मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २२८

3
अवन्तीखण्डः · रेवाखण्डः · 228

युधिष्ठिर उवाच - परार्थं तीर्थयात्रायां गच्छतः कस्य किं फलम्

युधिष्ठिर उवाच

परार्थं तीर्थयात्रायां गच्छतः कस्य किं फलम् ।

कियन्मात्रं मुनिश्रेष्ठ तन्मे ब्रूहि कृपानिधे

॥१॥

मार्कण्डेय उवाच

परार्थं गच्छतस्तन्मे वदतः शृणु पार्थिव ।

यथा यावत्फलं तस्य यात्रादिविहितं भवेत्

॥२॥

उत्तमेनेह वर्णेन द्रव्यलोभादिना नृप ।

नाधमस्य क्वचित्कार्यं तीर्थयात्रादिसेवनम्

॥३॥

धर्मकर्म महाराज स्वयं विद्वान्समाचरेत् ।

शरीरस्याथवा शक्त्या अन्यद्वा कार्ययोगतः

॥४॥

धर्मकर्म सदा प्रायः सवर्णेनैव कारयेत् ।

पुत्रपौत्रादिकैर्वापि ज्ञातिभिर्गोत्रसम्भवैः

॥५॥

श्रेष्ठं हि विहितं प्राहुर्धर्मकर्म युधिष्ठिर ।

तैरेव कारयेत्तस्मान्नोत्तमैर्नाधमैरपि

॥६॥

अधमेन कृतं सम्यङ्न भवेदिति मे मतिः ।

उत्तमश्चाधमार्थे वै कुर्वन्दुर्गतिमाप्नुयात्

॥७॥

न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।

न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत्

॥८॥

जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ।

देवताराधनं दीक्षा स्त्रीशूद्रपतनानि षट्

॥९॥

पतिवत्नी पतत्येव विधवा सर्वमाचरेत् ।

सभर्तृकाशके पत्यौ सर्वं कुर्यादनुज्ञया

॥१०॥

गत्वा परार्थं तीर्थादौ षोडशांशफलं लभेत् ।

गच्छतश्च प्रसङ्गेन तीर्थमर्द्धफलं स्मृतम्

॥११॥

अनुसङ्गेन तीर्थस्य स्नाने स्नानफलं विदुः ।

नैव यात्राफलं तज्ज्ञाः शास्त्रोक्तं कल्मषापहम्

॥१२॥

पित्रर्थं च पितृव्यस्य मातुर्मातामहस्य च ।

मातुलस्य तथा भ्रातुः श्वशुरस्य सुतस्य च

॥१३॥

पोषकार्थादयोश्चापि मातामह्या गुरोस्तथा ।

स्वसुर्मातृष्वसुः पैत्र्या आचार्याध्यापकस्य च

॥१४॥

इत्याद्यर्थे नरः स्नात्वा स्वयमष्टांशमाप्नुयात् ।

साक्षात्पित्रोः प्रकुर्वाणश्चतुर्थांशमवाप्नुयात्

॥१५॥

पतिपत्न्योर्मिथश्चार्द्धं फलं प्राहुर्मनीषिणः ।

भागिनेयस्य शिष्यस्य भ्रातृव्यस्य सुतस्य च ।

षट्त्रिपञ्चचतुर्भागान्फलमाप्नोति वै नरः

॥१६॥

इति ते कथितं पार्थ पारम्पर्यक्रमागतम् ।

कर्तव्यं ज्ञातिवर्गस्य परार्थे धर्मसाधनम्

॥१७॥

वर्षाऋतुसमायोगे सर्वा नद्यो रजस्वलाः ।

मुक्त्वा सरस्वतीं गङ्गां नर्मदां यमुनानदीम्

॥१८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे परार्थतीर्थयात्राफलकथनं नामाष्टविंशत्यधिकद्विशततमोऽध्यायः ॥