मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय २१

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 21

अथान्यत्संप्रवक्ष्यामि देवं त्रिदशपूजितम्

सनत्कुमार उवाच

अथान्यत्संप्रवक्ष्यामि देवं त्रिदशपूजितम् ॥

हनुमत्केश्वरंनाम भुक्तिमुक्तिफलप्रदम्

॥१॥

शैवे सरसि यः स्नात्वा पश्येद्धनुमत्केश्वरम् ॥

कल्पकोटिसहस्राणि वायुलोके स मोदते

॥२॥

व्यास उवाच

हनुमत्केश्वरो यस्तु ह्युक्तः पूर्वं त्वयाऽनघ ॥

कथां कथय ह्येतस्य वृत्तपूर्वां सनातनीम्

॥३॥

सनत्कुमार उवाच

त्रैलोक्यकण्टकः पूर्वं रावणो नाम राक्षसः ॥

विष्णुना रामरूपेण लंकायां विनिपातितः

॥४॥

घातयित्वा तु तं दुष्टं सीतामादाय जानकीम् ॥

वानरैः सह ऋक्षैश्च नगरीं स्वामुपागतः

॥५॥

तत्र राज्यमनुप्राप्य ऋषिभिः परिवारितः ॥

कथावसाने रामेण ह्यगस्त्यो मुनिसत्तमः

॥६॥

पप्रच्छ च द्वयोर्वीर्यं शंभुवातजयोस्तदा ॥

तदा दाशरथिं प्राह अग स्तिर्मुनिसत्तमः

॥७॥

अनौपम्यो यथा देवो युद्धे शौर्यं? महेश्वरः ॥

ज्ञेयो वायुसुतस्तद्वत्सत्यमेतद्ब्रवीमि ते

॥८॥

एतच्छुत्वाथ हनुमान्यद्धरेणो पमा मम ॥

कृता मुनिवरेणेह प्रत्यक्षं राघवस्य ह

॥९॥

गमिष्ये नगरीं लंकां लिंगमेकं प्रयाचितुम् ॥

राक्षसेन्द्रं महाभागं विभीषणमकल्म षम्

॥१०॥

ततो गतः स लंकायां विभीषणमुवाच ह ॥

देहि मे त्वं महाभाग लिंगमेकं च शोभनम्

॥११॥

उक्तं च राक्षसेन्द्रेण गृहाणैतद्यथा रुचि ॥

एतानि षट् च लिंगानि रावणस्थापितानि वै

॥१२॥

त्रैलोक्यविजयात्पूर्वं मम भ्रात्रा महात्मना ॥

एतेषु यदभीष्टं ते लिंगं कथय सुव्रत ॥

तत्प्रयच्छामि तेऽद्यैव सत्यमेतत्प्लवंगम

॥१३॥

ततो जग्राह हनुमाँल्लिंगं मौक्तिकसंनिभम् ॥

यदेतद्दृश्यते वीर तत्प्रयच्छ ममानघ

॥१४॥

श्रुत्वा हनुमतो वाक्यमथोवाच विभीषणः ॥

दत्तमेतन्महावीर लिंगं यद्धृतवानसि

॥१५॥

श्रूयते हि पुरावृत्तं लिंगमेतद्धनेश्वरः ॥

रुद्र भक्त्या समायुक्तस्त्रिकालमप्यपूजयत्

॥१६॥

रावणेन यदा बद्धस्तदानीं हि धनेश्वरः ॥

लिंगस्यास्य प्रभावेन विमुक्तः समपद्यत

॥१७॥

प्रसादात्तस्य लिंगस्य धनेशो धनरक्षकः ॥

गृहीत्वा तन्महालिंगं स्वस्थो जातोऽथ वानरः

॥१८॥

सनत्कुमार उवाच

गृहीत्वा तु ततो लिंगं प्रस्थितो विमलेंऽबरे ॥

सप्तमे दिवसे चैव संप्राप्तोऽवंतिकां पुरीम्

॥१९॥

तत्र रुद्रसरस्तीरे स्थाप्य स्नानमथाकरोत् ॥

महाकालस्य पूजार्थं गमनं प्रत्यचिंतयत्

॥२०॥

उद्धर्तुकामस्तल्लिगमुद्धर्तुं न शशाक सः

॥२१॥

ततो व्यवस्थितो देवः प्राह तं वायुनन्दनम् ॥

अस्मिन्क्षेत्रे हनूमन्मां त्वन्नाम्नैव प्रतिष्ठापय

॥२२॥

हनुमत्केश्वरं चाथ लोके ख्यातं भविष्यति ॥

शैलवच्चोन्नतं लिंगं स्थापितं वायुसूनुना

॥२३॥

शनौ पश्येन्नरो यस्तु हनुमत्केश्वरं शिवम् ॥

तस्य शत्रुभयं नास्ति संग्रामे जयमाप्नुयात्

॥२४॥

न च चौरभयं तस्य न दारिद्र्यं न दुर्गतिः ॥

तैलाभिषेकं यः कुर्याद्धनुमत्केश्वरे शिवे

॥२५॥

तस्य रोगाः प्रलीयन्ते ग्रहपीडा न जायते ॥

ये द्रक्ष्यंति नराः भक्त्या तेषां मोक्षो भविष्यति

॥२६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये हनुमत्केश्वरमाहात्म्यवर्णनंनामै कविंशोऽध्यायः ॥ २१ ॥