नीलगन्धवतीप्रभाववर्णनम्
सनत्कुमार उवाच
अथान्यत्सं प्रवक्ष्यामि तीर्थानां तीर्थमुत्तमम् ॥
स्थापितं परमं तीर्थं स्वनाम्ना मुनिसत्तम
॥१॥एकदा समये व्यास कपालक्षालनाय वै ॥
शीर्षोदकं गृहीत्वा तु कपालेन महेश्वरः
॥२॥प्रक्षाल्य चाक्षिपद्भूमौ तत्र तीर्थमनुत्तमम् ॥
नाम्ना गन्धवती पुण्या नदी त्रैलोक्यविश्रुता
॥३॥ब्रह्मणो रुधिरेणाशु परि पूर्णाभवत्क्षणात् ॥
तस्यां स्नानं सदा शस्तं स्वयं देवेन भाषितम्
॥४॥श्राद्धं च तर्पणं कृत्वा तत्सर्वं चाक्षयं भवेत् ॥
वायुभूतास्तु पितरस्तस्यास्ती रे तु दक्षिणे
॥५॥तिष्ठंति मुनिशार्दूल चिंतयंति स्वगोत्रजम् ॥
आगमिष्यति पुत्रोऽद्य नप्ता वा संतताविह
॥६॥संयावं पायसं वापि श्यामाकं सनिवारकम् ॥
सकृत्क्षौद्रतिलैर्युक्तं पिण्डं दास्यति वै कदा
॥७॥तेन पिंडप्रदानेन तृप्तिर्भवति चाक्षया ॥
यस्तु स्नात्वा च वै पिंडं दद्याद्वै चंद्रं पर्वणि
॥६॥पितरौ द्वादशाब्दानि तृप्तिं यास्यंति तस्य वै ॥
येऽत्रागत्य सुविद्वांसो मानवा वा तथा द्विजाः
॥९॥पितॄन्संतर्पयिष्यंति स्वर्गस्तेषां सदाऽक्षयः ॥
तत्र यद्दीयते दानं त्रुटिमात्रं तु कांचनम्
॥१०॥अक्षयं तस्य तत्प्रोक्तं ब्रह्मणा वै स्वयंभुवा ॥
गंगाद्वारे प्रयागे च कुरुक्षेत्रेऽथ पुष्करे
॥११॥वाराणस्यां गयायां च सा न तृप्तिर्भविष्यति ॥
तुष्टाश्च पितरो नृणां दास्यंति कांक्षितान्वरान्
॥१२॥यो यमुद्दिश्य वैकाममिह श्राद्धं करिष्यति ॥
तस्य तज्जायते सर्वं मृतस्य परमा गतिः
॥१३॥नवमी अष्टमी चैव अमावास्याथ पूर्णिमा ॥
सर्वाण्येतानि वै व्यास रवेः संक्रम एव च
॥१४॥ब्रह्मेंद्र रुद्रदेवांश्च सूर्याग्निब्रह्मदैवतान् ॥
विश्वेदेवान्सगन्धर्वान्यक्षाश्च मनुजान्पशून्
॥१५॥सरीसृपान्पितृगणान्यच्चान्यद्भुवि संस्थितम् ॥
श्राद्धं वै श्रद्धया कुर्वन्प्रीणयत्यखिलं जगत्
॥१६॥मासिमास्यसिते पक्षे पंचदश्यां द्विजोत्तम ॥
इन्दुक्षये यदा मैत्रं विशाखां चैव रोहिणीम्
॥१७॥श्राद्धे पितृगणास्तृप्तिं प्रयांति पितरोऽर्जिताम् ॥
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छता
॥१८॥भक्त्या श्राद्धं प्रकर्तव्यं पित रस्तेन तर्पिताः ॥
अपि धन्याः कुले जाता अस्माकं मतिशालिनः
॥१९॥ये कुर्वंति च वै श्राद्धं पिंडान्ये निर्वपंति च ॥
तेन पिंडप्रदानेन तृप्तिर्नो भविताऽक्षया
॥२०॥इहैत्य वै पुण्यजलेषु सम्यक्स्नात्वा नरस्तांस्तु लभेत कामान् ॥
यान्प्राप्य च प्रेतगणैः समेतः स मोदते देववृ तोऽथ सिद्धः
॥२१॥चित्तं च वित्तं च नृणां च शुद्धं शस्तश्च कालः कथितो विधिश्च ॥
पात्रं यथोक्तं परमा च भक्तिर्नृणां प्रयच्छंति हि वांछितानि
॥२२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नीलगन्धवतीप्रभाववर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥