मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — चतुरशीतिलिङ्गमाहात्म्यम्, अध्याय ७९

3
अवन्तीखण्डः · चतुरशीतिलिङ्गमाहात्म्यम् · 79

एकोनाशीतिकं विद्धि हनुमत्केश्वरं प्रिये

श्रीमहादेव उवाच

एकोनाशीतिकं विद्धि हनुमत्केश्वरं प्रिये ॥

यस्य दर्शनमात्रेण समीहितफलं लभेत्

॥१॥

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ॥

आगता मुनयो देवि राघवं प्रतिनंदितुम्

॥२॥

रामेण पूजिताः सर्वे ह्यगस्तिप्रमुखा द्विजाः ॥

प्रहृष्टमनसो विप्रा रामं वचनमब्रुवन्

॥३॥

दिष्ट्या तु निहतो राम रावणः पुत्रपौत्रवान् ॥

दिष्ट्या विजयिनं त्वाऽद्य पश्यामः सह भार्यया

॥४॥

हनूमता च सहितं वानरेण महात्मना ॥

दिष्ट्या पवनपुत्रेण राक्षसांतकरेण च

॥५॥

चिरं जीवतु दीर्घायुर्वानरो हनुमान्सदा ॥

अंजनीगर्भसंभूतो रुद्रांशो हि धरातले

॥६॥

आखंडलोऽग्निर्भगवान्यमो वै निऋतिस्तथा ॥

वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥

ब्रह्मणा सहिताश्चैव दिक्पालाः पातु सर्वदा

॥७॥

श्रुत्वा तेषां तु वचनं मुनीनां भावितात्मनाम् ॥

विस्मयं परमं गत्वा रामः प्रांजलिरब्रवीत्

॥८॥

किमर्थं लक्ष्मणं त्यक्त्वा वानरोऽयं प्रशंसितः ॥

कीदृशः किंप्रभावो वा किंवीर्यः किंपराक्रमः

॥९॥

अथोचुः सत्यमेवैतत्कारणं वानरोत्तमे ॥

न त्वस्य सदृशो वीर्ये विद्यते भुवनत्रये

॥१०॥

एष देव महाप्राज्ञो योजनानां शतं प्लुतः ॥

धर्षयित्वा पुरीं लंकां रावणांतःपुरं गतः

॥११॥

प्रादेशमात्रप्रतिमं कृतं रूपमनेन वै ॥

दृष्टा संभाषिता सीता पृष्टा विश्वासिता तथा

॥१२॥

सेनाग्रगा मंत्रिपुत्राः किंकरा रावणात्मजाः ॥

हता हनुमता तत्र ताडिता रावणालये

॥१३॥

भूयो बन्धविमुक्तेन संभाष्य तु दशाननम् ॥

लंका भस्मीकृता तेन पातकेनेव मेदिनी

॥१४॥

न कालस्य न शक्रस्य न विष्णोर्वेधसोऽपि वा ॥

श्रूयंते तानि कर्माणि यादृशानि हनूमतः

॥१५॥

राम उवाच

एतस्य बाहुवीर्येण लंका सीता च लक्ष्मणः ॥

प्राप्तो मम जयश्चैव राज्यं मित्राणि बान्धवाः

॥१६॥

सखायं वानरपतिर्मुक्त्वैनं हरिपुंगवम् ॥

प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत्

॥१७॥

वाली किमर्थमेतेन सुग्रीवप्रियकाम्यया ॥

तदा वैरे समुत्पन्ने न दग्धस्तृणवत्कथम्

॥१८॥

नायं विदितवान्मन्ये हनुमानात्मनो बलम् ॥

उपेक्षितः क्लिश्यिमाने किमर्थं वानराधिपे

॥१९॥

एवं ब्रुवाणं रामं तु मुनयो वाक्यमब्रुवन् ॥

सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः

॥२०॥

न बले विद्यते तुल्यो न गतौ न मतावपि ॥

अमोघवाक्यैः शापस्तु दत्तोऽस्य मुनिभिः पुरा

॥२१॥

न ज्ञातं हि बलं येन बलिना वालिमर्दने ॥

बाल्येऽप्यनेन यत्कर्म कृतं नाम महात्मना

॥२२॥

तन्न वर्णयितुं शक्यमेतस्य तु बलं महत् ॥

यदि श्रोतुं तवेच्छास्ति निशामय वदामहे

॥२३॥

असौ हि जातमात्रोऽपि बालार्क इव मूर्त्तिमान् ॥

ग्रहीतुकामो बालार्कं पुप्लावांबरमध्यतः

॥२४॥

तूर्णमाधावतो राम शक्रेण विदितात्मना ॥

हनुस्तेनास्य सहसा कुलिशेनैव ताडितः

॥२५॥

ततो गिरौ पपातैष शक्रवज्राभिताडितः ॥

पततोस्य महावेगाद्वामो हनुरभज्यत ॥

अस्मिंस्तु पतिते बाले मृतकल्पेऽशनिक्षतात्

॥२६॥

ततो वायुः समादाय महा कालवनं गतः ॥

लिंगमाराधयामास पुत्रार्थं पवनस्तदा

॥२७॥

स्पृष्टमात्रस्तु लिंगेन समुत्तस्थौ प्लवंगमः ॥

जलसिक्तं यथा सस्यं पुनर्जीवि तमाप्तवान्

॥२८॥

प्राणवंतमिमं दृष्ट्वा पवनो हर्षितस्तदा ॥

प्रत्युवाच प्रसन्नात्मा पुत्रमादाय सत्वरम्

॥२९॥

स्पर्शनादस्य लिंगस्य मम पुत्रः समुत्थितः ॥

हनुमत्केश्वरो देवो विख्यातोऽयं भविष्यति

॥३०॥

एतस्मिन्नंतरे शक्रः समायातः सुरैर्वृतः ॥

नीलोत्पलमयीं मालां संप्रगृह्येदमब्रवीत्

॥३१॥

मत्करोत्सृष्टवज्रेण यस्मादस्यहनुर्हतः ॥

तदेष कपिशार्दूलो हनुमांस्तु भविष्यति

॥३२॥

वरुणोऽस्व वरं प्रादान्नास्य मृत्युर्भविष्यति ॥

यमो दंडादवध्यत्वमारोग्यं धनदो ददौ

॥३३॥

सूर्येण च प्रभा दत्ता पवनेन गतिर्द्रुता ॥

लिंगेन च वरो दत्तो देवानां संनिधौ तदा

॥३४॥

आयुधानां हि सर्वेषामवध्योऽयं भविष्यति ॥

अजरश्चामरश्चैव भविष्यति न संशयः

॥३५॥

अमित्रभयदो ह्येष मित्राणामभय प्रदः ॥

अजेयो भविता युद्धे लिंगेनोक्तं पुनःपुनः

॥३६॥

शत्रोर्बलोत्सादनाय राघवप्रीतये सदा ॥

कियत्कालं बलं स्वीयं न स्मरिष्यति शापतः

॥३७॥

हते तु रावणे भूयो रामस्यानुमते स्थितः ॥

विभीषणं प्रार्थयित्वा मामत्र स्थापयिष्यति

॥३८॥

ततो मां त्रिदशाः सर्वे पूजयिष्यंति भाविताः ॥

तेनैव नाम्ना विख्यातिं पुनर्यास्यामि भूतले

॥३९॥

अथ गंधवहः पुत्रं प्रगृह्य गृहमानयत् ॥

अंजनायै तदाचख्यौ वरलब्धिं च लिंगतः

॥४०॥

एवं लिंगप्रभावाच्च बलवान्मारुतात्मजः ॥

स जातस्त्रिषुलोकेषु राम तस्मात्प्रशस्यते

॥४१॥

पराक्रमोत्साहमति प्रतापैः सौशील्यमाधुर्यनयादिकैश्च ॥

गांभीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोऽस्ति लोके

॥४२॥

ममेव विक्षोभितसागरस्य लोकान्दि धक्षोरिव पावकस्य ॥

प्रजा जिहीर्षोरिव चातकस्य हनूमतः स्थास्यति कः पुरस्तात्

॥४३॥

एतद्वै कथित तुभ्यं यन्मां त्वं परि पृच्छसि ॥

हनूमतोऽस्य बालस्य कर्माण्यद्भुतविक्रम

॥४४॥

दृष्टः सभाजितश्चापि राम गच्छामहे वयम् ॥

एवमुक्त्वा गताः सर्वे मुनयोऽवंतिमण्डलम् ॥

पूजयामासुरीशानं हनुमत्केश्वरं शिवम् ॥

समर्चयंति ये भक्त्या लिंगं त्रिदशपूजितम् ॥

हनुमत्केश्वरं देवं ते कृतार्थाः कलौ युगे

॥४६॥

व्रजंत्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमव्ययम्।

संप्राप्य तु पुनर्जन्म लभंते मोक्षमव्ययम्

॥४७॥

यः पश्यति नरो लिंगं हनुमत्केश्वरॆ प्रिय ॥

सोऽधिकं फलमाप्नोति सर्वदुःखविवर्जितः

॥४८॥

सर्वलोकेषु तस्यैव गतिर्न प्रतिहन्यते ॥

दिव्येनैश्वर्ययोगेन युज्यते नात्र संशयः

॥४९॥

बालसूर्यप्रतीकाशविमानेन सुवर्चसा ॥

वृतः स्त्रीणां सहस्रैस्तु स्वच्छदगमनागमः

॥५०॥

विचरत्यविचारेण सर्वलोकान्दिवौकसाम् ॥

स्पृहणीयतमः पुंसां सर्ववर्णोत्तमोधुना

॥५१॥

स्वर्गाच्च्युतः प्रजायेत कुले महति रूपवान् ॥

धर्मज्ञो रुद्रभक्तश्च सर्वविद्यार्थपारगः

॥५२॥

राजा वा राजतुल्यो वा दर्शनादस्य जायते ॥

स्पर्शनात्परमं पुण्यं यजनात्परमं पदम्

॥५३॥

एष ते कथितो देवि प्रभावः पापनाशनः ॥

हनुमत्केश्वरेशस्य स्वप्नेश्वरमथो शृणु

॥५४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य उमामहेश्वरसंवादे हनुमत्केश्वरमाहात्म्यवर्णनंनामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥