रुद्रसरोमाहात्म्यवर्णनम्
श्रीसनत्कुमार उवाच
यमेश्वरं तु यः पश्येत्स्नापयित्वा तिलांभसा ॥
कुंकुमेन समालिप्य पूजयेदुत्पलैस्ततः
॥१॥दहेत्कृष्णागरुं धूपं दापयेत्तिलतण्डुलान् ॥
य एवमर्चयेद्देवमीश्वरं शूलहस्तकम्
॥२॥यत्र कुत्र मृतस्यापि यमः पितृसमो भवेत्
॥३॥इति यमेश्वरमाहात्म्यम् ॥
सनत्कुमार उवाच ॥
कथयामि परं व्यास तीर्थं तीर्थेषु चोत्तमम् ॥
नाम्ना रुद्रसरः प्रोक्तं त्रिषु लोकेषु विश्रुतम्
॥४॥तत्र स्नात्वा शुचिर्भूत्वा पश्येत्कोटेश्वरं शिवम् ॥
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति
॥५॥श्राद्धं तत्रैव कृत्वा तु शृणु यत्फलमाप्नुयात् ॥
दशानामश्वमेधानां वाजपेयशतस्य च
॥६॥फलं कोटिगुणं व्यास लभते नात्र संशयः ॥
पितॄनुद्दिश्य यत्किंचित्कोटितीर्थे प्रदीयते
॥७॥तत्सर्वं कोटिगुणितं जायते नात्र संशयः ॥
कोटितीर्थे नरः स्नात्वा ध्यायेद्यः परमाक्षरम्
॥८॥मुच्यते सर्वपापेभ्यो निर्मोकेन यथोरगः ॥
प्रातरुत्थाय यो विप्र तत्र स्नानं करोति वै
॥९॥दृष्ट्वा देवं महाकालं गोसहस्रफलं लभेत् ॥
कोटितीर्थे नरः स्नात्वा सप्तरात्रोषितः शुचिः
॥१०॥चांद्रायणसहस्रस्य फलं प्राप्नोति मानवः ॥
जागरं तत्र कुर्याद्यो ह्यनंतफलमश्नुते
॥११॥गन्धपुष्पार्चनं कृत्वा महास्नपनपूर्वकम् ॥
य एवं नयते रात्रिं सोपवासो जितेंद्रियः
॥१२॥लभते सर्वकामित्वं यत्सुरैरपि दुर्लभम् ॥
कार्तिक्यामथ वैशाख्यां देवं तत्र प्रपूजयेत्
॥१३॥गंधपुष्पैश्च कालीनैस्तथा वस्त्रैः सुशोभनैः ॥
कर्पूरं कुंकुमं चैव श्रीखण्डमगरुं तथा
॥१४॥समभागानि कृत्वा तु शिलापृष्ठे च पेषयेत् ॥
अनुलिप्य महाकालं रुद्रस्यानुचरो भवेत्
॥१५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये रुद्रसरोमाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥