वैश्वानरोत्पत्तिवर्णनम्
व्यास उवाच
योऽसौ कपाल उत्पन्नो नरोनाम धनुर्धरः ॥
किमेवं सोऽधुना जात उत्पत्तौ विश्वकर्मणः
॥१॥कथं रुद्रेण जनितः प्रभुणा बुद्धिपूर्वकम् ॥
विष्णुना वा भगवता ब्रह्मणा भाव भेदतः
॥२॥केन कस्मात्समुत्पन्नः शंकराच्युतब्रह्मणाम् ॥
ब्रह्मा हिरण्यगर्भो यो यो जातश्च चतुर्मुखः
॥३॥अद्भुतं पंचमं वक्त्रं कथं तस्याप्युपस्थितम् ॥
स तस्थौ भगवान्ब्रह्मा कथं रुद्रे मनोऽदधत्
॥४॥मूढात्मना नरो येन हंतुं स प्रहितो हरम्
॥५॥सनत्कुमार उवाच
महेश्वरहरी एतौ द्वावेव सति तिष्ठतः ॥
तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः
॥६॥ब्रह्मणः पंचमं वक्त्रं यत्तदासीन्महात्मनः ॥
तस्यैव मानसः सोग्निः शिरसा तेन वै धृतः
॥७॥यो नरो ब्रह्मणः प्रोक्तः सोऽप्यग्निस्तस्य मानसः ॥
दधार तं महादेवः कृत्वांगुल्यंतरांतरे
॥८॥पूर्वं दृष्ट्वा समुत्पत्ति मेवं तस्य महान्नरः ॥
तस्मात्कपालमंगुल्यां घट्टमानमजायत
॥९॥स तं हत्वा शरेणाजौ ब्रह्मणो निहितं रजः ॥
मुमोह रजसा सत्त्वं यदृच्छा कृत्प्रभुर्यतः
॥१०॥व्यास उवाच
कथमग्निः समुत्पन्नो योनिः सर्वेण धारितः ॥
विस्तरेण तदाचक्ष्व भगवन्मुनिवंदित
॥११॥सनत्कुमार उवाच
अव्यक्तादीन्ससर्जादावंडं हि तदजायत ॥
जज्ञे सौवर्णवर्णाभो ब्रह्मा लोकपितामहः
॥१२॥स्वयंभूः स तपस्तप्त्वा दिव्यं वर्षशतं महत् ॥
स तपःस्थो व्याजहार भूर्भुवःस्वरिति श्रुतीः
॥१३॥श्रुतियोगात्तु मनसः पश्चादग्निरजायत ॥
अधोमुखः पपाताग्निः पृथिवीं निर्दहन्यदा
॥१४॥पाणिभ्यां ब्रह्मणा सोग्निर्भूमेरूर्ध्वं निवेशितः ॥
ततो दक्षिणहस्तेन वेद्यामग्निः प्रणीयते
॥१५॥पुरापतन्नधोज्वाल ऊर्ध्वज्वालो यदा धृतः ॥
उत्तानश्च कृतो यस्माद्ब्रह्मणा निर्मितो मिथः
॥१६॥ज्वालाभिः प्रज्वलन्नूर्ध्वं सर्वशब्दस्फुलिंगवान् ॥
हिरण्यवर्णं ब्रह्माणं तदोवाचानिरुत्कटः
॥१७॥किमर्थं तु त्वया देव भूमिभक्षं निवारितम् ॥
बुभुक्षयाहमाविष्ट आहारो मे प्रदीयताम्
॥१८॥एवमुक्तोऽग्नये ब्रह्मा स्वरोमाणि जुहाव सः ॥
कृशश्चखाद अग्निस्तु सर्वरोमाणि ब्रह्मणः
॥१९॥अब्रवीच्च न मे तृप्तिर्न च मे देहनिर्वृतिः ॥
त्वचं जुहाव ब्रह्मा च चखादाग्निस्त्वचं तदा
॥२०॥अब्रवीत्तं तदा वह्निस्तृप्तिर्नास्ति ममेति हि ॥
जुहाव स्वानि मांसानि त्वचोत्कृत्य प्रजापतिः
॥२१॥अब्रवीच्च न मे तृप्तिर्न च मे देहनिर्वृतिः ॥
जुहाव ब्रह्मा चास्थीनि तान्यश्नात्स बुभुक्षितः
॥२२॥ततो धात्रा हुताशाय कृतो देहो विधातुकः ।
तमदेहमथो दृष्ट्वा ब्रह्माणमवदच्च सः
॥२३॥अहो ब्रह्मन्न मे तृप्तिर्न च मे देहनिर्वृतिः।
कुद्धेण ब्रह्मणा सोऽग्निर्हुंकारेण द्विधा कृतः
॥२४॥आहतू रुदतावग्नी आहारार्थं प्रजापतिम् ॥
हुंकारेण पुनर्ब्रह्मा द्विधैकैकं चकार वै
॥२५॥त्रयस्तेषां रुदंति स्म रुदन्ह्येको ह्यसंवृतः ॥
क्रुद्धेन ब्रह्मणा व्यास हुंकारेणैव ताडितः
॥२६॥रोरूयमाणे चाग्नौ तु पुनर्ब्रह्मा कृपान्वितः ॥
प्राह कामाभिभूतानां भुंक्ष्व त्वं देहधातुकम्
॥२७॥स कालस्तस्य कामस्य सा वृत्तिः संप्रकल्पिता ॥
अकाराग्निं सन्निविष्टं दृष्ट्वा मनसि मानसः
॥२८॥हुंकाराग्निः प्रजज्वाल किमेतदिति चाब्रवीत् ॥
ब्रह्मा तमाह त्वमपि यथेष्टां वृत्तिमाश्रय
॥२९॥देवमध्ये बहिर्वापि मुनीनामाश्रमेषु च ॥
इत्येवमुक्तस्तेनाशु वृत्तिमेतामरोचयत्
॥३०॥अहमेवं प्रदास्यामि पुनः पुनरुवाच ह ॥
यस्मादेष द्वितीयोग्निर्हुंकारात्समजायत
॥३१॥साभिमानोऽपमानो वा हुंकारो यत्र कथ्यते ॥
सा च वृत्तिर्ममादेशाद्बुभुक्षाशांतये तव
॥३२॥इकाराग्निं समाहूय ब्रह्मा वचनम ब्रवीत् ॥
भवतोग्ने त्वियं वृत्तिरन्नं भुक्तं दहेरिति
॥३३॥उकाराग्निं समाहूय ब्रह्मा वचनमब्रवीत् ॥
यत्पृथिव्यां गुरुध्यानं भगवंस्तत्समाश्रय
॥३४॥अहं च ते विधास्यामि स्थानमाहारमेव च ॥
इत्युक्तः स तु तेनाग्निर्यत्पृथिव्यां शिलाचयः
॥३५॥यतोऽग्निर्व्यास तेनोक्तो गिरौ दुर्गे महामुने ॥
उकाराग्निः स चाप्येष समुद्रे वडवामुखः
॥३६॥सोऽपि भिन्नः समाहूतो ब्रह्मणा स्थानलिप्सया ॥
त्वं चक्षुः सर्वलोकस्य ब्रह्मा वचनमब्रवीत्
॥३७॥तस्मात्त्वं संस्कृतां वाणीं द्विजातीनां प्रकाशय ॥
दैवी पुण्या हि पापांश्च आयुष्यं हंत्यसंस्कृता
॥३८॥तस्माद्द्विजातेर्विज्ञेया वाणी पुण्या प्रकाशिता ॥
वाक्च माता द्विजातीनां मुखे सा संप्रतिष्ठिता
॥३९॥अनृताक्षरविन्यासादमंगल्या ह्यसंस्कृता ॥
वक्तारं हंत्यतो ह्यग्निः सदा संस्कृतकृद्द्विजः
॥४०॥आहूय भूयोऽकाराग्निं प्रजापतिरचक्षुषम् ॥
वाग्वेदवाणीमवदत्सोपि संमीलितेक्षणः
॥४१॥ब्रह्माणमाह वह्निस्तु वाचोहं मुखमस्मि हे ॥
स्थानं मम प्रयच्छस्व सर्वतेजोवरं परम्
॥४२॥ब्रह्मा तमाह यस्मात्त्वं तेजःस्थानं समीहसे ॥
तस्मात्तेजोमयं यत्ते रविस्थानं भविष्यति
॥४३॥यस्मात्तेजः प्रपश्यंति चक्षुर्भवति दुर्बलम् ॥
तस्मात्तत्तेजसा युक्तं पश्येदनिमिषं क्वचित्
॥४४॥इकारमथ संभिन्नमग्निमाह पितामहः ॥
सौम्यदृष्ट्या तु ब्रह्माणं समुदीक्षमुपागतम्
॥४५॥यस्माच्छीघ्रं महासत्त्व सौम्यदृष्टिरिहागतः ॥
तस्माद्दास्याम्यहं स्थानं सर्वभूतमनोरमम्
॥४६॥संशीतात्मा शीतरश्मिश्चंद्रमास्त्वं भविष्यसि ॥
सर्वतेजोधिको दिव्यः सौम्यः परमभासुरः
॥४७॥तरुस्थः सर्वतेजांसि तेजसाऽभिभविष्यसि ॥
इत्युक्त्वा तं विसृज्याथ उकाराग्निमथाह्वयत
॥४८॥इहैहीतीति शिरसि समादाय न्यवेशयत् ॥
तत्रस्थं पंचमं वक्त्रं ऊर्ध्वमेतत्प्रजायते
॥४९॥स एवं रूपवानग्निरुकाराग्निः प्रतिष्ठितः ॥
तस्मादग्निश्च सूर्यश्च एकमेतौ विनिर्दिशेत्
॥५०॥भवाग्निरूपं परमं ब्रह्माणमिदमब्रवीत् ॥
ममापि रुचिरं स्थानं प्रयच्छस्व यथा स्वयम्
॥५१॥ब्रह्मा तमाह कतमं स्थानं ते रोचतेऽनल ॥
अग्निस्तं प्रत्युवाचेदं स्थानं कथय मे परम्
॥५२॥स्थानं नैवास्ति ते भव्यं ततो ह्येवं भविष्यति ॥
अत्र ते स्थातुमिच्छास्ति यदि संस्थास्यते त्विह
॥५३॥लोके नित्यं समाचार लोकसंस्थितिहेतुकः ॥
संभवार्थमिहास त्वं निजसत्त्वपराक्रमः
॥५४॥यदिह त्वं महाज्वालाभाभिः कलितशोभनः ॥
प्राप्स्यसे सर्व जंतूनां भासुरत्वमनुत्तमम् ॥
न ह्येष धर्मश्चैवाद्यो मायामोहितकाम्यया
॥५५॥इत्युक्ते ब्रह्मणा सोऽग्निः प्रजज्वाल सहस्रशः ॥
अनंतज्वालाभि ततो नानावर्णादिभिः श्रितः
॥५६॥अकारेकार ऊकारो ब्रह्मा तमथ दृष्टवान् ॥
नैवासौ शाम्यतां याति वह्निर्भूयो व्यवर्धत
॥५७॥व्याप्तं भवाग्निना सर्वं तिर्यगूर्ध्वमधस्तथा ॥
ज्वालाभिरुपरि क्षिप्तं दृष्ट्वात्मानं समंततः
॥५८॥चिंतयंतं तु ब्रह्माणं भीतं चैव विशेषतः ॥
शिरस्यंजलिमाधाय तुष्टावाथ प्रणम्य तम् ॥
तेजोनिधिं च सर्वेशं ज्ञातुमिच्छन्प्रजापतिः ॥
निरुक्तसूक्तराहस्यैर्ऋग्यजुःसामभाषितैः
॥६०॥ब्रह्मोवाच
सप्ततेजो नमस्तेऽस्तु परस्य परमात्मने ॥
अद्भुतानां प्रतिश्रोत्रे तेजसा निधये नमः
॥६१॥बीजं यो विश्वभावानां संमोहनविमोहनम् ॥
अंधकारो युगावर्तकाले काले च दुःसह
॥६२॥ऊर्ध्ववक्त्र नमस्तेस्तु सत्त्वात्मक धरात्मक ॥
ज्वलज्ज्वालोत्पन्नजल जलजेश जलेचर
॥६३॥जलजोत्फुल्लपत्राक्ष जलदेव हुताशन ॥
कृष्णकांते कृष्णमार्ग स्वर्गमार्गप्रदायक
॥६४॥यज्ञाहुतिसमाचार यज्ञरूप नमोनमः ॥
स्वर्णगर्भ शमीगर्भ जय देव सनातन
॥६५॥तमोहार महाहार स्वाप्रिय तमोहर ॥
प्रदीप्तरोचिर्देवेश चित्रभानो नमोस्तु ते
॥६६॥वैश्वानरानलोदग्र ऊर्ध्वपावक सर्वग?? विभावसो महाभाग कृष्णवर्त्मन्नमोनमः
॥६७॥सनत्कुमार उवाच
एवं स्तुतस्तदा सोग्निर्विरंचिमब्रवीद्वचः ॥
तुष्टोऽहं भवतो ब्रह्मन्भावकर्म प्रसिध्यति
॥६८॥एवमुक्तस्तदा ब्रह्मा नमस्कृत्याब्रवीत्पुनः ॥
ज्ञातुमिच्छाम्यहं देव को हि त्वं भगवानिति
॥६९॥अब्रवीत्सोऽथ ब्रह्माणं पुरुष स्त्वं प्रजापतिः ॥
अज्ञेयं परमं रूपं तेन योग्येन पश्य मे
॥७०॥अथापश्यत्स दिव्येन भगवंतं सनातनम् ॥
सर्वज्ञं विधिकर्तारमीश्वरं सदसत्प रम्
॥७१॥ज्वलनं गगनं भूमिं दृश्यादृश्यं परं पदम् ॥
भूतं भव्यं भविष्यं च जगत्स्थावरजंगमम् ॥
सदैव कुरुते देवो भुंक्ते सर्वं यतः प्रभुः
॥७२॥अतिसंभूतिभव्येन स्तोत्रेणाथ प्रजापतिः ॥
तुष्टाव देवं प्रकृतं पुराणमजमव्ययम्
॥७३॥ततोऽतिरक्तवर्णं च दृष्ट्वा देवः प्रजापतिः ॥
विश्वतोबाहुचरणं विश्वतोऽग्निशिरोमुखम्
॥७४॥व्यक्ताव्यक्तप्रणेतारं प्रणमञ्छिरसा स्वयम् ॥
पश्यतेऽथ नमस्तेऽस्तु तुभ्यं विश्वभवात्मने
॥७५॥पृथिवी वायुराकाशं यच्चान्यद्भुवनत्रयम् ॥
लोकालोकेश्वरं चैव जगत्स्थावरजंगमम्
॥७६॥तत्त्वसर्गं भूतसर्गं भावसर्गं तथैव च ॥
ब्रह्मतेजोमयात्मानं संपश्यंश्चक्षुषा स्वतः
॥७७॥यत्किंचिद्वस्तुजातं हि तत्सर्वमचरं चरम् ॥
एवं स्तुतः स तु तदा अनादिर्भगवान्प्रभुः
॥७८॥अथेशः प्राह ब्रह्माणं त्वया दृष्टं यथातथम् ॥
सृजेदानीं प्रजाः सर्वाः स च त्वं विनयान्वितः
॥७९॥कर्ताहमनुकर्ता त्वं लोकानां स्थितिकारणे ॥
कुरुष्वैतत्तथा भाव्यं मया पूर्वं विनिर्मितम्
॥८०॥इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत् ॥
नमस्तेऽस्तु महादेव भव शर्व नमोऽस्तु ते
॥८१॥त्वत्प्रसादात्प्रजासर्गं कुर्वतो मे महेश्वर ॥
सखायं प्राप्तुमिच्छामि त्वया दत्तं जगत्पते
॥८२॥महे३वर उवाच
ध्यायतः पुत्रकामस्य स्रष्टु कामस्य ते यतः ॥
कल्पितं भविता देव मदुत्पत्तिं यदीप्स्यसि
॥८३॥पुत्रत्वं प्राप्य हीशस्ते छेत्स्यामि पंचमं शिरः ॥
तत्र चोत्पादयिष्यामि नरनारायणावुभौ
॥८४॥ब्रह्मोवाच
कथं नारायणो देवस्तपसा मन्यते स नः ॥
कीर्तयस्व सखा धन्यः स नः पूज्यो भविष्यति
॥८५॥अथापश्यत्ततो ब्रह्मा तेजसा हरिमच्युतम् ॥
तं सर्वगमनं गम्यं शिवं नारायणात्मकम्
॥८६॥महेश्वरस्य तेजोर्ध्वं संतं नारायणं प्रभुम् ॥
चकार व्याहरन्नार्तं श्रीरूपं शक्तिसाम्यतः
॥८७॥अंगुल्या संस्पृशन्देवो ब्रह्माणमब्रवीद्वचः ॥
ब्रह्मंस्ते परमं धाम ऋषिर्नारायणानुगः
॥८८॥भविता लोकरक्षार्थं श्रेष्ठः सर्वधनुष्मताम् ॥
नारायण महावीर्य शक्तिरेषा मदीयिका
॥८९॥इत्युक्त्वा भगवान्देवस्तमग्निं पाणिनाऽ ग्रहीत् ॥
दक्षहस्तांगुलिनखमध्यस्थं समचीकरत्
॥९०॥इति सत्कृत्य सततं नरं चैव महेश्वरः ॥
ब्रह्मणो दर्शयित्वाथ तत्रैवांतरधीयत
॥९१॥अथाब्रवीत्ततो ब्रह्मा अग्निं तं तु युगक्षये ॥
स्पृशन्दक्षिणवामाभ्यां सांत्वयन्निव तं गिरा
॥९२॥भृगुश्चैवांगिराः पुत्रौ भवितारौ न संशयः ॥
अत्रैव मम भवतां वंशे विख्यातकर्मणौ
॥९३॥द्विधा संभज्य तेनाग्निं सृष्टेर्यज्ञो भविष्यति ॥
भवंतौ तिष्ठतस्तत्र पृथिव्यां दानमाश्रितौ
॥९४॥ब्रह्मणाऽग्नी समेतौ तु ब्रह्माणमनुनोदितौ ॥
तस्मादेवं विधातव्यौ निर्मथ्य विधिपूर्वकम्
॥९५॥अतोऽश्वत्थे शमीगर्भे संयोगस्तत्र पठ्यते ॥
भार्गवांगिरसश्चैव द्विविधो दैव उच्यते
॥९६॥तस्मात्सुतहितः श्रेष्ठश्चतुर्थ इति कथ्यते ॥
एवं व्यास समुत्पन्नो नरोऽसौ पूर्वजन्मनि
॥९७॥एवं तु ब्रह्मणो वक्त्रं पञ्चमं समपद्यत
॥९८॥एतद्यो बुध्यते देव तेजःसर्गमनुत्तमम् ॥
ब्रह्मणो याति सालोक्यं शांतो दांतो जितेन्द्रियः
॥९९॥एतद्योग्निसमुद्भवं पशुपतेर्माहात्म्यसंसूचकं वह्नेः साधुमतिः शृणोति सततं यः श्रद्धया भावितम्।
यो व्यास द्विजदेवताप्रमुखतः संश्रावयेद्भक्तितः सोऽत्यर्थं भवभावितः शिवपुरे संपूज्यते दैवतैः
॥१००॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये वैश्वानरोत्पत्ति वर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥