मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय १

3
तृतीयस्कन्धः · 1

एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल

श्रीशुक उवाच

एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल ।

क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृह ऋद्धिमत्

॥१॥

यद्वा अयं मंत्रकृद्वो भगवान् अखिलेश्वरः ।

पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम्

॥२॥

राजोवाच

कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः ।

कदा वा सहसंवाद एतद् वर्णय नः प्रभो

॥३॥

न ह्यल्पार्थोदयस्तस्य विदुरस्य अमलात्मनः ।

तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः

॥४॥

सूत उवाच

स एवं ऋषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।

प्रत्याह तं सुबहुवित् प्रीतात्मा श्रूयतामिति

॥५॥

श्रीशुक उवाच

यदा तु राजा स्वसुतानसाधून् पुष्णन् न धर्मेण विनष्टदृष्टिः ।

भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह

॥६॥

यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम् ।

न वारयामास नृपः स्नुषायाः स्वास्रैर्हरन्त्याः कुचकुङ्कुमानि

॥७॥

द्यूते त्वधर्मेण जितस्य साधोः सत्यावलंबस्य वनं गतस्य ।

न याचतोऽदात् समयेन दायं तमोजुषाणो यदजातशत्रोः

॥८॥

यदा च पार्थप्रहितः सभायां जगद्गुरुर्यानि जगाद कृष्णः ।

न तानि पुंसां अमृतायनानि राजोरु मेने क्षतपुण्यलेशः

॥९॥

यदोपहूतो भवनं प्रविष्टो मंत्राय पृष्टः किल पूर्वजेन ।

अथाह तन्मंत्रदृशां वरीयान् यन्मंत्रिणो वैदुरिकं वदन्ति

॥१०॥

अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः ।

सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत्त्वमलं बिभेषि

॥११॥

पार्थांस्तु देवो भगवान् मुकुन्दो गृहीतवान् स क्षितिदेवदेवः ।

आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेष नृदेवदेवः

॥१२॥

स एष दोषः पुरुषद्विडास्ते गृहान् प्रविष्टो यमपत्यमत्या ।

पुष्णासि कृष्णाद्विमुखो गतश्रीः त्यजाश्वशैवं कुलकौशलाय

॥१३॥

इति ऊचिवान् तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण ।

असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन

॥१४॥

क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः ।

तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसानः

॥१५॥

स इत्थमत्युल्बणकर्णबाणैः भ्रातुः पुरो मर्मसु ताडितोऽपि ।

स्वयं धनुर्द्वारि निधाय मायां गतव्यथोऽयादुरु मानयानः

॥१६॥

स निर्गतः कौरवपुण्यलब्धो गजाह्वयात् तीर्थपदः पदानि ।

अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां स्वधिष्ठितो यानि सहस्रमूर्तिः

॥१७॥

पुरेषु पुण्योपवनाद्रिकुञ्जे ष्वपङ्कतोयेषु सरित्सरःसु ।

अनन्तलिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्वनन्यः

॥१८॥

गां पर्यटन् मेध्यविविक्तवृत्तिः सदाप्लुतोऽधः शयनोऽवधूतः ।

अलक्षितः स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि

॥१९॥

इत्थं व्रजन् भारतमेव वर्षं कालेन यावद्गतवान् प्रभासम् ।

तावच्छशास क्षितिमेक चक्रां एकातपत्रामजितेन पार्थः

॥२०॥

तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुज वह्निसंश्रयम् ।

संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम्

॥२१॥

तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः ।

तीर्थं सुदासस्य गवां गुहस्य यत् श्राद्धदेवस्य स आसिषेवे

॥२२॥

अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः ।

प्रत्यङ्ग मुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णमनुस्मरन्ति

॥२३॥

ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च ।

कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श

॥२४॥

स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक्तनयं प्रतीतम् ।

आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानां अपृच्छद् भागवत्प्रजानाम्

॥२५॥

कच्चित्पुराणौ पुरुषौ स्वनाभ्य पाद्मानुवृत्त्येह किलावतीर्णौ ।

आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे

॥२६॥

कच्चित् कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः ।

यो वै स्वसॄणां पितृवद् ददाति वरान् वदान्यो वरतर्पणेन

॥२७॥

कच्चिद् वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीरः ।

यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे

॥२८॥

कच्चित्सुखं सात्वतवृष्णिभोज दाशार्हकाणामधिपः स आस्ते ।

यमभ्यषिञ्चत् शतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात्

॥२९॥

कच्चिद् हरेः सौम्य सुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः ।

असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे

॥३०॥

क्षेमं स कच्चिद् युयुधान आस्ते यः फाल्गुनात् लब्धधनूरहस्यः ।

लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम्

॥३१॥

कच्चिद् बुधः स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः ।

यः कृष्णपादाङ्कितमार्गपांसु ष्वचेष्टत प्रेमविभिन्नधैर्यः

॥३२॥

कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः ।

या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम्

॥३३॥

अपिस्विदास्ते भगवान् सुखं वो यः सात्वतां कामदुघोऽनिरुद्धः ।

यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम्

॥३४॥

अपिस्विदन्ये च निजात्मदैवं अनन्यवृत्त्या समनुव्रता ये ।

हृदीकसत्यात्मज चारुदेष्ण गदादयः स्वस्ति चरन्ति सौम्य

॥३५॥

अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् ।

दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या

॥३६॥

किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् ।

यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम्

॥३७॥

कच्चिद् यशोधा रथयूथपानां गाण्डीव धन्वोपरतारिरास्ते ।

अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष

॥३८॥

यमावुतस्वित्तनयौ पृथायाः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव ।

रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात्

॥३९॥

अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन ।

यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः

॥४०॥

सौम्यानुशोचे तमधःपतन्तं भ्रात्रे परेताय विदुद्रुहे यः ।

निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन

॥४१॥

सोऽहं हरेर्मर्त्यविडम्बनेन दृशो नृणां चालयतो विधातुः ।

नान्योपलक्ष्यः पदवीं प्रसादात् चरामि पश्यन् गतविस्मयोऽत्र

॥४२॥

नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभिः ।

वधात्प्रपन्नार्तिजिहीर्षयेशोऽपि उपैक्षताघं भगवान् कुरूणाम्

॥४३॥

अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।

नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतंत्रम्

॥४४॥

तस्य प्रपन्नाखिललोकपानां अवस्थितानां अनुशासने स्वे ।

अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्तेः

॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे प्रथमोऽध्यायः ॥ १ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 1