मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय १८

3
तृतीयस्कन्धः · 18

तदेवमाकर्ण्य जलेशभाषितं महामनास्तद् विगणय्य दुर्मदः

मैत्रेय उवाच

तदेवमाकर्ण्य जलेशभाषितं महामनास्तद् विगणय्य दुर्मदः ।

हरेर्विदित्वा गतिमङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः

॥१॥

ददर्श तत्राभिजितं धराधरं प्रोन्नीयमान अवनिं अग्रदंष्ट्रया ।

मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया जहास चाहो वनगोचरो मृगः

॥२॥

आहैनमेह्यज्ञ महीं विमुञ्च नो रसौकसां विश्वसृजेयमर्पिता ।

न स्वस्ति यास्यस्यनया ममेक्षतः सुराधमासादितसूकराकृते

॥३॥

त्वं नः सपत्नैः अभवाय किं भृतो यो मायया हन्त्यसुरान् परोक्षजित् ।

त्वां योगमायाबलमल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः

॥४॥

त्वयि संस्थिते गदया शीर्णशीर्षणि अस्मद्भुजच्युतया ये च तुभ्यम् ।

बलिं हरन्ति ऋषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्यमूलाः

॥५॥

स तुद्यमानोऽरिदुरुक्ततोमरैः दंष्ट्राग्रगां गां उपलक्ष्य भीताम् ।

तोदं मृषन् निरगाद् अम्बुमध्याद् ग्राहाहतः सकरेणुर्यथेभः

॥६॥

तं निःसरन्तं सलिलाद् अनुद्रुतो हिरण्यकेशो द्विरदं यथा झषः ।

करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद् गतह्रियां किं त्वसतां विगर्हितम्

॥७॥

स गां उदस्तात् सलिलस्य गोचरे विन्यस्य तस्यां अदधात् स्वसत्त्वम् ।

अभिष्टुतो विश्वसृजा प्रसूनैः आपूर्यमाणो विबुधैः पश्यतोऽरेः

॥८॥

परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम् ।

मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्डमन्युः प्रहसन् तं बभाषे

॥९॥

श्रीभगवानुवाच

सत्यं वयं भो वनगोचरा मृगा युष्मद्विधान्मृगये ग्रामसिंहान् ।

न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्यभद्र

॥१०॥

एते वयं न्यासहरा रसौकसां गतह्रियो गदया द्रावितास्ते ।

तिष्ठामहेऽथापि कथञ्चिदाजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम्

॥११॥

त्वं पद्-रथानां किल यूथपाधिपो घटस्व नोऽस्वस्तय आश्वनूहः ।

संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः

॥१२॥

मैत्रेय उवाच

सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् ।

आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव

॥१३॥

सृजन् अमर्षितः श्वासान् मन्युप्रचलितेन्द्रियः ।

आसाद्य तरसा दैत्यो गदया न्यहनद् हरिम्

॥१४॥

भगवान् तु गदावेगं विसृष्टं रिपुणोरसि ।

अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम्

॥१५॥

पुनर्गदां स्वां आदाय भ्रामयन्तं अभीक्ष्णशः ।

अभ्यधावद् हरिः क्रुद्धः संरम्भाद् दष्टदच्छदम्

॥१६॥

ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः ।

आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत्

॥१७॥

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च ।

जिगीषया सुसंरब्धौ अन्योन्यं अभिजघ्नतुः

॥१८॥

तयोः स्पृधोस्तिग्मगदाहताङ्गयोः क्षतास्रवघ्राणविवृद्धमन्य्वोः ।

विचित्रमार्गांश्चरतोर्जिगीषया व्यभादिलायामिव शुष्मिणोर्मृधः

॥१९॥

दैत्यस्य यज्ञावयवस्य माया गृहीतवाराहतनोर्महात्मनः ।

कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागाद् ऋषिभिर्वृतः स्वराट्

॥२०॥

आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम् ।

विलक्ष्य दैत्यं भगवान् सहस्रणीः जगाद नारायणमादिसूकरम्

॥२१॥

ब्रह्मोवाच

एष ते देव देवानां अङ्घ्रिमूलमुपेयुषाम् ।

विप्राणां सौरभेयीणां भूतानां अपि अनागसाम्

॥२२॥

आगस्कृद् भयकृद् दुष्कृद् अस्मद् राद्धवरोऽसुरः ।

अन्वेषन् अप्रतिरथो लोकान् अटति कण्टकः

॥२३॥

मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम् ।

आक्रीड बालवद्देव यथाऽऽशीविषमुत्थितम्

॥२४॥

न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः ।

स्वां देव मायां आस्थाय तावत् जह्यघमच्युत

॥२५॥

एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो ।

उपसर्पति सर्वात्मन् सुराणां जयमावह

॥२६॥

अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् ।

शिवाय नस्त्वं सुहृदां आशु निस्तर दुस्तरम्

॥२७॥

दिष्ट्या त्वां विहितं मृत्युं अयं आसादितः स्वयम् ।

विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि

॥२८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 18