राजस्थलेश्वरमाहात्म्यवर्णनम्
श्रीहर उवाच
चतुःसप्ततिकं विद्धि शिवं राजस्थलेश्वरम् ॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते
॥१॥विष्णुकल्पे पुरा वृत्ते मन्वंतरमुखप्रिये ॥
अराजके महीपृष्ठे ब्रह्मा चिंतापरोऽभवत्
॥२॥न मनुष्यैर्विना देवाः समर्था लोकधारणे ॥
दानेज्याजपतोदेवा भजंते पुष्टिमुत्तमाम्
॥३॥योग्यो राजा प्रजापालः को भवेज्जनवत्सलः ॥
सोऽपश्यदथ राजर्षि स्तपस्यंतं रिपुंजयम्
॥४॥पृथ्व्यां सर्वगुणाकीर्णं धर्मनिष्ठं महाव्रतम् ॥
तमुवाचाथ देवेशो ब्रह्मा लोकपितामहः
॥५॥ब्रह्मोवाच
रिपुंजय निबोधेदं वचनं मम पुत्रक ॥
राज्यं च पाल्यतां वत्स एककल्पेन चेतसा
॥६॥अलं ते तपसा तात कष्टेनानेन सांप्रतम् ॥
धर्मेण विजिताः सर्वे त्वया लोका नरोत्तम
॥७॥क्रियतामधुना लोकपालनं तु ममाज्ञया ॥
यतः परोपकारो हि फलं देहस्य देहिनः
॥८॥न धर्मस्तादृशोऽन्योऽस्ति न चान्योऽर्थस्य साधकः ॥
निरयाप्तिरपि श्रेय उपकृत्य परस्य वै
॥९॥नापकारेण भूतानामपि स्याद्भुवनेशता ॥
सततं लोक कार्यार्थं मदाज्ञागौरवेण च ॥
पृथ्वीं समुद्रवसनां प्रजाश्चैव प्रपालय
॥१०॥इत्युक्तः स तु राजर्षिर्ब्रह्मणा पर्वतात्मजे ॥
प्रोवाच प्रांजलिर्भूत्वा ब्रह्माणं तु रिपुंजयः
॥११॥स्वभावेनाचला पृध्वी त्वया पूर्वं विनिर्मिता ॥
विनैव पालकं ह्येषा कुत्र यास्यति मेदिनी
॥१२॥यद्यवश्यं मया पृध्वी पालनीया पितामह ॥
देहि मे नगरीं रम्यामवन्तीं सप्तकल्पगाम्
॥१३॥मनुष्यलोके विख्याता सकले सामरावती ॥
स्वर्गच्युतानां देवानां निवासार्थं प्रतिष्ठिता
॥१४॥मर्यादामनुवत्तेंयुर्यदि मे नाकवासिनः ॥
अदत्ते च मया स्थाने न वासः कस्यचिद्भवेत् ॥
अनेन विधिना पृथ्वीं पालयिष्याम्यहं प्रभो
॥१५॥ब्रह्मोवाच
भविष्यत्येष ते कामो यस्त्वयोक्तो नरोत्तम ॥
ये केचित्त्रिदशाः संति मद्गौरववशेन ते ॥
तवादेशं करिष्यंति सदा त्वद्वशवर्त्तिनः
॥१६॥देवनाथेति वै नाम भविष्यति च सुव्रत ॥
इत्युक्त्वांतर्दधे ब्रह्मा हंसयानं समास्थितः
॥१७॥अथ राजा प्रतिज्ञाय ब्रह्मणा भूमिपालनम् ॥
पृथ्व्यामुद्घोषयामास प्रोवाच त्रिदिवौकसाम्
॥१८॥भवतां विहितः स्वर्गो मनुजानां च भूतलम् ॥
ये चात्र कंद ररताः स्थले वा भूधरेषु च
॥१९॥ये स्थिता यांतु ते देवा मनुजानामियं धरा ॥
तच्छ्रुत्वा घोषितं तस्य राज्ञो भयनिपीडिताः ॥
त्रिदशा ब्रह्मणो वाक्याद्गौरवात्त्रिदिवं गताः
॥२०॥अथ प्रजाः स नृपतिर्धर्मेणावर्धयत्तदा ॥
पुत्रवत्सेहयुक्तेन हृदयेनातिनिर्वृताः ॥
प्रजास्तत्सुखसंवृद्धा जरामृ त्युविवर्जिताः ॥
पुत्रिणो धनधान्याढ्याः सर्वकामसमन्विताः
॥२२॥यौवनस्थाश्च निर्द्वंद्वाः सततं धर्मसंश्रयाः ॥
नासीत्पृथिव्यां शैलस्तु स्थलो वा द्वीप एव च
॥२३॥अकृष्टपच्या पृथिवी स्वादवद्भिः फलैर्युता ॥
देवलोक इवासीद्भूः सर्वकामगुणोज्ज्वला
॥२४॥एवं व्रजति काले वै राज्ञि राज्यं प्रकुर्वति ॥
महामर्षपरा देवा विप्रकार्यार्थमुद्यताः
॥२५॥प्रजानां बहुदुःखानि मुहुः कुर्वंत्यनेकशः ॥
अथानावृष्टिमकरोत्सुदीर्घां पाकशासनः
॥२६॥तथा संह्रियमाणेषु लोकेषु नृपसत्तमः ॥
मेघो भूत्वा दिवं प्राप्य सुवृष्टिमकरोन्नृपः
॥२७॥तेनैवाप्यायितो लोकः सुखी जातो यशस्विनि ॥
ततः काले तु कस्मिंश्चिद्वर्षत्पाकशासनः ॥
संवर्त्तो वारिदो भूत्वा मेघान्वै विन्यपातयत्
॥२८॥ततस्तु मारुतो भूत्वा नृपतिस्तामधारयत् ॥
ततोनलः प्रनष्टोऽभूत्सर्वतः पृथिवीतलात्
॥२९॥न यज्ञा न जपो होमो न च पक्तिरवर्त्तत ॥
लोकश्च व्याधिसंक्षुब्धस्तदाभूद्विषमे स्थितः
॥३०॥ततः स राजा तं दृष्ट्वा त्वभवद्धव्यवाहनः ॥
सोऽधारयत्प्रजाः सर्वा यज्ञांश्च त्रिदिवौकसः
॥३१॥एतस्मिन्नंतरे देवि त्वया सार्द्धं समागतः ॥
दर्शनार्थं स्वनगरीमहं भूतगणैर्वृतः
॥३२॥ततो देवगणाः सर्वे सकिंनरमहोरगाः ॥
सयक्षरक्षोगन्धर्वाः सिद्धविद्याधरोरगाः
॥३३॥भूताः प्रेताः पिशाचाश्च ये चान्ये गगनेचराः ॥
चत्वारः सागराश्चैव क्षारक्षीरादिसिंधवः
॥३४॥गंगा च यमुना सिंधुश्चंद्रभागा सरस्वती ॥
चर्मण्वती भीम रथी पुण्या गोदावरी नदी
॥३५॥विपाशा देविका पुण्या शरयूः कौशिकी तथा ॥
गोमती धूतपापा च बाहुदा च दृषद्वती
॥३६॥पारा वेद स्मृतिश्चैव वेत्रघ्नी नर्मदा शिवा ॥
तापी पयोष्णी निर्विन्ध्या सर्वास्तत्र समागताः
॥३७॥पुष्करश्च प्रयागश्च प्रभासो नैमिषस्तथा ॥
पृथुतीर्थोदकश्चैव तथैवामरकंटकः
॥३८॥गंगाद्वारः कुशावर्त्तो बिल्वको नीलपर्वतः ॥
वाराहपर्वतश्चैव तीर्थं कनखलं तथा
॥३९॥भृगुतुंगः सुकुक्षश्चाप्यजगंधश्च पार्वति ॥
कालिंजरः सकेदारो रुद्रकोटिर्महालयः
॥४०॥स्थानानि च समस्तानि पुण्यान्यायतनानि च ॥
मेरुर्महेंद्रो मलयो मंदरो गंधमादनः
॥४१॥मुनयो वालखिल्याश्च वेदाश्चत्वार एव च ॥
एते चान्ये च बहवः समायाता मया सह
॥४२॥अनंतरं मया मेरुः स्थलाकारः कृतस्ततः ॥
तस्मिन्स्थले स्थितो देवि उपविष्टः सुरैर्वृतः ॥
नियुक्ताः सागराः पार्श्वे चत्वारो लवणादयः
॥४३॥अथ व्याकुलतां प्राप्तः स च राजा रिपुंजयः ॥
स्वस्थलस्थं मां दृष्ट्वा समायातस्तु मां प्रति
॥४४॥तेजसा दह्यमानोऽपि मदीयेन वरानने ॥
भीतोऽपि तोषयामास कोऽसि देव नमोऽस्तु ते
॥४५॥स्थलेस्मिन्नृप राजाहं मयाप्युक्तं विनोदतः ॥
चतुर्वर्गश्चतुर्मूर्त्तिश्चतुर्द्धा संस्थितो नृपः
॥४६॥तेनाहं सर्वतो दृष्टो वाङ्मये सचराचरे ॥
अनंतरं स्तुतस्तेन भक्त्या परमया प्रिये
॥४७॥प्रभावमतुलं दृष्ट्वा मदीयं व्यापकं परम् ॥
भक्त्या परमया देवि स च मां शरणं गतः ॥
भूयःस्तुतोऽपि तेनाहं तुष्टो वै तस्य भूपतेः ॥
तेनोक्तं यदि मे देव तुष्टस्त्वं परमेश्वर
॥४९॥भक्तिर्मे सुदृढा भूयात्त्वयि सर्वॆश शाश्वती।
तुष्टोहं तेन वाक्येन पुनः प्रोक्तो मया नृप
॥५०॥एवं भविष्यतीत्युक्त्वा पुनर्मां ब्रूहि पार्थिव ।
हृदि स्थितश्च ते कामः सर्वकालं भविष्यति
॥५१॥अधृष्यः सर्वेदेवानां सर्वदा संभविष्यसि ॥
तेनाहं प्रार्थितो देवि भूयो वरमनुत्तमम्
॥५२॥अतीव राजते देव स्थलोऽयं तव सन्निधौ ॥
मेरुरेष न संदेहो वृल्लभः सर्वदा तव
॥५३॥राजस्थलेश्वरोऽसि त्वं विख्यातो भुवनत्रये ॥
भविष्यसि यथा देव तथा त्वं कर्तुमर्हसि
॥५४॥अत्रागत्य च यो देव भक्त्या परमया युतः ॥
यात्रां करोति भावेन पुराणोक्तविधानतः ॥
५५ | ॥
तस्य त्वया प्रदातव्यं सर्वं मनसि चिंतितम् ।
अणिमादिगुणाः सर्वे गुटिकासिद्धिरंजनम्
॥५६॥खड्गं च पादुकां चैव जलवासं रसायनम् ॥
राजस्थलेश्वरं यस्तु भक्त्या पश्यति मानवः
॥५७॥दशम्यां तु विशेषेण कृत्वा नियमपूर्वकम् ॥
देवानामपि देवत्वं संप्राप्नोति महेश्वरः
॥५८॥पूजनीयस्तु त्रिदिवैर्यथा देवः पुरंदरः ॥
दृष्ट्वा राजस्थले देवं योऽत्र यात्रां करिष्यति
॥५९॥तस्य श्रीर्विजयश्चैव भवत्येव वरो मम ॥
शत्रवः संक्षयं यांतु संपद्यतां मनोरथाः
॥६०॥वृद्धिर्भवतु वंशे च दर्शनात्तव शंकर ॥
सर्वेऽत्र देवास्तिष्ठंतु मेरुरत्रैव तिष्ठतु ॥
तिष्ठंतु सागराः सर्वे तव देव समीपतः
॥६१॥इत्युक्तोऽहं तदा तेन मया चोक्तं वरानने ॥
सुद्युम्नोनाम भूपालो यदात्रैवागमिष्यति
॥६२॥पुत्रार्थं भार्यया सार्द्धं तदा दास्यामि वांछितम् ॥
तदा समुद्राश्चत्वारः स्थास्यन्ति सफलाः स्वयम्
॥६३॥तस्याराधनतो भूप पुत्रं दास्यामि शोभनम् ॥
ये चात्र मानवा राजन्यात्रां कुर्वंति भक्तितः ॥
तेषां मनोरथावाप्तिर्भविष्यति न संशयः ॥
राजा रिपुंजयो भक्त्या गणाधीशः कृतो मया
॥६५॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
राजस्थलेश्वरेशस्य श्रूयतां वडलेश्वरम्
॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये राजस्थलेश्वरमाहात्म्यवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥