मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ५६

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 56

क्षातासंगममाहात्म्यवर्णनम्

सनत्कुमार उवाच

तीर्थमन्यतरं व्यास क्षातासंगमसंभवम् ॥

यत्र तु स्नानमात्रेण महापापैः प्रमुच्यते

॥१॥

अमा वै शनिवारेण यदायाति समाहितः ॥

पितॄनुद्दिश्य यः कुर्याच्छ्राद्धं चैव तिलोदकम्

॥२॥

पश्येच्छनैश्चरं देवं स्थावरं लिंगमुत्तमम् ॥

तस्य शानैश्चरी पीडा न भवेत्तु कदाचन

॥३॥

व्यास उवाच

महातीर्थं समाख्यातं महाकालवने शुभे ॥

भूयस्तु श्रोतुमिच्छामि विस्तरेण तपोधन

॥४॥

सनत्कुमार उवाच

श्रूयतां भो द्विजश्रेष्ठ कथा पौराणिकी शुभा ॥

यस्याः श्रवणमात्रेण महापापक्षयो भवेत्

॥५॥

रेवा चर्मण्वती क्षाता तिस्रो नद्यः पुराऽनघ ॥

जातास्त्रैलोक्यपावन्यो भुवि चामरकंटकात्

॥६॥

पुण्याः पुण्यजला रम्याः पवित्राः पापहारकाः ॥

पुनंत्यः सर्वलोकानां स्नानात्पानात्तथापगाः

॥७॥

एकदोपवने रम्ये मांधातृक्षेत्र उत्तमे ॥

मिथो रमंति संहृष्टाः परस्परजिगीषया

॥८॥

किंचिद्दोषप्रसंगेन मिथो भेदो ह्यजायत ॥

रेवासंगं परित्यक्ता भित्त्वा विंध्यगिरिं वरम्

॥९॥

महाकालवने रम्ये समा याता सरिद्वरा ॥

यत्र शिप्रा महापुण्या पुरी ह्येषाऽमरावती

॥१०॥

सर्वतीर्थवरं श्रेष्ठं नामा रुद्रसरः स्मृतम् ॥

भुक्तिमुक्तिप्रदं नित्यं सिद्धर्षिगण सेवितम्

॥११॥

तत्रागत्य पुरा क्षाता शिप्रासंगं समाश्रिता ॥

तत्र तीर्थं परं जातं क्षातासंगमसंज्ञितम् ॥

यत्र धूतरजा जातः सद्यः प्रोक्तो विभावसुः

॥१२॥

व्यास उवाच

कथं सूर्यस्त्वया प्रोक्तो विरजो ह्यभवत्पुरा ॥

एतद्वेदितुमिच्छामि त्वत्तो ब्रह्मविदांवर

॥१३॥

सनत्कुमार उवाच

पुरानुसूर्यां सावित्रीं त्वष्टा स्वतनयां ददौ

॥१४॥

पतिधर्मरता नित्यं सिषेवे लोकचक्षुषे ॥

तस्यां वै मिथुनं जज्ञे लोकसाक्षिविभावसोः

॥१५॥

यमो वैवस्वतो जातो यमुना लोकपावनी ॥

ततस्त्वष्टाऽब्रवीच्छायां स्वकीयां सूनृतां गिरम्

॥१६॥

मिथुनं मे तवोत्संगे धृतं त्वं परिपालय ॥

तावदेवमिह च्छाये यावत्पितुर्गृहेचरी

॥१७॥

रविभक्तिरता नित्यं चर त्वं मम वेश्मनि ॥

नो वाच्याहं कदा च्छाये पितुर्वेश्मगता रवेः

॥१८॥

एवं सा समयं कृत्वा सावित्री ह्यगमत्तदा ॥

पितुर्वेश्मगता बाला सवितुर्भयविह्वला

॥१९॥

पित्र निवारिता सद्यो वडवारूपधारिणी ॥

विचचार वने रम्ये बहुलोदकशाड्वले

॥२०॥

एकदा याचिता तेन वैवस्वतेन बुभुक्षता ॥

नोदनं वै तया दत्तं याचमानाय तत्क्षणात्

॥२१॥

तदा पदाहता तेन च्छाया तं च शशाप ह ॥

यतस्त्वं मे पदाघातं कृतवान्बालभावनात्

॥२२॥

तस्मात्त्वं च पदा खंजो भविष्यसि न संशयः ॥

एवं शप्तो रुजाक्रांतो विललाप शुचार्दितः

॥२३॥

एतस्मिन्नंतरे व्यास परिभूय वसुंधराम् ॥

भावयन्सकलाँल्लोकान्ग्रहचारी विभावसुः

॥२४॥

दृष्ट्वा च तनयं पंगुमित्युवाच विभावसुः ॥

किमिदं वत्स ते कष्टं कुतः प्राप्तं त्वयाऽनघ

॥२५॥

इति पृष्टो यदा तेन सवित्रा लोकभास्वता ॥

उवाच गद्गदा वाचं यमः संयमिनीपतिः

॥२६॥

प्रातराशाय मे नाथ याचितं मातुरंतिकात् ॥

नो दत्तं भोजनं क्षिप्रं बालभावेन ताडिता

॥२७॥

पादौ मे गलितौ सद्यो मातुः शापपराभवौ ॥

तच्छ्रुत्वा मोहमापन्नो रविर्ध्यानपरायणः

॥२८॥

विचित्रमिदमाख्यातं मातुः शापस्य कारणम् ॥

एवं ध्यात्वा चिरं कालं ज्ञातवान्रविरंशुमान्

॥२९॥

नेयं सा रुचिरापांगी त्वाष्ट्री लोकस्य पावनी ॥

केयं वा कुत आयाता कासि त्वं च शुचिस्मिते

॥३०॥

छायोवाच

नानुसूर्या महाराज छाया तस्याः स्वसंभवा ॥

गता वै सा पितुर्गेहे वारिताहं तयाऽनघ

॥३१॥

सवित्रे नैव वक्तव्यं छाये किंचित्कथंचन ॥

एष मे समयो नाथ तेनाहं मौनमास्थिता

॥३२॥

तच्छ्रुत्वा भगवांस्त्वष्टुः समीपं रोषमास्थितः ॥

जगाम सहसा भानुर्बहुरोषसमन्वितः

॥३३॥

तं दृष्ट्वा सहसोत्थाय त्वष्टा लोकपितामहः ॥

पाद्यार्घ्याचमनीयं च मधुपर्कैरपूजयत्

॥३४॥

नत्वा पादौ परिक्रम्य बहुमानपुरः सरम् ॥

उवाच मधुरया वाचा प्रियं ते करवाम किम्

॥३५॥

रविरुवाच

क्व सानुसूर्या सावित्री ममानुप्रियकारिणी ॥

आगता ते गृहं तात मम मार्गानुमोदिनी

॥३६॥

त्वष्टोवाच

न जानीमो वयं तात प्रिया मे क्व गता सुता ॥

इत्युक्ते वचने त्वष्ट्रा रविर्दुश्चिंतमानसः

॥३७॥

किं करोमि क्व गच्छामि क्व च प्रियतरा मम ॥

इति संभाषमाणे तु त्वष्टा वाक्यमथाब्रवीत्

॥३८॥

तव तेजः परिभ्रष्टा भग्ना क्वापि गताबला ॥

यदि ते वल्लभा भार्या तेजस्त्वं परिशामय

॥३९॥

सूर्य उवाच

यद्येवं दुस्सहं तेजो मम पूर्वपितामह ॥

तदा ते रोचते सम्यग्यथा स्याद्वै तथा कुरु

॥४०॥

इति सूर्यवचः श्रुत्वा शाणं कृत्वा सुदर्शनम् ॥

घृष्टितः क्षुरधारेण लघीयान्निर्मलोऽभवत्

॥४१॥

तस्य घृष्टितमात्रेण त्वष्टा चक्रे विवस्वतः ॥

शाणं सुदर्शनं चक्रं सैकता मणिजातयः

॥४२॥

तदा त्वष्टाऽब्रवीद्वाक्यं मधुरं सूर्यसंनिधौ ॥

महाकाल वने रम्ये वडवारूपगीरणी

॥४३॥

गृह्यतां भोः सुरश्रेष्ठ शीघ्रं गच्छतु शाड्वले ॥

यत्र शिप्रा सरिच्छ्रेष्ठा यत्र क्षाता समागता

॥४४॥

उभयोः संगमो यत्र तत्र मुक्तिर्न संशयः ॥

तत्र तां सुभगां पत्नीं प्राप्स्यसि त्वं न संशयः

॥४५॥

इति तस्य वचः श्रुत्वा सविता सर्वतापनः ॥

तत्रागमद्वनं यत्र महाकालस्य पावनम्

॥४६॥

क्षातासंगमसंयुक्ता यत्र शिप्रा पयस्विनी ॥

तत्र भुक्तिश्च मुक्तिश्च धनधान्यसमागमः

॥४७॥

तत्रागत्य प्रियां भार्यां वडवारूपधारिणीम् ॥

ददर्श तां पुनः श्यामां हरिरूपधरो हरिः

॥४८॥

नासिकाघ्राणमात्रेण यत्र जातौ सुतावुभौ ॥

दर्शनीयौ सुनृम्णांगौ भिषजौ तौ दिवौकसाम्

॥४९॥

छाया च सुषुवे तत्र मिथुनं द्विजसत्तम ॥

तापीं शनैश्चरं चैव सर्वलोकप्रतापनम्

॥५०॥

शनि योगे यदामा वै जायते सर्वकामदा ॥

तदा स्नानं च दानं च श्राद्धं चैव तु कारयेत्

॥५१॥

तस्य हस्तगता लक्ष्मीर्जायते सर्वदा भुवि ॥

क्षाता संगमे नरः स्नात्वा दानं दत्त्वा च शक्तितः

॥५२॥

स्थावरेशं समभ्यर्च्य तस्य पापक्षयो भवेत् ॥

सौरिः शनैश्चरो मंदः कृष्णोऽनंतोंऽतको यमः

॥५३॥

पिंगश्छायासुतो बभ्रुः स्थावरः पिप्पलायनः ॥

एतानि शनिनामानि प्रातःकाले पठेन्नरः

॥५४॥

तस्य शानैश्चरी पीडा न भवेत्तु कदाचन ॥

यमधर्मोऽपि चात्रैव तपस्तेपे सुदुस्तरम्

॥५५॥

यज्ञकुण्डोत्तरे भागे यत्र तिष्ठति मारुतिः ॥

धर्मसरेति विख्यातं नाम्ना तत्तीर्थमुत्तमम्

॥५६॥

यत्र सिद्धिं परां प्राप्तस्तपसा पवनात्मजः ॥

तस्मिंस्तीर्थे नरः स्नात्वा दत्त्वा वै कांस्यभाजनम्

॥५७॥

सवासो मणिमु क्ताभिः कांचनालंकृतं वरम् ॥

ब्राह्मणेभ्यः स्वलंकृत्य वेदविद्भ्यश्च सादरम्

॥५८॥

मातृलोकं समुत्तीर्णो ब्रह्मलोके महीयते ॥

श्रावणे मास्युभे पक्षे एकादश्यां तु यो नरः

॥५९॥

धर्मतीर्थे सदाचारी स्नानदानादिकाः क्रियाः ॥

करोति सततं तस्य विष्णुलोकः सनातनः

॥६०॥

च्यवनाश्रमे नरः स्नात्वा च्यवनेश्वरं विलोकयेत् ॥

यत्र सिद्धिं गतौ पुण्यावश्विनौ भिषजां वरौ

॥६१॥

च्यवनस्य प्रसादेन देवपंक्तिमवापतुः ॥

च्यवनेन पुरा दृष्टिः प्राप्ता वै देवभेषजात्

॥६२॥

तस्मिंस्तीर्थे द्विजश्रेष्ठ दिव्यदृष्टिर्भवेन्नरः ॥

अत्रैव प्राप्तवान्सूर्यः साग्निहोत्राश्रमं परम्

॥६३॥

अनु सूर्यां महाभागां सावित्रीं लोकविश्रुताम् ॥

सूर्यलोकं समासाद्य बुभुजे विपुलां श्रियम्

॥६४॥

तस्माद्व्यास परं तीर्थं क्षातासंगमसंज्ञितम् ॥

सर्वपापहरं पुण्यं सर्वकामवरप्रदम्

॥६५॥

य एतां तु कथां पुण्यां शृणोति भुवि भक्तितः ॥

पठेद्वा प्रातरुत्थाय तस्य पुण्यफलं शृणु

॥६६॥

कपिलागोसहस्रेण फलं भवति पर्वणि ॥

तत्फलं समवाप्नोति नात्र कार्या विचारणा

॥६७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसा हस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये क्षातासंगममाहात्म्यवर्णनंनाम षट्पंचाशत्तमोऽध्यायः ॥ ५६ ॥