस्त्रिदशावृतम्

॥२३॥

शक्र उवाच

किं तवागमनं चात्र किं कार्यं कथयस्व मे ।

यदस्मदीयं वित्तं हि तत्ते दास्यामि दानव

॥२४॥

अन्धक उवाच

नाहं वै कामये कोशं न गजांश्च सुरेश्वर ।

स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूषितम्

॥२५॥

ऐरावतं महानागं तं चैवोच्चैःश्रवोहयम् ।

उर्वश्यादीनि रत्नानि मम दर्शय गोपते

॥२६॥

पारिजातकपुष्पाणि वृक्षजातीननेकशः ।

वादित्राणि च सर्वाणि दर्शयस्व शचीपते

॥२७॥

तस्य तद्वचनं श्रुत्वा शक्रश्चिन्तितवानिदम् ।

योऽमुं निहन्ति पाप्मानं न तं पश्यामि कर्हिचित्

॥२८॥

नास्ति रक्षाप्रदः कश्चित्स्वर्गलोकस्य दुःखिनः ।

भयत्रस्तो ददावन्यद्वादित्राद्यप्सरोगणैः

॥२९॥

रङ्गभूमावुपाविश्य कारयामास ताण्डवम् ।

उपविष्टाः सुराः सर्वे यममारुतकिन्नराः

॥३०॥

उर्वश्याद्या अप्सरसो गीतवादित्रयोगतः ।

ननृतुः पुरतस्तस्य सर्वा एकैकशो नृप

॥३१॥

न व्यश्राम्यत तच्चित्तं दृष्ट्वा चाप्सरसस्तदा ।

शचीं प्रति मनस्तस्य सकाममभवन्नृप

॥३२॥

गृहीत्वा शक्रभार्यां स प्रस्थितः स्वपुरं प्रति ।

ततः प्रववृते युद्धमन्धकस्य सुरैः सह

॥३३॥

तेन देवगणाः सर्वे ध्वस्ताः पार्थिवसत्तम ।

संग्रामे विविधैः शस्त्रैश्चक्रवज्रादिभिर्घनैः

॥३४॥

संतापिताः सुराः सर्वे क्षयं नीता ह्यनेकशः ।

सर्वेऽपि मरुतस्तेन भग्नाः संग्राममूर्धनि

॥३५॥

यथा सिंहोगजान् सर्वान् विचित्य विचरेद्वनम् ।

तद्वदेकेन ते देवा जिताः सर्वे पराङ्मुखाः

॥३६॥

बालोऽधिपो यथा ग्रामे स्वेच्छया पीडयेज्जनान् ।

स्वैरमाक्रम्य गृह्णाति कोशवासांसि चासकृत्

॥३७॥

गतं न पश्यत्यात्मानं प्रजासंतापनेन च ।

गृहीत्वा शक्रभार्यां स गतो वै दानवोत्तमः

॥३८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये शचीहरणवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥