मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — तृतीयस्कन्धः, अध्याय २३

3
तृतीयस्कन्धः · 23

पितृभ्यां प्रस्थिते साध्वी पतिं इङ्कितकोविदा

मैत्रेय उवाच

पितृभ्यां प्रस्थिते साध्वी पतिं इङ्कितकोविदा ।

नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम्

॥१॥

विश्रम्भेणात्मशौचेन गौरवेण दमेन च ।

शुश्रूषया सौहृदेन वाचा मधुरया च भोः

॥२॥

विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् ।

अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत्

॥३॥

स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् ।

दैवाद्गरीयसः पत्युः आशासानां महाशिषः

॥४॥

कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।

प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत्

॥५॥

कर्दम उवाच

तुष्टोऽहमद्य तव मानवि मानदायाः शुश्रूषया परमया परया च भक्त्या ।

यो देहिनामयमतीव सुहृत्स्वदेहो नावेक्षितः समुचितः क्षपितुं मदर्थे

॥६॥

ये मे स्वधर्मनिरतस्य तपःसमाधि विद्यात्मयोगविजिता भगवत्प्रसादाः ।

तानेव ते मदनुसेवनयावरुद्धान् दृष्टिं प्रपश्य वितराम्यभयानशोकान्

॥७॥

अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ विभ्रंशितार्थरचनाः किमुरुक्रमस्य ।

सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान् दिव्यान् नरैर्दुरधिगान् नृपविक्रियाभिः

॥८॥

एवं ब्रुवाणमबलाखिलयोगमाया विद्याविचक्षणमवेक्ष्य गताधिरासीत् ।

सम्प्रश्रयप्रणयविह्वलया गिरेषद् व्रीडावलोकविलसद् हसिताननाह

॥९॥

देवहूतिरुवाच

राद्धं बत द्विजवृषैतदमोघयोग मायाधिपे त्वयि विभो तदवैमि भर्तः ।

यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो भूयाद्गरीयसि गुणः प्रसवः सतीनाम्

॥१०॥

तत्रेतिकृत्यमुपशिक्ष यथोपदेशं येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा ।

सिद्ध्येत ते कृतमनोभवधर्षिताया दीनस्तदीश भवनं सदृशं विचक्ष्व

॥११॥

मैत्रेय उवाच

प्रियायाः प्रियमन्विच्छन् कर्दमो योगमास्थितः ।

विमानं कामगं क्षत्तः तर्ह्येवाविरचीकरत्

॥१२॥

सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ।

सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम्

॥१३॥

दिव्योपकरणोपेतं सर्वकालसुखावहम् ।

पट्टिकाभिः पताकाभिः विचित्राभिः अलङ्कृतम्

॥१४॥

स्रग्भिर्विचित्रमाल्याभिः मञ्जुशिञ्जत् षडङ्घ्रिभिः ।

दुकूलक्षौमकौशेयैः नानावस्त्रैः विराजितम्

॥१५॥

उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक् ।

क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः

॥१६॥

तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम् ।

महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः

॥१७॥

द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत् ।

शिखरेषु इन्द्रनीलेषु हेमकुम्भैः अधिश्रितम्

॥१८॥

चक्षुष्मत् पद्मरागाग्र्यैः वज्रभित्तिषु निर्मितैः ।

जुष्टं विचित्रवैतानैः महार्हैः हेमतोरणैः

॥१९॥

हंसपारावतव्रातैः तत्र तत्र निकूजितम् ।

कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च

॥२०॥

विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः ।

यथोपजोषं रचितैः विस्मापनम् इवात्मनः

॥२१॥

ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा ।

सर्वभूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम्

॥२२॥

निमज्ज्यास्मिन् ह्रदे भीरु विमानं इदमारुह ।

इदं शुक्लकृतं तीर्थं आशिषां यापकं नृणाम्

॥२३॥

सा तद्भर्तुः समादाय वचः कुवलयेक्षणा ।

सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान्

॥२४॥

अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् ।

आविवेश सरस्वत्याः सरः शिवजलाशयम्

॥२५॥

सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः ।

सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः

॥२६॥

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ।

वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्

॥२७॥

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ।

दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः

॥२८॥

भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ।

अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्

॥२९॥

अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ।

विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्

॥३०॥

स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम् ।

निष्कग्रीवं वलयिनं कूजत् काञ्चननूपुरम्

॥३१॥

श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया ।

हारेण च महार्हेण रुचकेन च भूषितम्

॥३२॥

सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा ।

पद्मकोशस्पृधा नीलैः अलकैश्च लसन्मुखम्

॥३३॥

यदा सस्मार ऋषभं ऋषीणां दयितं पतिम् ।

तत्र चास्ते सह स्त्रीभिः यत्रास्ते स प्रजापतिः

॥३४॥

भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ।

निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत

॥३५॥

स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् ।

आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम्

॥३६॥

विद्याधरीसहस्रेण सेव्यमानां सुवाससम् ।

जातभावो विमानं तद् आरोहयद् अमित्रहन्

॥३७॥

तस्मिन् अलुप्तमहिमा प्रिययानुरक्तो विद्याधरीभिरुपचीर्णवपुर्विमाने ।

बभ्राज उत्कचकुमुद्गणवानपीच्यः ताराभिरावृत इव उडुपतिः नभःस्थः

॥३८॥

तेनाष्टलोकपविहारकुलाचलेन्द्र द्रोणीष्वनङ्गसखमारुतसौभगासु ।

सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्ललनावरूथी

॥३९॥

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।

मानसे चैत्ररथ्ये च स रेमे रामया रतः

॥४०॥

भ्राजिष्णुना विमानेन कामगेन महीयसा ।

वैमानिकानत्यशेत चरन् लोकान् यथानिलः

॥४१॥

किं दुरापादनं तेषां पुंसां उद्दामचेतसाम् ।

यैराश्रितस्तीर्थपदः चरणो व्यसनात्ययः

॥४२॥

प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया ।

बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत

॥४३॥

विभज्य नवधाऽऽत्मानं मानवीं सुरतोत्सुकाम् ।

रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत्

॥४४॥

तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ।

न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता

॥४५॥

एवं योगानुभावेन दम्पत्यो रममाणयोः ।

शतं व्यतीयुः शरदः कामलालसयोर्मनाक्

॥४६॥

तस्यां आधत्त रेतस्तां भावयन् आत्मनाऽऽत्मवित् ।

नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः

॥४७॥

अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः ।

सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः

॥४८॥

पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती बहिः ।

स्मयमाना विक्लवेन हृदयेन विदूयता

॥४९॥

लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया ।

उवाच ललितां वाचं निरुध्याश्रुकलां शनैः

॥५०॥

देवहूतिरुवाच

सर्वं तद्भगवान् मह्यं उपोवाह प्रतिश्रुतम् ।

अथापि मे प्रपन्नाया अभयं दातुमर्हसि

॥५१॥

ब्रह्मन् दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः ।

कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम्

॥५२॥

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ।

इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः

॥५३॥

इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः ।

अजानन्त्या परं भावं तथाप्यस्तु अभयाय मे

॥५४॥

सङ्गो यः संसृतेर्हेतुः असत्सु विहितोऽधिया ।

स एव साधुषु कृतो निःसङ्गत्वाय कल्पते

॥५५॥

नेह यत्कर्म धर्माय न विरागाय कल्पते ।

न तीर्थपदसेवायै जीवन्नपि मृतो हि सः

॥५६॥

साहं भगवतो नूनं वञ्चिता मायया दृढम् ।

यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात्

॥५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥

fr:Le Bhâgavata Purâna/Livre III/Chapitre 23