मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ७७

3
अवन्तीखण्डः · रेवाखण्डः · 77

भीमेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

भीमेश्वरं ततो गच्छेत्सर्वपापक्षयंकरम् ।

सेवितं ऋषिसङ्घैश्च भीमव्रतधरैः शुभैः

॥१॥

तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः ।

जपेदेकाक्षरं मन्त्रमूर्ध्वबाहुर्दिवाकरे

॥२॥

तस्य जन्मार्जितं पापं तत्क्षणादेव नश्यति ।

सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम्

॥३॥

दशभिर्जन्मभिर्जातं शतेन तु पुरा कृतम् ।

सहस्रेण त्रिजन्मोत्थं गायत्री हन्ति किल्बिषम्

॥४॥

वैदिकं लौकिकं वापि जाप्यं जप्तं नरेश्वर ।

तत्क्षणाद्दहते सर्वं तृणं तु ज्वलनो यथा

॥५॥

न देवबलमाश्रित्य कदाचित्पापमाचरेत् ।

अज्ञानान्नश्यते क्षिप्रं नोत्तरं तु कदाचन

॥६॥

तत्र तीर्थे तु यो दानं शक्तिमाश्रित्य चाचरेत् ।

तदक्षय्यफलं सर्वं जायते पाण्डुनन्दन

॥७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भीमेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥