इन्द्रद्युम्नेश्वरमाहात्म्यवर्णनम्
श्रीमहादेव उवाच
इंद्रद्युम्नेश्वरं विद्धि शिवं पंचदशं प्रिये ॥
यस्य दर्शनमात्रेण यशः कीर्तिश्च जायते
॥१॥आसीद्राजा पुरा देवि इंद्रद्युम्नो महीपतिः ॥
येनेयं रक्षिता पृथ्वी पिता पुत्रमिवौरसम्
॥२॥दृष्ट्वा सोऽथ बहून्यज्ञान्भूमौ प्रचुरदक्षिणान् ॥
गतः स्वर्गं महात्मा वै सर्वकामफलप्रदम्
॥३॥स चाथ प्रत्युतः स्वर्गान्नष्टकीर्तिर्यदा क्षितौ ॥
पपात भूमौ सहसा गतपुण्यो नरा धिपः ॥
पतितश्चिंतयामास भ्रशं शोकपरिप्लुतः
॥४॥कृतस्य कर्मणस्त्वत्र भुज्यते यत्फलं दिवि ॥
न चान्यत्क्रियते तद्यद्भूतलस्थेन भुज्यते
॥५॥सोऽत्र दोषो मतस्तस्यामतस्तत्पतनं च यत् ॥
पतनात्तु महद्दुःखं परितापश्च जायते
॥६॥स्वर्गभाजो भवंतीह यावत्कीर्तिश्च जायते ॥
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ॥
यावत्स शब्दो भवति तावत्पुरुष उच्यते
॥७॥अकीर्तिः कीर्त्त्यते यस्य लोके भूतस्य कस्यचित् ॥
स पतत्यधमाँल्लोकान्यावच्छब्दोऽस्य कीर्त्तितः
॥८॥तस्मात्कल्याणवृत्तः स्यादन्यथा पतनं भुवि ॥
विधाय वृत्तं पापिष्ठं कीर्तिमेवाभिवर्द्धयेत्
॥९॥अत्यंतं श्लाघयाम्यत्र कीर्त्तिं स्वर्गकरां पराम् ॥
देवैरपि हि सा कीर्तिः कांक्ष्यते परमा यतः
॥१०॥यावत्कीर्त्तिर्मनुष्याणां वर्त्तते भुवि चाक्षया ॥
तेजः पुंजेन युक्तानि शरीराणि भवंति हि
॥११॥न स्वेदो न च दौर्गंध्यं पुरीषं मूत्रमेव वा ॥
तेषां निर्वचनं राजा विधाता च त्रिविष्टपे ॥
उह्यंते ते विमानैश्च नानाभरणभूषिताः
॥१२॥एवं विमृश्य नृपतिरिंद्रद्युम्नो वरानने ॥
स्वर्गकामो जगामाथ हिमवंतं नगोत्तमम्
॥१३॥यत्र तेपे तपस्तीव्रं मार्कण्डेयो महामुनिः ॥
दृष्ट्वा प्रणम्य शिरसा साष्टांगं च पुनःपुनः ॥
पप्रच्छ विनयोपेतस्तमृषिं शंसितव्रतम्
॥१४॥विदितास्तव धर्मज्ञ देवदानवराक्षसाः ॥
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः
॥१५॥न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजोत्तम ॥
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथ्यतां त्वया ॥
कथं कीर्त्तिर्ध्रुवा लोके जायते किं तपःफलात्
॥१६॥मार्कण्डेय उवाच
हंत ते कथयिष्यामि यतः कीर्तिं समीहसे ॥
यावत्कीर्तिर्भूमिसंस्था तावद्वस सुरैः सह ॥
तद्गच्छ शीघ्रं धर्मज्ञ महाकालवनोत्तमम्
॥१७॥कल्कलेश्वरदेवस्य समीपे वाम भागतः ॥
लिंगं पापहरं तत्र समाराधय यत्नतः
॥१८॥तस्याभ्यर्चनमात्रेण लप्स्यसे कीर्तिमुत्तमाम् ॥
स्वर्गं सनातनं चैव यत्सुरैरपि दुर्ल्लभम्
॥१९॥गत्वा स पूजयामास तल्लिंगं कीर्तितं त्विदम् ॥
ततो देवाः सगन्धर्वाः प्रशस्य च मुदान्विताः
॥२०॥अन्तरिक्षे विमानस्था प्रोचुर्वाचं नराधिपम् ॥
त्वत्कीर्त्तिर्निर्मला जाता लिंगस्यास्य समर्चनात्
॥२१॥अद्यप्रभृति राजेंद्र लिंगं त्वन्नाम नामतः ॥
ख्यातिं यास्यति लोकेऽस्मिन्निंद्रद्युम्नेति निश्चितम्
॥२२॥इन्द्रद्युम्नेश्वरं देवं पूजयिष्यंति ये नराः ॥
सर्वपापविनिर्मुक्ता विमानैः सर्वकामिकैः
॥२३॥स्वर्गं यास्यंति ते हृष्टाः स्तूयमानाः सुरर्षिभिः ॥
किंचिच्च दुर्लभं लोके तेषां नैव भविष्यति
॥२४॥दर्शनं ये करिष्यंति लोभाद्वापि प्रसंगतः ॥
तेषां कीर्तिर्यशः पुण्यं धर्मश्चैवं भविष्यति
॥२५॥न स्वर्गात्पतनं तेषां यावदिंद्राश्चतुर्द्दश ॥
ये च पूजां करिष्यंति चतुर्दश्यां विशेषतः ॥
ते कुलं तारयिष्यंति मातृकं पैतृकं सदा
॥२६॥इत्युक्ता त्रिदशाः सर्वे लिंगं संपूज्य यत्नतः ॥
इंद्रद्युम्नेन सहिताः पुनः स्वर्गं गताः प्रिये
॥२७॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
इन्द्रद्युम्नेशदेवस्य श्रूयतामपरः प्रिये
॥२८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य इन्द्रद्युम्नेश्वरमाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥