मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ६५

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 65

ब्रह्मेश्वरमाहात्म्यवर्णनम्

श्रीहर उवाच

पंचषष्टिकसंख्याकं विद्धि ब्रह्मेश्वरं प्रिये ॥

यस्य दर्शनमात्रेण ब्रह्मलोको ह्यवाप्यते

॥१॥

पुलोमानाम दैत्येंद्रो महाबलपराक्रमः ॥

पौलोमानां सहस्रैस्तु पूज्यमानः स तिष्ठति

॥२॥

आनर्चुस्तेऽपि तं दैत्यं सुरेशं त्रिदशा इव ॥

स कदाचित्समक्षं तु दैत्यानामिदमब्रवीत्

॥३॥

अद्यापि लोकपालानामर्केंदुज्वलनांभसाम् ॥

शतक्रतोर्द्धनेशस्य यमस्य वरुणस्य च

॥४॥

यदि नाम ततः किं मे तपसा जीवितेन च ॥

सोऽहं विद्रावयिष्यामि सर्वानेव दिवौकसः

॥५॥

सर्वैरेतैः परिवृतः पौलोमैर्बलवत्तरैः ॥

इत्युक्त्वा गतवान्देवि सागरं दैत्यसंवृतः ॥

तावच्छयानं सहसा ह्यपश्यन्मधुसूदनम्

॥६॥

शारदाभ्रसमाभासं मध्येकालं यथा घनम् ॥

तमालोक्य ततो दैत्यानब्रवीदनुगांस्तथा

॥७॥

अयं स दानवगिरिवज्रो हि मधुसूदनः ॥

कीर्त्तिकांताकलाकेलिवैधव्यादेशको द्विषाम्

॥८॥

दैत्यसीमंतिनीकांतपत्रवल्लीप्रभंजकः ॥

अयमस्मज्जयवधूवैधव्यादेशकः परः

॥९॥

गतशंकः स्वपित्येकः सर्वदा कुटिलाशयः ॥

हंतव्यस्त्वरया दुष्टः कांक्षितो दर्शनं गतः

॥१०॥

इत्युक्त्वा स हि दैत्येंद्रः पुलोमातिरुषान्वितः ॥

अभिदुद्राव वेगेन तावदग्रे पितामहम् ॥

ददर्श नाभिकमले चिन्तयानं पुनःपुनः

॥११॥

अथ व्याकुलतां प्राप्तो ब्रह्मा दृष्ट्वा तदद्भुतम् ॥

आयांतं दैत्यसिंहानां सैन्यं रणसुदुर्जयम्

॥१२॥

अथ बोधं गतः क्षिप्रं कैटभारिर्महाबलः ॥

ददर्शाग्रे पुलोमं तु स्वसैन्यपरिवारितम्

॥१३॥

अजेयः संगरे धीरो ब्रह्माणमिदम ब्रवीत्

॥१४॥

विष्णुरुवाच

पुलोमस्य विनाशार्थमुद्योगः क्रियतामिति ॥

असौ लब्धवरो दैत्यः सहसा मां विजेष्यति

॥१५॥

तस्माद्गच्छ त्वरायुक्तो महाकालवने शुभे ॥

लिंगं द्रक्ष्यसि तत्रैव सप्तकल्पोद्भवं परम्

॥१६॥

उत्तरे च्यवनेशस्य शिवशक्तिसमन्वितम् ॥

तस्य लिंगस्य माहात्म्याद्बलं प्राप्स्यति शाश्वतम्

॥१७॥

कुण्डेश्वरकरस्पर्शकारि वारि निरंतरम् ॥

तदानय गृहीत्वा तु तेनायं वध्यतामिति

॥१८॥

इति तस्य वचः श्रुत्वा ब्रह्मा लोकपितामहः ॥

आजगाम मुहूर्तेन यत्र तल्लिंगमुत्तमम्

॥१९॥

स्तुतिं चकार सहसा दृष्ट्वा भक्त्या पितामहः

॥२०॥

ब्रह्मोवाच

नमस्ते दिव्यरूपाय नमस्ते बहुरूपिणे ॥

नमोऽविषह्यवीर्याय नमो विश्वक्रियात्मने

॥२१॥

नमः पिंगकपर्द्दाय नमः खंडेंदुधारिणे ॥

नमः कनकवर्णाय नमो वननिवासिने

॥२२॥

वंदे त्वां भूतभर्त्तारं सदा शत्रुविनाशनम् ॥

रणत्कनककेयूरं धृतपूर्णेंदुमंड लम्

॥२३॥

वन्दे त्वां त्रिदशाध्यक्षं विश्वाध्यक्षं महेश्वरम् ॥

क्षीणसंसारदुःखौघं मुनिध्यातपदं सदा

॥२४॥

वंदे त्वां सर्वदा देवं दैत्यसंघातनाशनम् ॥

टंकपट्टिशशूलाग्रधनुःखड्गगदाधरम्

॥२५॥

एवं स्तुतः स भगवाँल्लिंगरूपी महेश्वरः ॥

किंचित्स्मितमुखः प्राह ब्रह्माणं लोककारणम्

॥२६॥

किं तेऽभीष्टं करोम्यद्य किं ददामि पितामह ॥

कस्मात्स्तौषि मुनिश्रेष्ठ कस्मादार्तोऽसि दृश्यसे

॥२७॥

इति लिंगवचः श्रुत्वा कथितं ब्रह्मणा तदा ॥

वृत्तांतं विस्तरात्सर्वं लिंगेनोक्तं तदा प्रिये

॥२८॥

जलं गृहाण वाणीश शस्त्रजं शत्रुवारणम् ॥

हनिष्यसि क्षणेनैव पुलोमं सहसैन्यकम्

॥२९॥

इत्युक्तः सत्वरो ब्रह्मा गतो यत्र जनार्द्दनः ॥

जलेन तेन तान्दै त्यान्पातयामास भूतले

॥३०॥

स पुलोमा महानासीत्स्वारोचिषेंऽतरे मनौ ॥

कृष्णोऽपि ब्रह्मणा सार्द्धमाजगाम कुशस्थलीम्

॥३१॥

ददर्श तत्र तल्लिंगं नाम चक्रे जनार्द्दनः ॥

ब्रह्मणा संस्तुतो देवो ममानुग्रहकारणात् ॥

तस्माद्ब्रह्मेश्वरोनाम ख्यातिं लोकेषु यास्यति

॥३२॥

ये द्रक्ष्यंति नरा भक्त्या देवं ब्रह्मेश्वरं शिवम् ॥

ते ब्रह्मलोकमाक्रम्य समेष्यन्ति ममान्तिकम्

॥३३॥

यस्तु पश्येत्प्रसंगेन देवं ब्रह्मेश्वरं शिवम् ॥

कृतकृत्यः स पुरुषो न शोचेन्मरणं सदा

॥३४॥

यः पुष्करं नरो गत्वा तपो वर्षशतं चरेत् ॥

अन्यो ब्रह्मेश्वरं पश्येत्तस्य पुण्यं ततोऽधिकम्

॥३५॥

पंचपातकसंयुक्तो यो मर्त्त्यो दुष्टमानसः ॥

सोपि गच्छेच्छिवं स्थानं दृष्ट्वा ब्रह्मेश्वरं शिवम्

॥३६॥

चांद्रायणानां विधिवद्दशानामेव यत्फलम् ॥

तत्फलं समवाप्नोति ब्रह्मेश्वरस्य दर्शनात्

॥३७॥

इत्युक्त्वा गतवान्विष्णुर्वैकुंठं शाश्वतं प्रिये ॥

ब्रह्मलोकं जगामाथ ब्रह्मा लोकपितामहः

॥३८॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

ब्रह्मेश्वरस्य देवस्य जल्पेश्वरमथो शृणु

॥३९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनाम पंचषष्टितमोऽध्यायः ॥ ६५ ॥