मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अवन्तीक्षेत्रमाहात्म्यम्, अध्याय ६७

3
अवन्तीखण्डः · अवन्तीक्षेत्रमाहात्म्यम् · 67

कुटुंबेश्वरमाहात्म्यवर्णनम्

शृणु व्यास परं तीर्थं भुवि विख्यातमुत्तमम् ॥

कुटुम्बेश्वरेति विख्यातो नाम्ना चैव महेश्वरः

॥१॥

तस्य तीर्थवरं तीर्थं सर्वतीर्थफलप्रदम् ॥

यस्मिंस्तीर्थे नरः स्नात्वा कुटुम्बी जायते धुवम्

॥२॥

कुटुम्बार्थं तपस्तेपे पुरा दक्षः प्रजापतिः ॥

नारदेन पुरा व्यास पुत्रषष्टिर्विवासिता

॥३॥

प्रजाकामः स धर्मात्मा सुचिरं व्रतमाचरत् ॥

सपत्नीको महातेजा निराहारो जितेन्द्रियः

॥४॥

अस्मिंस्तीर्थे शुचिः स्नातो जपन्ब्रह्म सनातनम् ॥

वर्षाणामयुतं व्यास तपस्तेपे सुदारुणम्

॥५॥

तेन तीर्थप्रसादेन लभेत्स बहुलां प्रजाम् ॥

प्र जापतिरिति ख्यातो जातो दक्षः प्रतापवान्

॥६॥

ब्रह्माऽपि तत्र वै पश्चात्तपः कृत्वा सुदुष्करम् ॥

निष्कलं कमलं रूपं प्राप्तवांस्तत्क्षणाद्विधिः

॥७॥

महादेवोऽपि तत्रैव प्राप्तवान्ब्रह्मणः पदम् ॥

चतुर्मुखधरं लिंगं दृश्यतेऽद्यापि सत्तम

॥८॥

भद्रपीठधरा देवी भद्रकालीति विश्रुता ॥

तत्रैव च सदा व्यास क्रीडति स्म धृतव्रता

॥९॥

द्वारे तिष्ठति तत्रैव भैरवः क्षेत्रपालकः ॥

पादेन खंजतां यातः पुरा दैत्यवरार्दितः

॥१०॥

पुत्रवत्पालितो देव्या सदा तिष्ठति तत्स्थले ॥

ये ते देवगणाः सर्वे तस्मिंस्तीर्थे प्रतिष्ठिताः

॥११॥

ऋषयोऽपि महाभागाः सदा पर्वणिपर्वणि ॥

आयांति चैव संध्यार्थं बहुपुत्रप्रदे सरे

॥१२॥

अस्मिंस्तीर्थे सदाचाराः स्नानं कुर्वन्ति ये नराः ॥

न तेषां दुर्लभं किंचिज्जायते जन्मजन्मनि

॥१३॥

महाबाधासु घोरासु महामारीषु तत्परैः ॥

हवनं क्रियते नित्यं सर्षपै राजिकैर्यवैः

॥१४॥

पायसै र्विविधैर्भोगैस्तेषां दोषो न जायते ॥

दुर्भिक्षे राज्यभ्रंशे च संग्रामे भृशदारुणे

॥१५॥

पूजयेत्क्षेत्त्रपालं च सर्वाऽऽपदि समाहितः ॥

सर्वदुःखवि निर्मुक्तो जायते नाऽत्र संशयः

॥१६॥

स्नात्वा कुटुंबके तीर्थे पूजयित्वा महेश्वरम् ॥

दानं कूष्मांडकं दद्याद्ब्राह्मणाय तपस्विने

॥१७॥

सौवर्णमणि मुक्ताभिर्वासोऽलंकारसंयुतम् ॥

धनधान्यसमायुक्तः कुटुंबी जायते नरः

॥१८॥

फाल्गुने च सिते पक्षे या वै चतुर्दशी भवेत् ॥

त्रयोदशीयुता व्यास शिवरात्रिस्तथोच्यते

॥१९॥

तद्दिने च नरः स्नात्वा रात्रौ जागरणं चरेत् ॥

बिल्वोदकेन गंधेन बहुपुष्पफलैस्तथा

॥२०॥

धूपैर्दीपैश्च नैवेद्यैर्वासोऽलंकारकादिभिः ॥

पूजयेद्यो नरो भक्त्या गिरीशं सगणं परम्

॥२१॥

तस्य पापं क्षयं याति शिवलोके महीयते ॥

द्वादशैकादशीपुण्यं लभते भुवि मानवः

॥२२॥

अश्वमेधफलं तस्य जागरे च क्षणेक्षणे ॥

ततस्तु प्रातरुत्थाय स्नानदानादिकाः क्रियाः

॥२३॥

कृत्वा तु विधिवद्व्यास शिवपूजाऽर्चनं तथा ॥

विप्रांश्च भोजयेत्सप्त तस्य पुण्यफलं शृणु

॥२४॥

कपिलानां सवत्सानां सहस्राणि चतुर्दश ॥

वाजपेय सहस्रस्य फलं प्राप्नोति नान्यथा

॥२५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये कुटुंबेश्वरमाहात्म्यवर्णनंनाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥