आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽनरकेश्वरदीपदानमाहात्म्यवर्णनम्
व्यास उवाच
दीपेऽस्मिन्यत्फलं चास्ति विधिना येन दीयते ॥
तत्सर्वं ब्रूहि मे तात दीपोत्पत्तिं च शोभनाम्
॥१॥सनत्कुमार उवाच
पुरा कृतयुगे व्यास पार्वतीं शंकरोऽग्रतः ॥
अभिप्रयाचितुं यातस्तयापि सोऽभियाचितः
॥२॥पार्वत्युवाच
शरीरे कृष्णता शंभो ममास्ति रूपहारिणी ॥
तस्माद्याचे भृशं शंभो प्रसीद दिव्य लोचन
॥३॥भवेन वर्णिता सा वै अतीव शोभना मम ॥
लोचने पक्ष्ममालायाः शोभसेऽतितरां सदा
॥४॥सिताब्जसंस्थितो भृंगो यथा शोभयते च तम् ॥
तया तथा याचितोसौ धूर्जटिर्वृषभासनः
॥५॥विरूपरूपकर्तासि न शृणोषि वचो यदा ॥
तदा त्वहं सवै राग्या चरेयं दुष्करं तपः
॥६॥भवस्तयेति चोक्तस्तु तस्या वै पाणिमग्रहीत् ॥
कदाचिच्छंकरो देवो रतिं याचितवान्प्रियाम्
॥७॥रतिं दत्तवती सा तु जहास नाम कीर्तयन् ॥
सुदुःखिताऽभवत्सा तु पराङ्मुखी विहाय तम्
॥८॥उवाच रोषसंयुक्ता संस्मृत्य देवभाषितम् ॥
तपोवनं व्रजाम्यद्य सुगौरत्वोपलब्धये
॥९॥सुवर्णरूपरूपा च यदा पुनर्भवामि च ॥
तदा तव सानुरागा भवामि चैव नान्यथा
॥१०॥इतीदमेव जल्पंती जगाम विंध्यपर्वतम् ॥
हरः शुशोच ततस्तां क्व गता सा विहाय माम्
॥११॥स्मरंस्तदेव चेष्टितं तदेव पूर्वभाषितम् ॥
तदैव मे वृथा मतिर्मुदा यदा न मानिता
॥१२॥यतो मया हिमाद्रिजा समस्तलोकसुन्दरी ॥
पुरैव नाभिनंदिता गता विहाय मामिति
॥१३॥इतीदमेव सोऽवदद्गतस्त्वद्दर्शनं ततः ॥
प्रियावियोगमीदृशं गुरुं न सोढुमुत्सहे
॥१४॥ततो जगद्धि संकुलं महाभयेन संयुतम् ॥
सुरासुरा महर्षयः परं विषादमभ्यगुः
॥१५॥विहाय मंदिराणि ते परं विषादमागताः ॥
हरस्तुतिं परां च ते प्रचक्रुरद्भुतोपमाः
॥१६॥सनत्कुमार उवाच
न दृश्यते यदा देवो रुद्रो बालेंदुशेखरः ॥
नष्टालोकं जगत्सर्वं कांतारमभवत्तदा
॥१७॥त्रीणि नेत्राणि रुद्रस्य यतः सूर्येंदुव ह्नयः ॥
गते रुद्रे न ते भांति जगत्यस्मिंश्चराचरे
॥१८॥ततस्तमसि दुस्तारे संभूते लोमहर्षणे ॥
अन्योन्यं हि न पश्यंति सुरासुरास्तमोवृताः
॥१९॥एषा बुद्धिस्ततस्तेषामुत्पन्ना कार्यसिद्धये ॥
यया बुद्ध्या जगन्नाथो ज्ञायते पार्वतीपतिः
॥२०॥न ह्यालोको विना तेन शशिसूर्याग्निच क्षुषा ॥
परस्परं ब्रुवंति स्म दुःखितास्ते विसंज्ञया
॥२१॥हे देव हे मुने सिद्धे हे ऋषे हे निशाचर ॥
हे दैत्य हे दनुश्रेष्ठ हे मनुष्यनिदेशक
॥२२॥गतोऽसि कां दिशं तात को वा लब्धस्त्वया विभो ॥
क्वचिद्विश्रामभूमिस्ते क्वचिदालंबनेऽपि वा
॥२३॥पाथेयमस्ति किंचित्ते दिशि किं वाथ कुत्रचित् ॥
प्रकाशं वाहनं छत्रमशनं शयनं गृहम्
॥२४॥क्वचिद्वासि कथं तोयमथवा चित्तनिर्वृतिः ॥
बन्धुः पुत्रोऽसि वा तात वृक्ष च्छाया सुशीतला
॥२५॥एवं प्रकारं करुणं समाभाष्य परस्परम् ॥
भूयश्चिन्तापराः सर्वे देवाश्चेंद्रपुरोगमाः
॥२६॥भूमेर्विवरमाश्रित्य प्राणिनो ये वसंत्यपि ॥
रसातले च दैतेयाः संस्थिताः पन्नगाश्च ये
॥२७॥न तेषां विद्यते सूर्यो नेन्दुर्नान्ये महाग्रहाः ॥
नाग्निर्देवमुखं विद्युन्नैव तारकको टयः
॥२८॥केनालोकेन पश्यंति समानि विषमाणि च ॥
नरकस्था नरा लोके न पश्यंत्यन्यलोकगाः
॥२९॥विचरन्तः समं को वा मनो रथशतप्रदः ॥
तृष्णांभः क्षुधितान्नं च श्रांतानामथ वाहनम्
॥३०॥समे शय्या जले नौश्च रोगे सत्परिचारकः ॥
श्रेष्ठौषधीभिः सन्मंत्रैः संपदो व्याधिसंकटे
॥३१॥सुहृद्विदेशे च्छायोष्णे निर्धूमः शिशिरे शिखी ॥
महाभये परित्राणं प्रकाशश्च महानिशि
॥३२॥सर्वदश्चैव सर्वेषां मनोरथशतप्रदः ॥
एक एव भवान्द्योतस्त्वां च जानीमहे वयम्
॥३३॥ब्रुवंत इति ते व्यास शुश्रुवुर्मधुरां गिरम् ॥
श्रुतपूर्वां तमोमध्याद्विष्णोर तुलकर्मणः
॥३४॥न जानंति स्थितः कुत्र भाषते केशवो विभुः ॥
शृणुध्वमिति मे वाक्यं सर्वे चैव समाहिताः
॥३५॥दानमेकं सदा सम्य क्चिंतामणिसमं स्मृतम् ॥
सर्वेषामेव दानानां दीपदानं प्रशस्यते
॥३६॥तच्च देयमतः सर्वैः शृणुध्वं तत्त्वतो भृशम् ॥
मया रसातले पूर्वं नागा नामनुकंपया
॥३७॥उत्पादितो दीपवरो येन ध्वस्तमिदं तमः ॥
एवंभूतस्तु वायूनामप्रधृष्यो महाप्रभः
॥३८॥निष्कंपो निर्मलो हृद्यः सुस्थिरो भास्करप्रभः ॥
नात्युष्णो नातिशीतश्च देव्या योगसमुद्भवः ॥
तेन दीपप्रकाशेन गोकर्णो निर्वृतिं ययौ
॥३९॥नागाः शेषादयः सर्वे नोद्यमानाश्च संघशः ॥
दीपाद्दीपसहस्राणि ददुस्ते वै शिवाग्रतः
॥४०॥पर्वतेषु समुद्रेषु वनेषूपवनेषु च ॥
नदीतीरेषु सर्वत्र दीपान्प्रज्वाल्य रेमिरे
॥४१॥भुंजानाः पञ्च मूलानि दिव्यानि क्षीरसंयुतम् ॥
परमान्नं च मांसानि मकरंदं घृतौदनम्
॥४२॥चन्द्रशालिभवं भक्तं तांबूलं सप्तधा गतम् ॥
मद्यमष्टप्रकारं तु भार्यापीतावशेषकम्
॥४३॥शयनेषु महार्हेषु हृद्यासु वनराजिषु ॥
वृक्षमूलेषु सर्वेषु वनच्छायोपशोभिषु
॥४४॥रमन्ते स्म च ते सर्वे ह्युद्वेष्टंतः परस्परम् ॥
कामतन्त्रोपदिष्टैस्तु शास्त्रैश्च चुंबनादिभिः
॥४५॥सूर्यतापभयान्मुक्ताश्चंद्ररश्मिभयाच्च ते ॥
विमुक्ताश्च भयाद्धोरात्पिपीलिकोद्भवात्तथा
॥४६॥सूर्यतापेन दाहः स्याच्छीतं चंद्रमरीचिभिः ॥
मयूरनकुलाद्यैश्च पिपीलीमरणाद्भयम्
॥४७॥सौवर्णान्दीपका न्कृत्वा द्विजेभ्यस्ते ददुः पुनः ॥
तेन पातालमाश्रित्य कृत्वा भोगवतीं पुरीम्
॥४८॥वसंति सुखिनस्तत्र स्वर्गादष्टगुणैः सुखैः ॥
एवमंधं तमो देवाः पातालाद्दीपतो गतम्
॥४९॥एतद्गुह्यं मया ख्यातं भवतां चानुकम्पया ॥
दीपदानमतोयूयं कुरुध्वं सुसमाहिताः
॥५०॥दीपाग्निना विना नैव तमोदारु प्रदह्यते ॥
नारायणपरा देवा निशम्याथ समाहिताः
॥५१॥पप्रच्छुस्ते पुनः सर्वे हृष्टा दामोदरं विभुम् ॥
ब्रूहि नोग्निं जगन्नाथ स दीपो येन जायते
॥५२॥घोरे तमसि वै मग्ना नाग्निं जानीमहे वयम् ॥
देवानां मानसो वह्निरथ कृष्णेन कीर्तितः
॥५३॥तेन दीपं प्रतिज्वाल्य देवाः शिवपरायणाः ॥
ददुस्ते शिवमुद्दिश्य सर्वाभीष्टफलप्रदम्
॥५४॥दत्ते दीपे ततो देवैर्दृष्टो हृष्टो महेश्वरः ॥
तिमिरं तद्गतं चापि जगद्येन जडीकृतम्
॥५५॥ततो देवाः सुखं प्रापुः स्वर्गे सेन्द्रपुरोगमाः ॥
राज्यं भोगान्वितं प्राप्य सार्धं स्त्रीभिश्च रेमिरे
॥५६॥दीपदानफलं ज्ञात्वा दैतेयाश्चापि विस्मिताः ॥
तथैव तत्फलं ज्ञात्वा व्यास यक्षाश्च विस्मिताः
॥५७॥पूजयित्वा महादेवं पुष्पैश्च निर्मलैर्जलैः ॥
ददुर्दीप सहस्राणि सर्वे शिवपरायणाः
॥५८॥स्वस्थाने चाभवन्सर्वे दीपदानाच्च शोभनाः ॥
स्वेच्छया भुंजते भोगान्बन्धुभृत्यादिसंयुताः
॥५९॥निराहारास्ततो व्यास पिशाचा वै निराश्रयाः ॥
दीपदानफलं ज्ञात्वा सर्वे तेऽतीव विस्मिताः
॥६०॥चंडालादग्निमानीय ददुर्दीपं शिवे रताः ॥
दीपदानफलं ते वै पुत्रदारसमन्विताः
॥६१॥लीढमन्नं गतरसं पूति पर्युषितं तथा ॥
उच्छिष्टं सूतिकास्पृष्टं न मेध्यं चातिलंघितम्
॥६२॥भुंजानास्ते सदा हृष्टा रमंते दुष्टभूमिषु ॥
विद्याधरास्तथा मर्त्याः सिद्धाश्च शिवमानसाः
॥६३॥दीपदानफलं ज्ञात्वा ददुर्दीपं शिवाग्रतः ॥
दीपदानात्ततः सर्वे सर्वभोगसमन्विताः
॥६४॥स्थानेषु मुदितास्तेषु रमंते सुखिनस्तदा ॥
तिमिरं तद्गतं चैव व्यास लोकेषु दीपतः
॥६५॥ततो घोरं स्थितं सम्यक्प्रेतलोकेषु सर्वदा ॥
प्रेतलोकं तदा दृष्ट्वा घोरेण तमसा वृताः
॥६६॥दामोदरं जगन्नाथमूचुः सर्वे सुरोत्तमाः ॥
घोरं चैव तमो हत्वा प्रसन्नास्ते सदा विभो
॥६७॥गंधर्वाश्च तथा यक्षाः सिद्धा विद्याधरोरगाः ॥
वयं चैव तथा मर्त्याः सर्वभोगैश्च संयुताः
॥६८॥स्थानेषु च सदा ह्येषु सुखिनश्च रमामहे ॥
प्रेतलोके नरा ये वै घोरेण तमसा वृताः
॥६९॥वसंति च जगन्नाथ वर्तंते तेऽतिदुःखिताः ॥
यैर्नो कृतं हि तत्कर्म कृष्णालं पापमोहितैः
॥७०॥न तेषां विद्यते किंचिद्यत्प्रकाशं करोति च ॥
घोरे तमसि ते मग्नास्तत्र नार्केन्दुवह्नयः
॥७१॥न सहायो न जायेयं नालंबो न च देशिकाः ॥
न वाहनं न शय्या च केवलं तु महत्तमः
॥७२॥तत्राष्टाविंशतिः ख्याता घोरा नरककोटयः ॥
तमोमयाश्च ताः सर्वाः पापिनां भयदाः सदा
॥७३॥सुखं तत्र कथं कृष्ण लभंते दुःखिता नराः ॥
दारिद्र्यदुःखरोगैश्च मायामोहैश्च सर्वदा
॥७४॥सनत्कुमार उवाच
इति श्रुत्वा तु देवानां प्रार्थनां गरुड ध्वजः ॥
उवाच वचनं हृद्यं मनोरथफलप्रदम्
॥७५॥शृणुध्वं त्रिदशाः सर्वे यत्प्रवक्ष्यामि वो वचः
॥७६॥अवंत्यां वर्तते तीर्थं सद्यः पापहरं परम् ॥
अनरकाख्यं महापुण्यं सर्वतीर्थोत्तमोत्तमम्
॥७७॥कार्तिकस्यासिते पक्षे चतुर्दश्यां समाहितः ॥
तत्र स्नात्वा नरो यस्तु यमध्यानपरायणः
॥७८॥संगृह्य वै तिलान्कृष्णान्पितृभक्तो जितेंद्रियः ॥
दक्षिणाभिमुखो भूत्वा मध्याह्ने सुरसत्तमाः
॥७९॥अपसव्यं तथा कृत्वा मंत्रैः संतर्प येद्यमम् ॥
यमाय धर्मराजाय मृत्यवे चांतकाय च
॥८०॥वैवस्वताय कालाय दक्षाय मनवे तथा ॥
कृष्णाय कृष्णगुप्ताय प्रेतलोकपराय च
॥८१॥हरये रविपुत्राय कालिंदीसोदराय च ॥
तथा वै श्राद्धदेवाय पितृणां पतये तथा
॥८२॥मंत्रैरेभिर्नमःप्रोक्तैरोंकाराद्यैः सुशोभनैः ॥
जलांजलिं सदर्भं वै दद्याच्च तिलसंयुतम्
॥८३॥संतर्पयेद्यमं देवं तिलपात्रं समाहितः ॥
प्राज्ञो विप्राय वै दद्याद्वित्तशाठ्यविवर्जितः
॥८४॥अनेन विधिना यस्तु संतर्पयेद्यमं विभुम् ॥
पितरस्तस्य मुच्यंते निरये ये गता अपि
॥८५॥रात्रिं तत्राथ संप्राप्य मानवः कामसंयुतः ॥
नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे
॥८६॥नमः सूर्याय रुद्राय कालांतपतये नमः ॥
एभिर्मंत्रैर्यमे दीपं यो दद्याद्धृतपूरितम्
॥८७॥कार्तिकं हि समग्रं तु वर्धंते तस्य संपदः ॥
संपूर्णे कार्तिके चैव दीपोद्यापनमाचरेत्
॥८८॥दिवाकराह्नेऽस्तमिते च सूर्ये दीपस्य वर्त्तिं पुरुष प्रमाणाम् ॥
यूपाकृतौ दारुमये करोति यया च धीमान्यमभक्तिचित्तः
॥८९॥निक्षिप्य भूमावथ हस्तमात्रं मूर्ध्नि द्विहस्ताष्टदलान्वितस्य ॥
धार्याश्चतस्रः शुभपट्टिकाश्च च्छिद्रेण युक्ताश्चतुरंगुलेन
॥९०॥तत्कर्णिकायां तु महाप्रकाशो देयो हि दीपः परया च भक्त्या ॥
उदङ्मुखान्दीपवरांस्त थाष्टौ दलेषु तस्या घृतपूर्यमाणाः
॥९१॥अनंगलग्नं धवलं च वस्त्रं नवं सुरक्तं ह्यथवा सुशुक्लम् ॥
वर्त्यां प्रदेयं च स्वके च दद्यात्स्निग्धे त्वखण्डे सुसमे प्रशस्ते
॥९२॥तच्छालिपिष्टोपरि संनिधाय यथा न निर्याति न कंपते च ॥
सर्वं प्रकुर्यात्त्रिगुणप्रमाणं मध्यस्थितस्तस्य च दीपराजः
॥९३॥दलेषु शोभार्थमतीव कुर्यान्मनोरथप्रत्युपलब्धये च ॥
घंटाष्टकं लंबितपुष्पदाम सवस्त्रशोभान्वितमंत्र कार्यम्
॥९४॥संलिप्य भूमिं त्वथ गोमयेन पुनः सुगंधेन जलेन लिप्त्वा ॥
कुर्याद्विचित्रं त्वथ मंडले च दलाष्टकं वै कमलं च रम्यम्
॥९५॥ततो जलं शीतलमानयित्वा आपूर्य चाष्टौ कलशांस्तु रम्यान् ॥
निधाय मूर्ध्नि क्रमशो हि धीमान्फलानि मूलानि तथेक्षुकानि
॥९६॥मध्वाज्ययुक्ता दधिदुग्धपूर्णा नैर्ऋत्यकोणादथ दक्षिणांतम् ॥
धर्माय दद्यादथ शंकराय दामोदरायाप्यथ वेधसे च
॥९७॥प्रजापतिभ्यः क्रमशो हि भक्त्या प्रेतेभ्य इंद्राय तथा पितृभ्यः ॥
होमादिपात्रं तिलचूर्णमेव दद्याद्द्विजानां च सदक्षिणं च
॥९८॥गावो हिरण्यं रजतं च वस्त्रं फलानि मूलानि यवाश्च धान्यम् ॥
गृहं रथं कुंजरमश्वमेव मनोज्ञमन्यं हृदयप्रियं यत्
॥९९॥विद्याधिकेभ्यो द्विजसत्तमेभ्यः पौराणिकेभ्यश्च तथा द्विजेभ्यः ॥
एकैकसु प्रीणनमत्र कुर्याद्दीपैर्दलस्थैश्च यमादिकानाम्
॥१००॥धर्माय देयस्त्वथ मध्यदीप आज्ञां च लब्ध्वा व्रतदेशिकस्य ॥
नृत्येन गीतेन सुशोभने न युक्तं सुवाद्येन च कारयेच्च
॥१॥एतत्समग्रं विधिवच्च कुर्यात्सशक्तिमादौ स्वधनं समीक्ष्य ॥
आहूय विप्राञ्छुभभावयुक्तान्वदेच्च धीमान्परया च भक्त्या
॥२॥दीपान्समग्रान्नव वर्जयित्वा सर्वं नयेयुः स्थितमत्र विप्राः ॥
प्रदक्षिणीकृत्य विसृज्य विप्रांस्ततो भवद्वै स च नक्तभोजी
॥३॥एवं कृते नागलोकाद्विशिष्टं सुखं भवेत्प्रेतलोकेस्थितानाम्
॥४॥एवं ह्यनरके व्यास दीपदानं करोति यः ॥
तस्यैव यत्फलं प्रोक्तं तदिहैकमनाः शृणु
॥५॥विमानैः कामिकैर्दिव्यैरप्सरोगणसेवितैः ॥
उह्यमानो दिवं याति यावच्चंद्रदिवाकरौ
॥१०६॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽनरकेश्वरदीपदानमाहात्म्यवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥