महाकालवनवासविधिवर्णनम्
व्यास उवाच
भगवन्केन विधिना महाकालवने नरैः ॥
रुद्रलोकमभीप्सद्भिर्वस्तव्यं क्षेत्रवासिभिः
॥१॥किं मनुष्यैरुत स्त्रीभिः सिद्ध्यर्थं ह्याश्रमान्वितैः ॥
वसद्भिः किमनुष्ठेयमेतत्सर्वं ब्रवीहि नः
॥२॥नरैः स्त्रीभिश्च वस्तव्यं वर्णैश्चाश्रमवासिभिः ॥
स्वधर्माचारनिरतैर्दंभमोहविवर्जितैः
॥३॥कर्मणा मनसा वाचा रुद्रभक्तैर्यतेन्द्रियैः ॥
अनुश्रुतिभिरक्षुद्रैः सर्वभूत हिते रतैः ॥
किं कुर्वाणैर्नरैः कर्म रुद्रभक्तिं ब्रवीहि नः
॥४॥सनत्कुमार उवाच
त्रिविधा कथिता ह्यत्र मनोवाक्कायसंभवा ॥
लौकिकी वैदिकी चान्या भवेदाध्यात्मिकी तथा
॥५॥ध्यानधारणया बुद्ध्या रुद्राणां स्मरणं हि तत् ॥
रुद्रभक्तिकरी चैषा मानसी भक्तिरु च्यते
॥६॥व्रतोपवासनियमैर्यतेद्रियनिरोधिभिः ॥
कायिका भक्ती रुद्रस्य ज्ञानध्यानस्य धर्मिणाम्
॥७॥गोघृतक्षीरदधिभिर्गंधरक्तकुशो दकैः ॥
गन्धमाल्यैश्च विविधैर्धातुभिश्चोपपादिता
॥८॥घृतगुग्गुलधूपैश्च कृष्णागरुसुगंधिभिः ॥
भूषणैर्हेमरत्नानां चित्राभिः स्रग्भिरेव च
॥९॥वासप्रविसरास्तोत्रैः पताकाव्यजनोच्छ्रितैः ॥
नृत्यवादित्रगीतैश्च सर्वप्रत्युपहारकैः
॥१०॥भक्ष्यभोज्यानुपानैश्च यावत्पूजाक्षतैर्नरैः ॥
महेश्वरं पुरस्कृत्य भक्तिः सा लौकिकी मता
॥११॥वेदमन्त्रहविर्यागैर्या क्रिया वैदिकी मता
॥१२॥दर्शे च पूर्णमास्यां वा कर्तव्यं चाग्निहोत्रकम् ॥
प्राशनं दक्षिणादानं पुरोडाशश्च सत्क्रिया
॥१३॥इष्टवृत्तिः सोमपानं याज्ञिकं सर्वकर्म च ॥
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च
॥१४॥क्रियते रुद्रमुद्दिश्य सा भक्तिर्वैदिकी स्मृता ॥
अग्निभूम्यनिलाकाशनिशाकरदिवाकरान्
॥१५॥समुद्दिश्य कृतं कर्म तत्सर्वं दैविकं भवेत् ॥
आध्यात्मिकी तु द्विविधा रुद्रभक्तिः स्थिता मुने
॥१६॥सांख्याख्या यौगिकी चान्या विभागं तत्र मे शृणु ॥
चतुर्विंशतितत्त्वानि प्रधानादीनि संख्यया
॥१७॥अचेतनानि योज्यानि पुरुषः पञ्चविंशकः ॥
चेतनः पुरुषो भोक्ता न कार्यं तस्य कर्मणः
॥१८॥रुद्रः षड्विंशकः कर्ता सर्वज्ञश्चेतनः प्रभुः ॥
अजन्मा नित्यमव्यक्तमधिष्ठाता प्रयोजकः
॥१९॥पुरुषो नित्यव्यक्तः स्यात्कारणं च महेश्वरः ॥
तत्त्वसर्गं भवेत्सर्गं भूतसर्गं च तत्त्वतः
॥२०॥संख्यया परिसर्गाय प्रधानं च गुणात्मकम् ॥
साधर्म्यमात्मनैश्वर्यं प्रधानं वै विधर्मि च
॥२१॥कारणं तच्च रुद्रस्य काम्य त्वमिदमुच्यते ॥
सर्वत्र कर्तृता रुद्रे पुरुषे चाप्यकर्तृता
॥२२॥अचैतन्यं प्रधाने च तच्च तत्त्वमिदं स्मृतम् ॥
तत्त्वांतरेण मुच्यंते कार्यं कारणमेव च
॥२३॥प्रयोजने च वैजात्यं ज्ञात्वा तत्त्वमसंख्यया ॥
संख्यास्तीत्युच्यते प्राज्ञै रुद्रतत्त्वार्थचिंतकैः
॥२४॥इति तस्य तत्त्वभावं तत्त्वसंख्या च तत्त्वतः ॥
रुद्रतत्त्वाधिकं चापि ज्ञानतत्त्वं विदुर्बुधाः
॥२५॥सांख्ये कृता भक्तिरेषा सद्भिराध्यात्मिकी मता ॥
योगिनामपि मे भक्त्या शृणु भक्तिं महासुर
॥२६॥प्राणायामपरो नित्यं ध्यायते नियतेंद्रियः ॥
धारणां हृदये धृत्वा ध्यायते यो महेश्वरम्
॥२७॥हृत्कञ्जकर्णिकासीनं पञ्चवक्त्रं त्रिलोचनम् ॥
शशांकज्योतिजठरं व्यालवृत्तकटीतटम्
॥२८॥श्वेतं दशभुजं भद्रं वरदाभयहस्तकम् ॥
योगजा मानसी व्यास रुद्रभक्तिः परा स्मृता
॥२९॥य एव भक्तिमान्रुद्रे रुद्रभक्तः स उच्यते ॥
विधिं तु शृणु मे व्यास यः स्मृतः क्षेत्रवासिनाम्
॥३०॥स्वयं रुद्रेण विहितो ब्रह्मादीनां समागमे ॥
कथितो विस्तरात्पूर्वं सर्वेषां तत्र सन्निधौ
॥३१॥निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः ॥
बंधुवर्गेण निः स्नेहाः समलोष्टाश्मकांचनाः
॥३२॥भूतानां कर्मभिर्नित्यं त्रिविधैरभयप्रदाः ॥
सांख्ययोगविधिज्ञाश्च धर्मज्ञाश्छिन्नसंशयाः
॥३३॥यजंतो विवि धैर्यज्ञैर्ये विप्राः क्षेत्रवासिनः ॥
महाकालवने तेषां मृतानां यत्फलं शृणु
॥३४॥व्रजंत्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमक्षयम् ॥
संप्राप्य न पुन र्जन्म लभंते मोक्षमव्ययम्
॥३५॥पुनरावर्तनं हित्वा विधिं माहेश्वरं स्थिताः ॥
पुनरावृत्तिरन्येषां प्रपंचाश्रमवासिनाम्
॥३६॥गार्हस्थ्यं विधिमासाद्य षट्कर्मनिरताः सदा ॥
जुह्वते विधिना सम्यङ्मंत्रस्तोत्रैर्नियंत्रिताः
॥३७॥अधिकं फलमायांति सर्वदुःखविवर्जिताः ॥
सर्व लोकेषु चान्यत्र गतिस्तस्य न हन्यते
॥३८॥दिव्येनैश्वर्ययोगेन स्वारूढः स्वपरिग्रहः ॥
बहुसूर्यप्रकाशेन विमानेन सुवर्चसा
॥३९॥वृतः स्त्रीणां सहस्रैश्च स्वच्छंदगमनालयः ॥
विचरत्यविचार्यैव सर्वलोकान्दिवौकसाम्
॥४०॥स्पृहणीयतमः पुंसां सर्ववर्णोत्तमो धनी ॥
स्वर्गाच्च्युतः प्रजायेत कुले महति रूपवान्
॥४१॥धर्मज्ञो रुद्रभक्तश्च सर्वविद्यार्थपारगः ॥
तथैव ब्रह्मचर्येण गुरुशुश्रूषणेन च
॥४२॥वेदाध्ययनसंयुक्तो च भैक्षवृत्तिर्जितेंद्रियः ॥
नित्यं सत्यव्रते युक्तः स्वधर्मे च प्रमोदवान्
॥४३॥मृतः काले समृद्धेन सर्वभोगावलंबिना ॥
सूर्येणेव द्वितीयेन विमानेन विचारितः
॥४४॥गुह्यकोनाम रुद्रस्य गणः परमसंमतः ॥
अप्रमेयबलैश्वर्यो देवदानवपूजितः
॥४५॥तेषां च समतां याति तुल्यैश्वर्यसम न्वितः ॥
देवदानवमर्त्येषु स च पूज्यतमो भवेत
॥४६॥वर्षकोटिसहस्राणि वर्षकोटिशतानि च ॥
ऐवमैश्वर्यसंयुक्तो रुद्रलोके महीयते
॥४७॥वसित्वासौ विभूत्या वै यदा च च्यवते नरः ॥
रुद्रलोकाच्च्युतो भूमौ वसते नात्र संशयः
॥४८॥महाकालवने क्षेत्रे ब्रह्मचर्याश्रमे स्थितः ॥
महेश्वरपरो नित्यं वसेद्वाऽथ म्रियेत वा
॥४९॥मृतोऽसौ याति दिव्ये वै विमाने सूर्यवर्चसि ॥
पूर्णचंद्रप्रकाशो वै शशिवत्प्रियदर्शनः
॥५०॥रुद्रलोकं समासाद्य गुह्यकैः सह मोदते ॥
ऐश्वर्यं च महद्भुंक्ते सर्वस्य जगतः प्रभुः
॥५१॥भुक्त्वा युगसहस्राणि रुद्रलोके महीयते ॥
प्रच्युतस्तु पुनस्तस्माद्रुद्रलोकात्क्रमेण तु
॥५२॥नित्यं प्रमुदितस्तत्र भुक्त्वा लोकमनामयम् ॥
द्विजानां साधने नित्यं कुले महति जायते
॥५३॥मानवेषु च धर्मेषु वसेद्भूयांश्च रूपवान् ॥
स्पृहणीयवपुः स्त्रीणां महाभोगपतिर्भवेत्
॥५४॥वानप्रस्थसमाचारो वनौषधिविवर्जितः ॥
शीर्णपर्ण समाहारः फलपुष्पांबुभोजनः
॥५५॥कणाशनोऽश्मकुट्टो वा दंतोलूखलकोऽथ वा ॥
येन केनाप्युपायेन जीर्णवल्कलधारकः
॥५६॥जटी त्रिषवणस्नायी मुक्तकेशः सुदंडवान् ॥
जलशायी पंचतपा वर्षास्वभ्रावकाशकः
॥५७॥कीटकंटकपाषाणभूम्यां तु शयनं तथा ॥
स्थानं वीरासनरतः संविभागी दृढबतः
॥५८॥अरण्यौषधिभोक्ता च सर्वभूताभयप्रदः ॥
नित्यं धर्मपरो मौनी जितक्रोधो जितेंद्रियः
॥५९॥रुद्रभक्तः क्षेत्रवासी महाकालवने मुनिः ॥
सर्वसंगपरित्यागी स्वारामो विगतस्पृहः
॥६०॥यश्चात्र वसते व्यास शृणु तस्य हि या गतिः ॥
तरुणार्कप्रदीप्तेन वेदिकास्तंभशोभिना
॥६१॥रुद्रभक्तो विमानेन याति कामप्रचारिणा ॥
विराजमानो नभसि द्वितीय इव चंद्रमाः
॥६२॥गीतवादित्रशब्देन संवृतोऽप्सरसां गणै ॥
वर्षकोटिशतं साग्रं रुद्रलोके महीयते
॥६३॥रुद्रलोकाच्च्युतश्चापि विष्णुलोके महीयते ॥
विष्णुलोकात्परिभ्रष्टो ब्रह्मलोकं स गच्छति
॥६४॥तस्मादपि च्युतः स्थानाद्द्वीपेषु स हि जायते ॥
स्वर्गषु च तथान्येषु भोगान्भुंक्ते यथेच्छया
॥६५॥भुक्तैश्वर्यो नरस्तेषु मर्त्यामर्त्येषु जायते ॥
राजा वा राजतुल्यो वा जायते धनवान्सुखी ॥
सुरूपः सुभगः कांतः कीर्तिमान्रुद्रभावितः
॥६६॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः ॥
स्वधर्मनिरता व्यास स्वभृत्या चारजीविनः
॥६७॥सर्वात्मना रुद्रभक्ता भूतानुग्रहकारिणः ॥
महाकालवने क्षेत्रे ये वसंति मुमुक्षवः
॥६८॥मृतास्ते रुद्रभवने विमानैर्यांति शोभनैः ॥
अप्सरोगणसंयुक्तैः कामगैः कामरूपिभिः
॥६९॥अथवा संविदग्नौ च शरीरं विजुहोति यः ॥
रुद्रध्यायी महासत्त्वः स रुद्र भवने वसेत्
॥७०॥रुद्रलोकोऽक्षयस्तेषां शाश्वतो गुह्यकैः सह ॥
सर्वलोकोत्तमो रम्यो भवतीष्टार्थसाधकः
॥७१॥ये त्यजंति महाकाले प्राणान नशनैर्नराः ॥
तेषामप्यक्षयो व्यास रुद्रलोको महात्मनाम्
॥७२॥सांख्याः स्तुवंति ते रुद्रं सर्वदुःखविवर्जिताः ॥
सर्वामरयुतं देवं नंदिदेवगणै र्युतम् ॥
अनाशकमृताः शूद्रा महाकालवने नराः
॥७३॥सिंहयुक्तैस्तु ते यांति विमानैरर्कसन्निभैः
॥७४॥नानावर्णसुवर्णाढ्यैर्हृष्टगंधाधिवा सितैः ।
अनौपम्यगुणै रम्यैरप्सरोगीतवादिभिः
॥७५॥पताकाध्वजविन्यस्तैर्नानाघंटानिनादितैः ॥
सुप्रभैर्गुणसंपन्नैर्मयूरवरचारिभिः
॥७६॥रुद्रलोके नरा धीराः सर्वे चानशनैर्मृताः ॥
तत्रोषित्वा चिरं कालं भोगान्भुक्त्वा यथेप्सितान् ॥
धनी विप्रकुले भोगी जायते मर्त्यमागतः
॥७७॥करीषं साधयेद्यस्तु महाकालवने नरः ॥
सर्वभोगविनिर्मुक्तो रुद्रलोकं स गच्छति
॥७८॥रुद्रलोके वसेत्तावद्यावत्कल्पक्षयो भवेत्
॥७९॥तत्र भुक्त्वा महाभोगानिह जातो महीपतिः ॥
पृथिव्याः सकलायाश्च रूपवान्सुभगो भवेत्
॥८०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनवासविधिवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥