मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ५९

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 59

ततः सुरगणाः सर्वे धूतपापा समाहिताः

सनत्कुमार उवाच

ततः सुरगणाः सर्वे धूतपापा समाहिताः ॥

पुनर्योगबलं प्राप्य स्वाधिकारं ययुः पुरा

॥१॥

एवं व्यास गयातीर्थं कुमुद्वत्यां सुनिश्चित म् ॥

गयायां यानि तीर्थानि पुण्यान्यायतनानि च

॥२॥

तत्तीर्थेषु नरः स्नात्वा तत्तत्तीर्थफलं भवेत् ॥

तथैव च गयाक्षेत्रं गयाश्राद्ध फलप्रदम्

॥३॥

फल्गुश्च सरितां श्रेष्ठा तथैव फलदायिनी ॥

आदिगया बुद्धगया तथा विष्णुपदी स्मृता

॥४॥

गयाकोष्ठस्तथा प्रोक्तो गदाधरपदानि च ॥

वेदिका षोडशी प्रोक्ता तथैव चाक्षयो वटः

॥५॥

प्रेतमुक्तिकरी नित्यं शिला चोक्ता तथैव च ॥

अच्छोदा निम्नगा प्रोक्ता पितॄणां चाश्रमोत्तमः

॥६॥

देवानां दानवानां च यक्षकिन्नररक्षसाम् ॥

पन्नगानां च सर्वेषां तथैवाश्रम उत्तमः

॥७॥

एतत्स्थानेषु सर्वेषु स्नानदानादिकाः क्रियाः ॥

श्राद्धं च विधिवद्देयं तत्तत्तीर्थफलं लभेत्

॥८॥

गयायां पितृरूपेण स्वयमेव जनार्दनः ॥

तं ध्यात्वा पुंडरीकाक्षं मुच्यते च ऋणत्रयात्

॥९॥

एवं व्यास गयातीर्थं पुरावन्त्यां प्रतिष्ठितम् ॥

पश्चात्तु कैकटे जातं यत्र संनिहितोऽसुरः

॥१०॥

तदारभ्य द्विजश्रेष्ठ गया तत्र प्रतिष्ठिता ॥

गदाधरपदाघातैर्महासुरो निपातितः

॥११॥

तत्पदे च महिमानं जनार्दनसमर्पितम्

॥१२॥

पंचक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥

यत्र तत्र करिष्यामि पितॄणां दत्तमक्षयम् ॥

सर्वदा सर्वकालेषु गयाश्राद्धं विधीयते

॥१३॥

संवत्सरे परं व्यास दिनमेकं प्रतिष्ठितम् ॥

कन्यास्थे च दिवा नाथे हस्तनक्षत्रसंयुते ॥

महालयेति तत्प्रोक्तं पितॄणां दत्तमक्षयम्

॥१४॥

सर्वदा सर्वकालेषु गयाश्राद्धं विधीयते

॥१५॥

संवत्सरे परं व्यास दिनमेकं प्रतिष्ठितम् ॥

अन्वष्टकायां कुर्वंति मातॄणां श्राद्धमुत्तमम्

॥१६॥

अक्षय्या जायते तृप्तिः पितॄणां कल्पसंख्यया ॥

एवं व्यास पुरी रम्या स्नानदा नादिकर्मसु

॥१७॥

भूयस्तु संप्रवक्ष्यामि माहात्म्यं परमाद्भुतम् ॥

तच्छृणुष्व मया ख्यातं पवित्रं पापनाशनम्

॥१८॥

सप्तर्षीणां च या भार्या ऋषिपत्न्यः पतिव्रताः ॥

स्वाहादोषपरिभ्रष्टा दूषिताः पावकेन च

॥१९॥

ऋषिभिश्च परित्यक्ता बभ्रमुश्च वनाद्वनम् ॥

एवं बहुतिथे काले नारदो देवदर्शनः

॥२०॥

तासां च प्रियमन्विच्छन्समायातो वनांतरे ॥

ताभिश्च सत्कृतो नित्यं समासीनो धृतव्रतः

॥२१॥

उवाच श्लक्ष्णया वाचा देशकालोचितं वचः ॥

किमिदं विकृतं जातं भवतीनां पराभवः

॥२२॥

कस्माच्च ऋषिभिस्त्यक्ता लोकमातरः पतिव्रताः

॥२३॥

ऋषिपत्न्य ऊचुः

न जानीमो वयं तात येन दोषेण तापसैः ॥

विमुक्ताः साग्निकैः क्षिप्रं कार्तिकेयप्रसंगतः

॥२४॥

लोकापवादजं किंचिज्जातं दिष्टवशादधम् ॥

किं कुर्मो वा क्व गच्छामः किं तपः का च देवता

॥२५॥

यस्याराधनपुण्येन पतिसांनिध्यमाप्नुयुः ॥

एतन्निश्चित्य भो ब्रह्मन्ब्रूहि त्वं वेदतत्त्वतः

॥२६॥

इति पृष्टस्तदा ताभिर्ऋषिपत्नीभिर्नारदः ॥

उवाच सुचिरं ध्यात्वा तासां स शर्महेतवे

॥२७॥

नारद उवाच

श्रूयतां भोस्तपःश्रेष्ठा भवतीनां च कारणम् ॥

महाकालवने रम्ये गयातीर्थमनुत्तमम्

॥२८॥

तत्रैव चाक्षयो नाम न्यग्रोधः शाखिनां वरः ॥

तत्रागमनमात्रेण धूतदोषा भविष्यथ

॥२९॥

सर्वदोषहरं तीर्थं सर्वकामवरप्रदम् ॥

सर्वसौख्यकरं पुण्यं तत्र गच्छत मा चिरम्

॥३०॥

नारदस्य वचः श्रुत्वा ऋषिपन्त्यः सुचोदिताः ॥

महाकालवने व्यास इच्छंत्यः प्रियमात्मनः

॥३१॥

आजग्मुस्तद्वनं तत्र यत्र तीर्थं गयाभिधम् ॥

तत्र गत्वा शुचीभूय स्नानदानादिकाः क्रियाः

॥३२॥

कृतास्ताभिश्च पुण्याभिर्नभस्यस्यासितेतरे ॥

पञ्चम्यामृषिसंज्ञायां ताभिः सुचरितं व्रतम्

॥३३॥

उपोष्य चैकरात्रं तु जागरं चैव योगतः ॥

कृतमात्रे व्रते व्यास धूतपापा बभुः क्षणात्

॥३४॥

भर्तृकोपपरिभ्रष्टाः सद्यः प्राप्ता गृहाश्रमम् ॥

ऋषिभिः साग्निकं दत्तं पूर्ववदृषिसत्तम

॥३५॥

तदाप्रभृति लोकेस्मिन्पंचमी ऋषिसंज्ञिता ॥

ये नराश्चाथ नार्यो यास्तां कुर्वन्ति तु भक्तिः

॥३६॥

नीवाराहारकं कृत्वा शुचीभूय समाहिताः ॥

न तेषां जायते किंचिदापद्दुःखं कदाचन ॥

दुर्भगत्वं च नारीणां न वियोगश्च मातृभिः

॥३८॥

पुत्रतो धनतो वापि कदाचित्संभविष्यति ॥

एवं व्यास समाख्यातं यत्त्वया परिपृच्छितम्

॥३९॥

अवंत्यामीदृशं तीर्थं वर्तते भुवि सत्तम ॥

तादृशं पुण्यदं किंचिन्नास्ति ब्रह्मांडगोलके

॥४०॥

अस्मिंस्तीर्थे नरः कश्चिन्महा दानानि चेच्चरेत् ॥

अक्षयाणि भवंत्यस्य विष्णुलोके महीयते

॥४१॥

यो वै नियमवान्भूत्वा कथामेतां शृणोति वा ॥

पठेच्च सततं व्यास हय मेधफलं लभेत्

॥४२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयातीर्थमाहात्म्य वर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥