मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १२८

3
अवन्तीखण्डः · रेवाखण्डः · 128

यत्र सिद्धो महाभागो भृगुः परमकोपनः

मार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र भृकुटेश्वरमुत्तमम् ।

यत्र सिद्धो महाभागो भृगुः परमकोपनः

॥१॥

तेन वर्षशतं साग्रं तपश्चीर्णं पुरानघ ।

पुत्रार्थं वरयामास पुत्रं पुत्रवतां वरः

॥२॥

वरो दत्तो महाभाग देवेनान्धकघातिना ।

तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम्

॥३॥

अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत् ।

भृकुटेशं तु यः कश्चिद्घृतेन मधुना सह

॥४॥

पुत्रार्थी स्नापयेद्भक्त्या स लभेत्पुत्रमीप्सितम् ।

तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय काञ्चनम्

॥५॥

गोदानं वा महीं वापि तस्य पुण्यफलं शृणु

॥६॥

ससमुद्रगुहा तेन सशैलवनकानना ।

दत्ता पृथ्वी न सन्देहस्तेन सर्वा नृपोत्तम

॥७॥

तेन दानेन स स्वर्गे क्रीडयित्वा यथासुखम् ।

मर्त्ये भवति राजेन्द्रो ब्राह्मणो वा सुपूजितः

॥८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृकुटेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥